संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २

उत्तर पर्व - अध्याय २

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठार उवाच ॥
कस्य प्रतिष्ठा निर्दिता को हेतुः किं परायणम् । कस्मिन्नेल्लयं याति कस्मादुत्पद्यते जगत् ॥१॥
कति द्वीपाः समुद्राश्वर कियन्तोऽष्टकुलाचलाः । कियत्प्रमाणमवनिर्भुवनानि कियन्ति च ॥२॥
श्रीकृष्ण उवाच ॥ पुराणश्वैव विषयो यत्पृष्टोऽहं त्वयाऽनघ । श्रुतोऽनुभूतश्व मया संसारे सरता चिरम् ॥३॥
अजाय विश्वरूपाय निर्गुणाय गणात्मने । नमस्तस्मै भगवते वासुदेवार वेधसे ॥४॥
अव्र ते वर्णयिष्यामि शृणु पार्थ पुरातनम् । पाज्ञवल्क्येन मुनिना भविष्यं भास्वतां पतिः ॥५॥
पृष्टो यदुत्तरं प्रादाद्दपिभ्यस्तन्मया श्रुतम् । धन्यं यशस्यमायुष्यं  सर्वाशुभविनाशनम् ॥६॥
भविष्योत्तरमेतत्ते कथयामि युधिष्टिर । एकात्मकं व्रिदैवत्यं चतुःपञ्चै च लक्षणम्‍ ॥७॥
गुणकालादिभेदेन सदसत्सप्रदर्शितम् । एक एव जगद्योनिः प्रतियोनिषु संस्थितः ॥८॥
एकधा बहुधा चैब हश्यते जलचन्द्रवत्  । ब्रह्मा बिष्णर्वषाङ्कश्च व्रयो देवाः सतां मताः ॥९॥
नामभेदैः क्रियाभेदैभिंद्यन्ते नामना स्वयम् प्रक्रिया चानुप ङ्गश्वर उपोद्धातथैव च ॥१०॥
उपसंहार इत्येतच्चतुष्पादं प्रकीर्तितम् । सर्गश्व प्रतिसर्गश्व वशो मन्वन्तराणि च ॥११॥
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । एष वक्तव्यधिषयः सुमहान्प्रतिभाति मे ॥१२॥
तथाप्युद्देशतो वच्मि सर्गं प्रति तवानघ । महदादिविशेषान्तं सवैखप्यं सलक्षणम्  ॥१३॥
पञ्चप्रमाणं षट्र्कक्षं पुरुषाधिष्ठितं जगत् । अब्यक्ताज्जायते बुद्धिर्महानिति च सा स्मृता ॥१४॥
अहंकारस्तु मह्तखिगुणः स च पठन्यते । तन्मावाणि च पञ्चाहुरहङ्काराच सात्त्विकात् ॥१५॥
जातानि तेभ्यो भूतानि भूतेभ्यः सचराचरम् । जळमूर्तिमये विष्णौ नष्टे स्थावरजङ्गमे ॥१६॥
भूतात्मकमभूदण्डं महान्तमुदकशेयम् । सृष्टया शक्या च निर्मिन्नं तदण्डम मवद्‍दिधा ॥१७॥
भूकपालमथैकं तद्‍द्वितीयमभवन्नभः । उल्बं तस्याभवन्मेरूर्जरायुः पर्वताः स्मृताः ॥१८॥
नद्यो धमन्यः सञ्जाताः क्लेदः सर्वव्रगं पयः । योजनानां सहस्त्राणि षोडशाधः प्रतिष्ठितः ॥१९॥
उत्सेवे चतुराशीतिर्द्वाविंशदूर्ध्वविस्तुत्तः । भूमिपङ्कजविस्तीर्णा कर्णिका मेरुरुच्यते ॥२०॥
आदिस्यश्वादिदेवत्त्वात्तव्राभूत्व्रिगुणात्मकः । प्रातः प्रजापतिसौ मध्याह्रे विष्णुरिष्यते ॥२१॥
रुद्रोऽपराह्रसमये स एवैकखिधामयः । प्रातः प्रजापतेर्जाता मुनयो नव मानबाः ॥२२॥
मरीचिरव्यङ्गिरसौ पुलस्त्यः पुलहः क्र १: । भृगुर्वसिष्ठ इत्यष्टौ नारदो नवमः स्मृतः ॥२३॥
नवब्रह्याण इत्येप पुराणे निश्वयः स्मृतः । अङ्रगुष्ठाद्दक्षिणाद्दक्षः संजज्ञे कमलोद्भवात् ॥२४॥
वामात्प्रसूतिरुदगादङ्गुष्ठात्तौ च दम्पती । ताभ्यां जातास्तु तवया हर्यश्वास्ते विनाशिताः ॥२५॥
सृष्टिं प्रति समुद्युक्ता नारदन महात्मना । दक्षः क्षीणान्युतान्वीक्ष्य जनयामास कन्यकाः ॥२६॥
पञ्चाशद्दश विख्याताः सत्याद्या नामभिः स्मृताः ददौ स द्श धर्माय कश्यपाय व्रयोदश ॥२७॥
कालस्य नयने युक्ताः सप्तविंशति चेन्दवे । द्वे प्रादाद्वाद्दुपुत्राय द्वे कृशाश्वाथ चैब हि ॥२८॥
रूपयौवनशालिन्यश्वतस्त्रोऽरिष्टनेमिने । एकां भृगोर्भवायैकां प्रादात्तेभ्यश्वराचरः ॥२९॥
अभवत्पुरुषव्याघ्र भूत ग्रामश्वतुर्विधः । वैराजमथ वैकुण्ठं कैलासामति नामतः ॥३०॥
मेरोः शङ्गं व्रयं मूर्ध्नि ब्रह्मविष्णुशिबालयम् । प्राचीदिक्क्रमयोगेने तेषां पार्श्वे पुरः स्मृताः ॥३१॥
 इन्द्रादिलोकपालानां दिव्यैः स्वर्लक्षणैर्युताः । हिमवान्हेमकूटश्व निषधो मेरुरेच च ॥३२॥
नीलः श्वेतस्तथा शृङ्गी जम्बूद्वीपे कुलाचलः । जम्बूद्वीपप्रमाणेन सह्स्त्रगुणितं शतम् ॥३३॥
भिद्यंत नवधा सोऽपि वर्षभेदेने भारत । जम्बूशाककुशक्रौञ्चशाल्मगोमेद्पुष्कराः ॥३४॥
द्वीपाः सप्त समाख्याताः समुद्रैः सप्तभिर्वृताः । क्षारक्षीरक्षु सुरया दध्ना चैव घृतेन च ॥३५॥
स्वाद्‍दकेन च भृतैर्द्विगुणैर्द्विगुणैस्तथा । भूर्लोकोऽथ भुवर्लोकः स्वर्महर्जन इत्यपि ॥३६॥
तपः सत्यश्व कथिताः पार्थ सप्त सुरालयाः । महातलो भूमितलः सुतलो वितलस्ततः ॥३७॥
रसातलश्व विज्ञेयः सरुमश्व तलातलः । हिरण्याक्षप्रभृतयो दानवेन्द्रा महोरगाः ॥३८॥
सन्त्येतेषु कौन्तेय सिद्धाश्व ऋषयश्व ये । स्वायभुवो मनुः पुर्व ततः स्वारोचिषोऽभवत् ॥३९॥
उत्तमस्तामसश्वैव रैवतश्वाक्षुपेति षद्‍ । वैवस्वताऽयमधुना वर्तते मनुरुत्तमः ॥४०॥
यस्य पुपैः प्रपौव्रैश्व विभक्तेयं बसुन्धरा । आदित्या वसवो रुद्रा एकादशसनाश्विनौ ॥४१व
षस्त्रयः समाख्याता देवा वैवस्वतेऽन्तरे । विप्रचित्तिहिरण्याख्यौ दैत्यदानवसत्तमौ ॥४२॥
तयोर्वेशे तु बहुवो दैत्यदानवसत्तमाः । पञ्चाशद्नुणिता कोटियोजनानां महत्तया ॥४३॥
सप्तद्वीपसमुद्रायाः प्रमाणमश्रनेः स्मृतम् । पिण्डेन च सहस्त्राणि सप्ततिर्जलमध्यतः ॥४४॥
गौरिचेषा सुमहती भ्राजते न च लीयते । लोकालोकः परतरः पर्वतोऽग्रमहोच्छ्र्यः ॥४५॥
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः । नित्यश्वतुर्थो विज्ञेयः कालो नित्यापहारकः ॥४६॥
उत्पद्यते स्वयं यस्मात्तत्तस्मिन्नेव लीयते । रक्षति च परे पुंसि भूतानामेष निश्वयः ॥४७॥
यथर्तावतुलिङ्गनि नानारूपाणि पर्यये । द्दश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥४८॥
प्रतिलिनेषु भूतेषु विबुद्धः सकलं जगत् । वेदशब्देभ्य एवादौ, निर्मंमे स महेश्वरः ॥४९॥
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । ते तं विना प्रपद्यन्ते पुनस्तेष्वेव कर्मसु ॥५०॥
भॄर्दशगुणेन पयसा संवृता तच्च तेजसा । तजोऽनिलेन नभ्रसा तदगुणेनानिलो वृतः ॥५१॥
भूतादिना तथाकाशं भूतादिर्मह्ता वृतः ॥५२॥
महान्परिवृतस्तेन पुरुषेणाविनाशिना । एवंविधानामण्डानां सहस्त्राणि शतानि च ॥५३॥
उत्पन्नानि विनष्टानि भावितानि महात्मना ॥५४॥
 वैकुण्ठकोष्ठगतमेतदशेषतायां रुपातं जगत्सुरनरोरगसिद्धनद्धम् । पश्यन्ति शुद्धमुनयो बहिरन्तरे च माया चराचरगुरोरपरैव काचित् ॥५५॥

इति श्रीभविष्ये महापुराण उत्तरे पर्वणि ब्रह्माण्डोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP