आचारकाण्डः - अध्यायः १११
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
सूत उवाच ।
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् ।
सर्वाणि हि महीपालः सम्यङ्नित्यं परीक्षयेत् ॥१॥
राज्यं पालयते नित्यं सत्यधर्मपरायणः ।
निर्जित्य परसैन्यानि क्षितं धर्मेण पालयेत् ॥२॥
पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारण्ये न यथाङ्गारकारकः ॥३॥
दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते ।
परराष्ट्रं महीपालैर्भोक्तव्यं न च दूषयेत् ॥४॥
नोधश्छिन्द्यात्तु यो धेन्वाः क्षारार्थो लभते पयः ।
एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते ॥५॥
तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेन् ।
पालकस्य भवेद्भूमिः कीर्तिरायुर्यशो बलम् ॥६॥
आभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः ।
प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः ॥७॥
ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मतिञ्चरेत् ।
क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ॥८॥
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु वै वनितापाङ्गभङ्गिलोलं हि जीवितम् ॥९॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रभवन्ति गात्रे ।
आयुः परिस्त्रवति भिन्नघटादिवाम्भो लोको न चात्महितमाचरतीह कश्चित् ॥१०॥
निः शङ्कं किं मनुष्याः कुरुत परहितं युक्तमग्रे हितं यन्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्ट्या ।
मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव आयुर्निः शेषमेति स्खलति जलघटीभूतमृत्युच्छलेन ॥११॥
मातृवत्परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥१२॥
एतदर्थं हि विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः ।
यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥१३॥
एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम् ।
रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ॥१४॥
ओङ्कारशब्दो विप्राणां येन राष्ट्रं प्रवर्धते ।
स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते ॥१५॥
असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम् ।
किं पुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः ॥१६॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स मुमांल्लाके यस्यार्थाः स च पण्डितः ॥१७॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
ते चार्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥१८॥
अन्धा हि राजा भवति यस्तु सास्त्रविवर्जितः ।
अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥१९॥
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः ।
इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि ॥२०॥
येनार्जितास्त्रयोऽप्योऽप्येते पुत्रा भृत्याश्च बान्धवाः ।
जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा ॥२१॥
लङ्घयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च ।
सहि नश्यति वै राजा इह लोके परत्र च ॥२२॥
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः ।
समबुद्धिः प्रसन्नात्मा प्रसन्नात्मा सुखदुःखे समो भवेत् ॥२३॥
धीराः कष्टमनुप्राप्य न भवन्ति विषादिनः ।
प्रविश्य वदनं राहोः किं नोदति पुनः शशी ॥२४॥
धिग्धिक्शरीरसुखलालितमानवेषु मा खेदयेद्धनकृशं हि शरीरमेव ।
सद्दारका ह्यधनपाण्डुसुताः श्रुता हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः ॥२५॥
गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान् ।
धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः ॥२६॥
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम् ॥२७॥
चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेत् ।
मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥२८॥
लीलां करोति यो राजा भृत्यस्वजनगर्वितः ।
शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते ॥२९॥
हुङ्कारे भृकुटीं नैव सदा कुर्वीत पार्थिवः ।
विना दोषेण यो भृत्यान्राजाधमण शास्ति च ।
लीलासुखानि भोग्यानि त्यजेदिह महीपतिः ॥३०॥
सुखप्रवृत्तैः साध्यन्तै शत्रवो विग्रहे स्थितैः ॥३१॥
उद्योगः साहसंधैर्यं बुद्धिः शक्तिः पराक्रमः ।
षड्विधो यस्य उत्साहस्तस्य देवोऽपि शङ्कते ॥३२॥
उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते ।
दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥३३॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे एकादशोत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP