संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २३८

आचारकाण्डः - अध्यायः २३८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीभगवानुवाच ।
यमश्च नियम.पार्थ आसनं प्राणसंयमः ।
प्रत्याहारस्तथा ध्यानं धारणार्जुन सप्तमी ॥१॥

समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये ।
कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥२॥

हिंसाविरामको धर्मो ह्याहिंसा परमं सुखम् ।
विधिना या भवेद्धिंसा सा त्वहिंसा प्रकीर्तिता ॥३॥

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥४॥

यच्चद्रव्यापहरणं चौर्याद्वाथ बलेन वा ।
स्तेयं तस्यानाचरणमस्तेयं धर्मसाधनम् ॥५॥

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥६॥

द्रव्याणामप्यनादानमापत्स्वपि तथेच्छया ।
अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्जयेत् ॥७॥

द्विधा शौचं मृज्जलाभ्यां बाह्य भावादथान्तरात् ।
यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ॥८॥

मनसश्चैन्द्रियाणां च ऐकाग्र्यं परमं तपः ।
शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ॥९॥

वेदान्तशतरुद्रीयप्रणवादिजप बुधाः ।
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥१०॥

स्तुतिस्मरणपूजादिवाङ्मनः कायकर्मभिः ।
अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ।
आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ॥११॥

प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ।
इन्द्रियाणां विचरतां विषयेषु त्वसत्स्विव ॥१२॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीमद्भगवद्गीतासारनिरूपणं नाम अष्टत्रिंशदुत्तरद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP