संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०८

आचारकाण्डः - अध्यायः १०८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ।
नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम् ।
राजादिभ्यो हितं पुण्यमायुः स्वर्गादिदायकम् ॥१॥

सद्भिः सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः ।
नासद्भिरिहलोकाय परलोकाय वा हितम् ॥२॥

वर्जयेत्क्षुद्रसंवादमदुष्टस्य तु दर्शनम् ।
विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना ॥३॥

मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च ।
दुष्टानां संप्रयोगेण पण्डितोऽप्यवसीदति ॥४॥

ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् ।
शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥५॥

कालेन रिपुणासन्धिः काले मित्रेण विग्रहः ।
कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥६॥

कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥७॥

कालेषु हरते वीर्यं काले गर्भे च वर्तते ।
कालो जनयते सृष्टिं पुनः कालोऽपि संहरेत् ॥८॥

कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते ।
स्थूलसंग्रहचारेण सूक्ष्मचारान्तरेण च ॥९॥

नीतिसारं सुरेन्द्राय इममूच बृहस्पतिः ।
सर्वज्ञो येन चेन्द्रोऽभूद्दैत्यान्हत्वाप्नुयाद्दिवम् ॥१०॥

राजर्षिब्राह्मणैः कार्यं देवविप्रादिपूजनम् ।
अश्वमेधेन यष्टब्यं महापातकनाशनम् ॥११॥

उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम् ।
अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥१२॥

परीवादं परार्थं च परिहासं परस्त्रियम् ।
परवेश्मनि वासं च न कुर्वीत कदाचन ॥१३॥

परोऽपि हितवाबन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥१४॥

स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥१५॥

स भृत्यो यो विधेयस्तु तद्बीजं यत्प्ररोहति ।
सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥१६॥

स जीवति गुणा यस्य धर्मो यस्य स जीवति ।
गुणधर्मविहीनो यो निष्फल तस्य जीवनम् ॥१७॥

सा भार्या या गृहे दक्षा सा भार्याया प्रियंवदा ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥१८॥

नित्य स्नाता सुगन्धा च नित्यं च प्रियवादिनी ।
अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता ॥१९॥

सततं धर्मबहुला सततं च पतिप्रिया ।
सततं प्रियवक्री च सततं त्वृतुकामिनी ॥२०॥

एतदादिक्रियायुक्ता सर्वसौ भाग्यवर्धिनी ।
यस्येदृशी भवेद्भाय्या स देवेन्द्रोन मानुषः ॥२१॥

यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया ।
उत्तरोत्तरवादा स्या सा जरा न जरा जरा ॥२२॥

यस्य भार्या श्रितान्यञ्च परवेश्माभिकाङ्क्षिणी ।
कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥२३॥

यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी ।
अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥२४॥

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासोमृत्युरेव न संशयः ॥२५॥

त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्र स्मर नित्यमनित्यताम् ॥२६॥

व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा या च रौद्री या कृष्णा व्याकुलागी रुधिरनयनसंव्याकुला व्याघ्रकल्पा ।
क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विराक्त ॥२७॥

सक्तिः सुतोके सुकृतं कृतघ्ने शतिं च वह्नौ (सीतापहौ ह्यतपयैव)?हैमे ।
उत्पद्यते दैववशात्कदाचिद्वेश्यासु रागो न भवेत्कदाचित् ॥२८॥

भुजङ्गमे वेश्मनि दृष्टिदृष्टे व्याधौ चिकित्साविनिवर्तिते च ।
देहे च बाल्यादिवयोऽन्विते च काला वृतोऽसौ लभते धृतिं कः ॥२९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पतिप्रोक्तनीतिसारनिरूपणं नामाष्टोत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP