आचारकाण्डः - अध्यायः १९३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
पलाण्डुजीरके कुष्ठमश्वगन्धाजमोदकम् ।
वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥१॥
ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् ।
सप्ताहं भक्षितं कुर्यान्निर्मलाञ्च मतिं पराम् ॥२॥
सिद्धार्थकं वचा हिङ्गु करञ्जं देवदारु च ।
मञ्जिष्ठा त्रिफला विश्वं शिरीषो रजनीद्वयम् ॥३॥
प्रियङ्गुनिम्बत्रिक्रटु गोमूत्रेणैव घर्षितम् ।
नसयमालेपनञ्चैव तथा चोद्वर्तनं हितम् ॥४॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्चभयं हन्ति राजद्वारेषु योजनात् ॥५॥
निम्बं कुष्ठं हरिद्रे द्वे शिग्रु सर्षपजं तथा ।
देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम् ॥६॥
देहं तैलाक्त गात्रं वै नयेदुद्वर्तनेन च ।
पामाः कुष्ठानि नश्येयुः कण्डूं हन्ति च निश्चितम् ॥७॥
सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम् ।
कटुलोहरजश्चैवं त्रिवृत्सूरणकं समम् ।
दधिगोमूत्रपयसा मन्दपावकपाचितम् ॥८॥
बलाग्निवर्धकं चूर्णं पिबेदुष्णेन वारिणा ।
जीर्णेऽजीर्णे तु भुञ्जति मांस्यादिघृतमुत्तमम् ॥९॥
नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ।
सर्वशूलहरं चूर्णं जठरानलदीपनम् ।
परिणामसमुत्थस्य शूलस्य च हितं परम् ॥१०॥
अभयामलकं द्राक्षा पिप्पली कण्टकारिका ।
शृङ्गी पुनर्नवा शुण्ठी जग्धा कासं निहन्ति वै ॥११॥
अभयामलकं द्राक्षा पाठा चैव विभीतकम् ।
शर्कराया समं चैव जग्धं ज्वरहरं भवेत् ॥१२॥
त्रिफला बदरं द्राक्षा पिप्पली च विरेककृत् ।
हरीतकी सोष्णानीरलवणञ्च विरेककृत् ॥१३॥
कूर्ममत्स्याश्वमहिषगोशृगालाश्च वानराः ।
विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः ॥१४॥
हंस एषाञ्च विण्मूत्रं मांसं वा रोम शोणितम् ।
धूपं दद्याज्ज्वरार्तेभ्य उन्मत्तेभ्यश्च शान्तये ॥१५॥
एतान्यौषधजातानि कथितानि उमापते ।
निघ्नन्ति ताश्च रोगांश्च वृक्षमिन्द्राशनिर्यथा ॥१६॥
औषधंभगवान्विष्णुः संस्मृतो रोगनुद्भवेत् ।
ध्यातोऽर्चितः स्तुतो वापि नात्र कार्या विचारणा ॥१७॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिनवत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP