आचारकाण्डः - अध्यायः १९१
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
पुनर्नवाया मूलञ्च श्वेतं पुष्ये समाहृतम् ।
वारि पीतं तस्य पार्श्व भवनेषु न पन्नगाः ॥१॥
तार्क्ष्यमूर्तिं वहेद्यो वै भल्लूकदन्तनिर्मिताम् ।
स पन्नगैर्न दृश्येत यावज्जीवं वृषध्वज ॥२॥
पिबेच्छल्मलिमूलं यः पुष्यर्क्षे रुद्र वारिणा ।
तस्मिन्नपास्तदशना नागाः स्युर्नात्र संशयः ॥३॥
पुष्ये लज्जालुकामूले हस्तबद्धे तु पन्नगान् ।
गृह्णीयाल्लेपतो वापि नात्र कार्या विचारणा ॥४॥
पुष्येश्वेतार्कमूलन्तु पीतं शीतेन वारिणा ।
नश्येतु दंशकविषं करवीरादिजं विषम् ॥५॥
महाकालस्य वै मूलं पिष्टं तत्काञ्जिकेन वै ।
वोड्राणां डुण्डुभानां च तल्लोपो हरते विषम् ॥६॥
तण्डुलीयकमूलं च पिष्टं तण्डुलवारिणा ।
घृतेन सह पीतन्तु हरेत्सर्वाविषाणि च ॥७॥
नीलीलज्जालुकामूलं पिष्टं तण्डुलवारिणा ।
पीतं तद्दंशकविषं नश्येदेकेन वोभयोः ॥८॥
कूष्माण्डकस्य स्वरसः सगुडः सहशर्करः ।
पीतः सदुग्धो हन्याच्च दंशकस्यविषं च वै ॥९॥
तथा कोद्रवमूलस्य मोहस्य हर एव च ।
यष्टीमधुसमायुक्ता तथा पीता च शर्करा ॥१०॥
सदुग्धा च त्रिरात्रेण मूषकानां विषं हरेत् ।
चुलुकत्रयपानाच्च वारिणः शीतलस्य वै ॥११॥
ताम्बूलदग्धमुखस्य लालास्त्रावो विनश्यति ।
घृतं सशर्करं षीत्वा मद्यपानमदो न वै ॥१२॥
कृष्णाङ्कोलस्य मूलेन पीतं सुक्वथितं जलम् ।
ततो नश्यद्गरविषं त्रिरात्रेण महेश्वर ॥१३॥
उष्णं गव्यघृतं चैव सैन्धवेन समन्वितम् ।
नाशयेत्तन्महादेव वेदनां वृश्चिकोद्भवाम् ॥१४॥
कुसुभं कङ्कुमञ्चैव हरितालं मनः शिला ।
करञ्जं पिषितं चैव ह्यर्कमूलं च शङ्कर ॥१५॥
विषंनृणां विनश्येत्तु एतेषां भक्षणाच्छिव ।
दीपतैलप्रदानाच्च दंशैराकीटजैः शिव ।
खर्जूरकविषं नश्येत्तदा वै नात्र संशयः ॥१६॥
दंशस्थानं वृश्चिकस्य शुण्ठी तगरसंयुता ।
नश्येन्मधुमक्षिकाया एतेषां लेपतो विषम् ॥१७॥
शतपुष्पा सैन्धवञ्च साज्यं वा तेन लेपयेत् ।
शिरीषस्य तु बीजंवै सिद्ध क्षीरेण घर्षितम् ॥१८॥
तल्लेपेन महादेव नश्येत्कुक्कुरजं विषम् ।
ज्वलिताग्निर्वारिसेको तथा दर्दुरजं विषम् ॥१९॥
धत्तूरकरसोन्मिश्रं क्षीराद्यगुडपानतः ।
शूनां विषं विनश्येत्तु शशाङ्काङ्कितशेखर ॥२०॥
वटनिम्बशमीनाञ्च वल्कलैः क्वथितं जलम् ।
तत्सेकान्मुखदन्तानां नश्येद्वै विषवेदना ॥२१॥
लेपनाद्देवदारोश्च गैरिकस्य च लेपनात् ।
नागेश्वरो दरिद्रे द्वे तथा मञ्जिष्ठका हर ।
एभिर्लेपाद्विनश्येत्तु लूताविषमुमापते ॥२२॥
करञ्जस्य तु बीजानि वरुणच्छदमेव च ।
तिलाश्च सर्षपा हन्युर्विषं वै नात्र संशयः ॥२३॥
घृतं कुमारीपत्रं वै दत्तं सलवणं हर ।
तुरङ्गमशरीराणां कण्डूर्नश्येद्दशाहतः ॥२४॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकनवत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP