संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १६५

उत्तर पर्व - अध्याय १६५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

भूमिदानं क्षत्रियाणां नान्येषामुपपद्यते । ते ह्युपार्जयितुं शक्ता दातुं पालयितुं यथा ॥१॥

भूमिदानसमं किंचिदन्यत्कथय यादव । संप्राप्तवित्तैर्यच्छक्यं संसारभयमीरुभिः ॥२॥

श्रीकृष्ण उवाच ॥

सौवर्णी विधिवत्कृत्वा साद्धिदुमवतीं शुभाम् ‍ । महीं प्रयच्छ विप्राणां तत्तुल्या सा निगद्यते ॥३॥

शुणुष्वैकमना भृत्वा महादानं नरोत्तम । सविधानं प्रवक्ष्यामि फलं यत्नेनयद्धवेत् ‍ ॥४॥

चंद्रसूर्योपरागे च जन्मर्क्षे विषुवे तथा । युगादिषु च दातव्यमयने च विधानतः ॥५॥

अन्येध्वपि च कालेषु प्रशस्ते धनसंचये । पापक्षयाय दातव्यं यधोऽर्थे वा नरैर्भुवि ॥६॥

हेम्नः पलशतेमोक्ता तदर्धेनापि शक्तितः । कुर्यात्पंचपलादूर्ध्वमसमर्थोऽपि भक्तिमान् ‍ ॥७॥

कारयेत्पृथिवीं हैमीं जंबुदीपानुकारिणीम् ‍ । मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम् ‍ ॥८॥

लोकपालष्टकांपेतां ब्रह्मविश्वे शसंयुताम् ‍ । नानापर्वतपूर्णा च रत्नाभरणभूषिताम् ‍ ॥९॥

सर्वसस्वविचित्रांमी सर्वगंधाधिवासिताम् ‍ । ईदृशी तु महीं कृत्वा कारयेन्मंडपं ततः ॥१०॥

द‌शद्वादशहस्तं च चतुर्वक्रं सतोरणम् ‍ । मध्ये च वेदिकां कुर्याद्धनुर्हस्ताम प्रमाणतः ॥११॥

ईशान्यां सुरसंस्थानमाग्रेय्यां कुंडमेव च । पताकभिरलंकृत्य देवतायतनान्यथ ॥१२॥

लोकपालाग्रहाश्वैव पूज्या मार्ल्याविलेपनैः । होमं कुर्यार्द्विजाः । शांताश्वातुश्वराणिकः शुभाः ॥१३॥

सालंकाराः सवस्त्राश्व्म माल्यचंदनभूषिताः । अग्निसंस्थापनं तत्र क्लत्वा पूर्व ततोमहीम् ‍ ॥१४॥

आनयेयुर्द्विजो राजन्ब्रह्मवोषपुरःसरम् ‍ । शंखतूर्यनिनादैश्व गेयमंगलनिंस्वनैः ॥१५॥

तिलैः प्रच्छादितां वेदिं कृत्वा तत्राधिवासयेत् ‍ । अथाष्ठदशधान्यानि रसांश्व लवनादिकान् ‍ ॥१६॥

तथाष्टौ पूर्णकलशान्समंतात्स्थापयेच्छुभान् ‍ । वितानकं च कौशेयं फलानि विविधानि च ॥१७॥

अंशुकानि विचित्राणि श्रीखंडशकलानि च । इत्त्येवं रचयित्वा तामधि‌वासन पूर्वकम् ‍ ॥१८॥

ततो होमावसानेषु निष्पन्ने सर्वशांतिके । शुल्कमाल्यांबरधरो हजमानः स्वयततः ॥१९॥

कृत्वा प्रदक्षिणं पृथ्वीं गृहीत्वा कुसुमांजलिम् ‍ । पुण्यकालमथात्ताद्य मंत्रानितामुदीरयेत् ‍ ॥२०॥

नमस्ते सर्वदेवानां त्वमेव भवनं यतः । धात्री त्वमसि भूतानामतः पाहि वसुंधरे ॥२१॥

वसु धारयसे यस्मात्सर्वसौख्यप्रदायकम् ‍ । वसुंधरा तता जाता तस्मात्पाहि भयादलम् ‍ ॥२२॥

चतुर्मुखोऽपि नोगच्छेद्यस्मादंतं तवाचले । अनंतायै नमस्तुभ्यं पाहि संसारकर्दमात् ‍ ॥२३॥

त्वमेवलक्ष्मीगोविंदे शिवे गौरीति संस्थिता । गायत्री ब्रह्मणः पार्श्वे ज्योत्स्त्रा चंद्रे रवौ प्रभा ॥२४॥

बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थितः । विश्वं प्राप्य स्थिता यस्मात्ततो विश्वंभरामता ॥२५॥

धृतिः क्षितिः क्षमा क्षोणि पृथिवी वसुधा मही । एताभिर्मूर्तिभिः पाहि देवि संसारसागरात् ‍ ॥२६॥

एवमुच्चार्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् ‍ । धरार्द्ध वा चतुर्भागं गुरवे प्रतिपादयेत् ‍ ॥२७॥

अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः । पुण्यकाले च संप्राप्ते सपदं यातिवैष्णवम् ‍ ॥२८॥

यदि कर्तु न शक्रोति पुण्येह्रि बहुविस्तरम् ‍ । संस्थाप्य शोभने स्थाने महीमेव प्रदापयेत् ‍ ॥२९॥

विमानेनार्कवर्णेन किंकिणीजालमालिना । नारायणपुरं गत्वा कल्पत्रयमथावसेत् ‍ ॥३०॥

क्षीणपुण्यइहाभ्येत्य राजा भवति धार्मिकः । विजयीशत्रुदमनो बहुभृत्यपरिच्छदः ॥३१॥

शतकोट्याधिपः शूरश्वक्रवतीं महाबलः। सप्तजन्मानि दानस्य माहात्म्यद्राज्यमाप्नुयात् ‍ ॥३२॥

द्वीपाविकर्षविषमां विधिवद्विधाय हैमीं महीं सुरमहीमिव विन्ध्यमध्याम् ‍ ।लोकेशशक्रशिवकेशवसंयुतां च प्रायच्छ पार्थ तव र्किबहुनोदितेन ॥३३॥ [ ७२०४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पृथिवीदानविधिवर्णनं नाम पंचषष्टयुत्तरेशततमोऽध्यायः ॥१६५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP