संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १२२

आचारकाण्डः - अध्यायः १२२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
व्रतं मासोपवासाख्यं सर्वोत्कृष्टं वदामिते ।
वानप्रस्थो यतिर्नारी कुर्यान्मासोपवासकम् ॥१॥

आश्विनस्य सिते पक्षे एकादश्यामुपोषितः ।
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥२॥

अद्यप्रभृत्यहं विष्णो यावदुत्थानकं तव ।
अर्चयेत्वामनश्रंस्तु दिनानि त्रिंशदेव तु ॥३॥

कार्तिकाश्विनयोर्विष्णो द्वादश्योः शुक्लयोरहम् ।
म्रियेयद्यन्तराले तु व्रतभङ्गो न मे भवेत् ॥४॥

हरिं यजोत्त्रिषवणस्नायी गन्धादिभिर्व्रती ।
गात्राभ्यङ्गं गन्धलेपं देवतायतने त्यजेत् ॥५॥

द्वादश्यामथ संपूज्य प्रदद्याद्द्विजभोजनम् ।
ततश्च पारणं कुर्याद्धरेर्मासोपवासकृत् ॥६॥

दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितोऽन्तरा ।
दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात् ॥७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मासोपवासव्रतं नाम द्वाविंशत्युत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP