आचारकाण्डः - अध्यायः ११४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
सूत उवाच ।
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥१॥
शोकत्राणं भयत्राणं प्रीतिविश्वासभाजनम् ।
केन रत्नांमदं सृष्टं मित्रमित्यक्षरद्वयम् ॥२॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥३॥
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥४॥
यदिच्छेच्छाश्वतीं प्रीतिं त्रीन्दोषान्परिवर्जयेत् ।
द्युतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥५॥
मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो वसेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥६॥
विपरीतरतिः कामः स्वायतेषु न विद्यते ।
यथोपायो वधो दण्डस्तथैव ह्यनु वर्तते ॥७॥
अपि कल्पानिलस्यैव तुरगस्य महोदधेः ।
शक्यते प्रसरो बोद्धुं न ह्यरक्तस्ये चतसः ॥८॥
क्षणो नास्ति रहो नास्ति न स्ति प्रार्थयिता जनः ।
तेन शौनक नारीणां सतीत्वमुपजायते ॥९॥
एक वै सेवते नित्यमन्यश्चेतपि रोचते ।
पुरुषाणामलाभेन नारी चैव पतिव्रता ॥१०॥
जननी यानि कुरुते रहस्यं मदनातुरा ।
सुतैस्तानि न चिन्त्यानि शीलविप्रतिपत्तिभिः ॥११॥
पराधीना निद्रा परदृदयकृत्यानुसरणं सदा हेला हास्यं नियतमपि शोकेन रहितम् ।
पणे न्यस्तः कायो विटजनखुरैर्दारितगलो बहूत्कण्ठवृतिर्जगति गणिक्राया बहुमतः ॥१२॥
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं परोपसेव्यानि सद्यः प्राणहराणि षट् ॥१३॥
किं चित्रं यदि वेद (शब्द) शास्त्रकुशलो विप्रो भवेत्पण्डितः किं चित्रं यदि दण्डनीतिकुशलो राजा भवेद्धार्मिकः ।
किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात्क्रचित् ॥१४॥
नात्मच्छिद्रं परे दद्याद्विद्याच्छिद्रं परस्य च ।
गूहेत्कूर्म इवाङ्गानि परभावञ्च लक्षयेत् ॥१५॥
पातालतलवा सिन्य उच्चप्राकारसंस्थिताः ।
यदि नो चिकुरोद्भेदाल्लभ्यन्ते कैः स्त्रियो न हि ॥१६॥
समधर्मा हि मर्मज्ञस्तीक्ष्णः स्वजनकण्टकः ।
न तथा बाधते शत्रुः कृतवैरो बहिः स्थितः ॥१७॥
स पण्डितो यो ह्यनुञ्जयेद्वै मिष्टेन बालं विनियेन शिष्टम् ।
अर्थेन नारीं तपसा हि देवान्सर्वांश्च लोकांश्च सुसंग्रहेण ॥१८॥
छलेन मित्रं कलुषेण धर्मं परोपतापेन समृद्धिभावनम् ।
सुखेन विद्यां पुरुषेण नारीं वाञ्छन्ति वै ये न च पण्डितास्ते ॥१९॥
फलार्थो फलिनं वृक्षं यश्छिन्द्याद्दुर्मतिर्नरः ।
निष्फलं तस्य वै कार्यां महादोषमवाप्नुयात् ॥२०॥
सधनो हि तपस्वी च दूरतो वै कृतश्रमः ।
मद्यप स्त्री सतीत्येवं विप्र न श्रद्दधाम्यहम् ॥२१॥
न विश्वसेदविश्वस्ते मित्रस्यापि न विश्वसेत् ।
कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥२२॥
सर्वभूतेषु विश्वासः सर्वभूतेषु सात्त्विकः ।
स्वबावमात्मना गूहेदेतत्साधोर्हि लक्षणम् ॥२३॥
यस्मिन्कस्मिन्कृते कार्ये कर्तारमनुवर्तते ।
सर्वथा वर्तमानोऽपि धैर्यबुद्धिन्तु कारयेत् ॥२४॥
वृद्धाः स्त्रियो नवं मद्यं शुष्कं मांसं त्रिमूलकम् ।
रात्रौ दधि दिवा स्वप्नं विद्वान्षट्परिवर्जयेत् ॥२५॥
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ।
विषं कुशिक्षिता विद्या अजीर्णे भोजनं विषम् ॥२६॥
प्रियं गानमकुण्ठस्य नीचस्योच्चासनं प्रियम् ।
प्रियं दानं दरिद्रस्य भूनश्चतरुणी प्रिया ॥२७॥
अत्यम्बुपानं कठिनाशनञ्च धातुक्षयोवेगविधारणञ्च ।
दिवाशयो जागरणञ्च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥२८॥
बालातपश्चाप्यतिमैथुनञ्च श्मशानधूमः करतापनञ्च ।
रजस्वलावत्क्रनिरीक्षणञ्च सुदीर्घमायुर्ननु कर्षयेच्च ॥२९॥
शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥३०॥
सद्यः पक्रघृतं द्राक्षा बाला स्त्री क्षीरभोजनम् ।
उष्णोदकं तरुच्छाया सद्यः प्राणहराणि षट् ॥३१॥
कूपादकं वटच्छाया नारीणाञ्च पयोधरः ।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥३२॥
त्रयो बलकराः सद्यो बालाभ्यङ्गसुभोजनम् ।
त्रयो बलहराः सद्यो ह्यध्वा वे मैथुनं ज्वरः ॥३३॥
शुष्कं मांसं पयो नित्यं भार्यामित्रैः सहैव तु ।
न भाक्तव्यं नृपैः सार्धं वियोगं कुरुते क्षणात् ॥३४॥
कुचेलिन दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् ।
सूर्योदये ह्यस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥३५॥
नित्यं छेदस्तृणानं धरणिविलखनं पादयोश्चापमार्ष्टिः दन्तानामप्यशौचं मलिनवसनता रूक्षता मूर्धजानाम् ।
द्वे सध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्गे पीठे च वाद्यं निधनमुपनयेत्केशवस्यापि लक्ष्मीम् ॥३६॥
शिरः सुधौतं चरणौ सुमार्जितौ वराङ्गनासेवनमल्पभोजनम् ।
अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥३७॥
यस्य कस्य तु पुष्पस्य पाणाडरस्य विशेषतः ।
शिरसा धार्यमाणस्य ह्यलक्ष्मीः प्रतिहन्यते ॥३८॥
दीपस्य पश्चिमा छाया छाया शय्यासनस्य च ।
रजकस्य तु यत्तीर्थलक्ष्मीस्तत्र तिष्ठति ॥३९॥
बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि ।
आयुष्कामो न सेवेत तथा संमार्जनीरजः ॥४०॥
गजाश्वरथधान्यानां गवाञ्चैव रजः शुभम् ।
अशुभं च विजानीयात्खरोष्ट्रजाविकेषु च ॥४१॥
गवां रजो धान्यरजः पुत्रस्याङ्गभवं रजः ।
एतद्रजो महाशस्तं महापातकनाशनम् ॥४२॥
अजारजः खररजो यत्तु संमार्जनीरजः ।
एतद्रजो महापापं महाकिल्बिषकारकम् ॥४३॥
शूर्पवातो नखाग्राम्बु स्नानवस्त्रमृजोदकम् ।
केशाम्बु मार्जनीरेणुर्हन्ति पुण्यं पुरा कृतम् ॥४४॥
विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिनोस्तथा ।
अन्तरेण न गन्तव्यं हयस्य वृषभस्य च ॥४५॥
स्त्रीषु राजाग्निसर्पेषु स्वाध्याये शत्रुसेवने ।
भोगास्वादेषु विश्वासं कः प्राज्ञः कर्तुमर्हति ॥४६॥
न विश्वसेदविश्वस्तं विश्वस्तं विश्वस्तं नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥४७॥
वैरिणा सह सन्धाय विश्वस्तो यदि तिष्ठति ।
स वृक्षाग्रे प्रसुप्तो हि पतितः प्रतिबुध्यते ॥४८॥
नात्यन्तं मृदुना भाव्यं नात्यन्तं कूरकर्मणा ।
मृदुनैव मृदुं हन्ति दारुणेनैव दारुणम् ॥४९॥
नात्यन्तं सरलैर्भाव्यं नात्यन्तं मृदुना तथा ।
सरलास्तत्र छिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥५०॥
नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः ।
शुष्कवृक्षाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च ॥५१॥
अप्रार्थितानि दुः खानि यथैवायान्ति यान्ति च ।
मार्जार इव लुम्पेत तथा प्रार्थयितार नरः ॥५२॥
पूर्वं पश्चाच्चरन्त्यार्ये सदैव बहुसम्पदः ।
विपरीतमनार्ये च यथेच्छसि तथा चर ॥५३॥
षट्कर्णो भिद्यते मन्त्रश्चतुः कर्णश्चधार्यते ।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्त न बुध्यते ॥५४॥
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
कोर्ऽथ पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥५५॥
एकेनापि सुपुत्रेण विद्यायुक्तेन धीमता ।
कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा ॥५६॥
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वनं सुवासितं सर्वं सुपुत्रेण कुलं यथा ॥५७॥
एको हि गुणवान्पुत्रो निर्गुणेन शतेन किम् ।
चन्द्रो हन्ति तमांस्येको न च ज्योतिः सहस्रकम् ॥५८॥
लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥५९॥
जायमानो हरेद्दारान् वर्धमानो हरेद्धनम् ।
म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥६०॥
केचिन्मृगमुखा व्याघ्राः केचिद्व्याघ्रमुखा मृगाः ।
तत्स्वरूपपहिज्ञाने ह्यविश्वासः पदेपदे ॥६१॥
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥६२॥
एतदेवानुमन्येत भोगा हि क्षणभङ्गिनः ।
स्निग्धेषु च विदग्धस्य मतयो वै ह्यनाकुलाः ॥६३॥
ज्येष्ठः पितृसमो भ्राता मृते पितरि शौनक ।
सर्वेषां स पिता हि स्यात्सर्वेषामनुपालकः ॥६४॥
कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते ।
समापभोगजीवेषु यथैवं तनयेषु च ॥६५॥
बहूनामल्पसाराणां समवायो हि दारुणः ।
तृणैरावेष्टिता रज्जुस्तया नागोऽपि बध्यते ॥६६॥
अपहृत्य परस्वं हि यस्तु दानं प्रयच्छति ।
स दाता नरकं याति यस्यार्थास्तस्य तत्फलम् ॥६७॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥६८॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥६९॥
नाश्रन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः ।
भार्याजितस्य नाश्रन्ति यस्याश्चोपपतिर्गृहे ॥७०॥
अकृजज्ञमनार्यञ्च दीर्धरोषमनार्जवम् ।
चतुरो विद्धि चाण्डालाञ्जात्या जायेत पञ्चमः ॥७१॥
नोपेक्षितव्यो दुर्बद्धि शत्रुरल्पोऽप्यवज्ञया ।
वह्निरल्पोऽप्यसंहार्यः कुरुते भस्मसाज्जगत् ॥७२॥
नवे वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥७३॥
पन्थान इव विप्रेन्द्र सर्वसाधारणाः श्रियः ।
मदीया इति मत्वा वै न हि हर्षयुतो भवेत् ॥७४॥
चित्तायत्तं धातुवश्यं शरीरं चित्ते नष्टे धातवो यान्ति नाशम् ।
तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते धातवः सम्भवन्ति ॥७५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे चतुर्दशोत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP