संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९८

उत्तर पर्व - अध्याय १९८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् ‍ । यस्य प्रदानाद्भवनं वैरिंच्यं याति मानवः ॥१॥

उत्तमः पलसाहस्त्रां मध्यमः पंचभिह शतैः । शदर्द्धेनावरस्तद्वदल्पवित्तोऽपि शक्तितः ॥२॥

दद्यादेकपलादूदर्ध यथाशक्त्या विचक्षणः । धान्यपर्वतवत्सर्व विदघ्यानृपसत्तम ॥३॥

विष्कंभशैलांस्तद्वच्चकृत्वा मंत्रमुदीरयेत । नमस्ते ब्रह्मबीजाय ब्रह्मागर्भाय वै नमः ॥४॥

यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय । यस्मादग्नेरपत्यं त्वं यस्मादुल्बं जगत्पतेः ॥५॥

हेमपर्वतरुपेण तस्मात्पाहि नगोत्तम । अनेन विधिना यस्तु दद्यात्कनकपर्वतम् ‍ ॥६॥

स याति परमं स्थानं यत्र देवो महेश्वरः । तत्र वर्षशतं तिष्ठेत्ततो याति परां गतिम ॥७॥

हेमाचलात्परं दानं न चान्यद्विद्यते क्कचित् ‍ हैमं महींद्रमणिशृंगशतैरुपेतं लोकाधिपाष्टकयुतं सहितं मुनीद्रैः यः शक्तिमान्वितरतीह गणेशलोके कल्पं कुमारवदसौ कुरुपुंगवाऽऽस्ते ॥९॥ [ ७८२१ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हेमाचलदानविधिवर्णनं नामाष्टनवत्युत्तरशततमोःध्यायः ॥१९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP