संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १३८

उत्तर पर्व - अध्याय १३८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पुण्या महानवम्यस्ति तिथीनां प्रवरा तिथिः । सानुष्टेया सुरैः सर्वैः प्रजापालैर्विशेषतः ॥१॥

भवानुत्थापयेत्पार्थ संवत्सरसुखाय वै । भूतप्रेतपिशाचानांप्रीत्यर्थ चोत्सवाय वा ॥२॥

युधिष्ठिर उवाच ॥

कस्मात्कालात्प्रवृत्तेयंनवमीमहशब्दयुक्त् ‍ । किमादाबुपपन्नोऽस्ति भगवन्नवमाविपिः ॥३॥

यशोदागर्भसंभूतेरुत पात्राप्रवर्तते । उताहो पूर्वमेदासीत्कृतत्रेतायुगादिषु ॥४॥

यदस्यां प्राणिनः केचिन्मन्यंते जातवंति च । हतानां प्राणिनां तेषां का गतिः पारलौकिकी ॥५॥

स्वयघ्नतां घातयतामनुमोदयतां तथा । एतन्मे संशयं पूर्व वक्तुनहंसि केशव ॥६॥

श्रीकृष्ण उवाच ॥

पार्थ या परमा शक्तिरनंता लोकविश्रुता । आद्या सर्व गताशुद्धानावगम्युमनोहरा ॥७॥

आद्याष्टमी कलाकालीद्वितीयासर्वमंतला । माया कात्यायनी दुर्गा चामुंडा शंकरप्रिया ॥८॥

ध्यायंति यां योग रतां सा देवी परमेश्वरी । रुपभेदैर्नामभेदैर्भवानी पूज्यते शिवा ॥९॥

अष्टम्यां तु नवम्यां तु देवदानवराक्षसैः । गंधर्वैरुगैर्यज्ञेः पूज्यते किन्नरैकरैः ॥१०॥

युगेष्वादौः सृष्टेः पूर्व प्रदर्शिता । पूजितेयं पुरा देवी तेथ्यः पूर्वतरैः शुभैः ॥११॥

आश्वयुक्चृक्लपक्षे च याष्टामी मूलसंयुता । सा महानवमी नामत्रलोक्येऽपि सुदुर्ल्लभा ॥१२॥

कन्यागते सवितरि शुल्कपक्षेऽष्टमी तु या । मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥१३॥

अष्टम्यां च नवम्यां च जग मातरमम्बिकाम् ‍ । पूजयित्वाऽऽश्विने मासिविशोको जयति द्विषः ॥१४॥

संतर्जयंते हुंकारैः खड्‍दिभिरहर्निशम् ‍ । नवम्यां पूजिता देवि ददाति नवमं कलम् ‍ ॥१५॥

सा पुण्या सा पवित्रा च साधर्नसुग्बदाथिनी । तस्मात्सदा पूजनीया चामुंडा मुरंमालिनी ॥१६॥

तस्यां यद्युयुज्यंते प्राणिनो वहिपादयः । सर्वे ते स्वर्णतिं यांति घ्नतां पापं न विद्यते ॥१७॥

न तथा घलिदामेन पुष्पधूपविलेपनैः । यथा संतुष्यते लोके महिषैर्विध्यवासिनी ॥१८॥

उद्दिश्य दुर्गा हन्यंते प्राप्ता येषां याता युधिष्ठिर । तेषां स्वर्गे ध्रुवं वासो वरास्तेऽप्सरसां प्रियाः ॥२०॥

मन्वन्तरेषु सर्वेषु कल्पेषु कुरुमंदन । तेषु सर्वेशु चैवासीन्नघमीयं पुरार्चिता ॥२१॥

प्रसिद्धानादिनिधना वर्षे वर्षेयुधिष्ठिर । यूपो भूयोऽवतारैथ भवानी पूज्यते करैः ॥२२॥

अवतीर्णा भुवि सदा नित्यं दैत्यनिबर्हिणी । स्वर्गपातालगर्त्येषु करोति स्थितिपालनम् ‍ ॥२३॥

पुनश्वैषा महादेवी यशोदागर्भसंभवा । कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गतायुषः ॥२४॥

ततः प्रभृतिलोकेषु यशोदानंददायिनीम् ‍ । विंव्याचले स्थापयित्वा पुनः पूजा प्रवर्तिता ॥२५॥

पूर्वप्रवृद्धोऽपि पुनर्भ गिन्या महिमा कृतः । भुवि सर्वोपकाराय सर्वोपद्रवशांतये ॥२६॥

एवं विंध्योपवासिन्यानवरात्रोपवासिनः । एकरात्रेण नक्तेन स्वक्त्याऽयाचितेन वा ॥२७॥

यतनैर्याजनैर्देवाः स्थाने स्थाने पुरे पुरे । गृहे गृहे भक्तिपरैर्ग्रामे ग्रामे वने वने ॥२८॥

स्त्रातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः । वैश्यैः शूद्रैर्भाक्तिचित्रैर्म्लैच्छैश्व मानवैः ॥२९॥

स्त्रीभिश्व कुरुशार्दूले तद्विधानमिदं श्रृणु । जयाभिलाषी नृपतिः प्रतिपत्प्रभृति क्रमात् ‍ ॥३०॥

लोहाभिहारिकं कर्म कारयेद्यावदष्टमी । प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ‍ ॥३१॥

मण्डपं कारयेद्दिव्यं नवसप्तकरं बरम् ‍ । आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ‍ ॥३२॥

मेखलात्रयसंयुक्तं योन्यश्वत्थदलाभया । राजचिह्रानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ॥३३॥

आनीय मंडपे तानि सर्वाण्येवाधिवासयेत् ‍ । ततस्तु ब्राह्मणः स्त्रातः शुल्काम्बरधरः शुचिः ॥३४॥

ॐकारपूर्वकैमंत्रैस्तल्लिंगैर्जुहुयाद्‌घृतम् ‍ । लोहनामा भवत्पूर्व दानवस्तु महाबलः ॥३५॥

स देवैः समरे कुद्धैर्बहुधा । शकलीकृतः । तदङ्गसंभवं लोहं यत्सर्व दृश्यते क्षितौ ॥३६॥

शस्त्रास्त्रमंत्रैर्होतव्यं पायसं घृतसंयुतम् ‍ । हुतशेषं तुरंगाणां गजानामुपहारयेत् ‍ ॥३७॥

लोहाभिहारकं कर्मतेनैतदृषिभिः स्मृतम् ‍ । बद्धप्रतिशख्यं च गजाश्वसमलंकृतम् ‍ ॥३८॥

भ्रामयेन्नगरे नित्यं नंदिघोषपुरस्मरम् ‍ । स्त्रात्वा संपूज्य पितृदेवताः ॥३९॥

पूजयेद्राजचिह्रानि फलमाल्यानुलेपनैः । हुतशंषंप्रदातव्यमौपनायनिके द्विजे ॥४०॥

तस्याभिहरणाद्राज्ञो विजयं समुदाहृतम् ‍ । पूजामंत्रान्प्रवक्ष्यामि पुराणोक्तानहं तव ॥४१॥

यैः पूजिताः प्रयच्छन्ति कीर्तिमायुर्युशो बलम् ‍ । यथांबुदश्छादयति शिवायेमां वसुंधराम् ‍ ॥४२॥

तथाच्छादय राजानं विजयारोग्यवृद्धये । इति छत्रमंत्रः ॥ गंधर्वकुलजातस्त्वं मा भूयाः कुलदूषकः ॥४३॥

ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च । प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरंगम ॥४४॥

तेजसा चैव सूर्यस्य मुनीनां तपसा यथा । रुद्रस्य वह्यचर्येण पवनस्य बलेन च ॥४५॥

स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर । यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ॥४६॥

भूम्यर्थेनृतवादी च क्षत्रियश्व पराङ्गमुखः । सूर्याचन्द्रमसौ वायुः पावकश्व न यत्रवै ॥४७॥

व्रजेच्चतां गतिं क्षिप्रं तच्च पापं भवेत्किल । विकृतिं यदि गच्छेस्त्वं युद्धे जनितुरंगस ॥४८॥

रिपून्विजित्य समरे सह भर्त्रा सुखी भव । अश्वमंत्रः । शक्रकेतो नहावीर्य सुपर्णस्त्वय्युपस्थितः ॥४९॥

पतत्रिराङैवनतेयस्त्थानारायणध्वजः । काश्यपेयोऽमृतोद्धर्तानागारिर्विष्णुवाहनः ॥५०॥

अप्रमेयो दुराधर्षो देवशत्रुनिषूदनः । गुरुत्मान्मारुतगतिस्वयि सन्निहितः स्थितः ॥५१॥

शस्त्रवर्मा युधान्योन्रक्षास्मांश्वरिपून्दह । ध्वजमंत्रः ॥ कुमुदैरावणौपद्मः पुष्पदंतोऽथवामनः ॥५२॥

सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः । एतेषां पुत्रपौत्राश्व बलान्याजौ समाश्रिताः ॥५३॥

मद्रौ मन्दो मृगश्वैव गजः संकीर्ण एव च । वने वने प्रसूतास्ते करियोनिं महागजाः ॥५४॥

पांतु त्वा वसवो रुद्रा आदित्याः समरुद्धणाः । भर्तारं रक्ष नागेन्द्र समयं प्रतिपालयन् ‍ ॥५५॥

अवापुर्हि जयं युद्धे गमने स्वस्थिनो भ्रज । श्रीस्ते सोमाद्वलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ‍ ॥५६॥

स्थैर्य मेरोर्जयं रुद्रावशो देवात्पुरंदराम् ‍ । युद्धे रक्षांतु गानास्त्वां दिशश्व सह दैवतैः ॥५७॥

अश्विनौ सह गंधर्वैः पांतु त्वां सर्वतः सदा । हस्तिमन्त्रः । हृतभ्ग्धसवो रुद्रा वायुः सोमो महर्षयः ॥५८॥

नागफिन्नरगन्धर्वयक्षभूतगण्याग्रहाः । पमथाश्व सहादिन्यैर्भूतेशो मातृभिः सह ॥५९॥

शुक्रसेनापतिः रकन्दो वरुणश्वा । श्रितास्त्यपि । प्रदैइंतु रिपून्सर्वान्राजा विजयमृच्छजु ॥६०॥

यामि प्रयुक्तान्धरिभिर्दूषणानि समंततः । तानि वैः परशत्रूणां हतानि तजतेजसा ॥६१॥

कालनेसिवधे युद्धे युद्धे त्रिपुरघातने । हिरण्यकशिपोर्युद्धे देधाष्ठरे तथा ॥६२॥

शोभितासि तथैवाद्य शोभमानास्तु भूपतेः । नीलां श्वेतासिगां दृष्टवा ‍ नश्यंत्वव नृपारघः ॥६३॥

व्याधिभिर्भिधिर्घौरेः शस्त्रैश्व युधि निर्जिताः । सयः स्वस्था भवंति स्मविद्वातेवापमार्जिताः ॥६४॥

पूतमा रेवती नाम्रा कालरात्रीति या स्मृता । दहत्वाशु रिषोन्सर्वान्पताके त्वामुषागताः ॥६५॥

पताकामन्त्रः ॥

असिश्वरिपुहा खड्‌गस्तीक्ष्णकर्मा दुरासदः । श्रीगर्भौ विजयश्वैव धर्मधारस्ताघैव च ॥६६॥

दत्स्थष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिकां तुभ्यं गुरुर्देवो महेश्वरः ॥६७॥

हिरण्यं च शरीरं ते धाता देवो जनार्दनः । पिता पितामहो देवस्त्वं मां पालय सर्वदा ॥६८॥

खङ्गमन्त्रः ॥

शर्मप्रदस्त्वं समरे वर्म सर्वायसोह्यसि । रक्षं मा रक्षणीयाऽहं तव वर्म नमोऽस्तु ते ॥६९॥

वर्ममंत्रः ।

दुंदुभे त्वं सपत्नानां घोषाद्धृदयकंपनः । भव भूमिपसैन्यानां तथा विजयवर्द्धनः ॥७०॥

यथा जीमूतघोषेण हव्यंति वरवारणाः । तथास्तु तव शब्देन हर्षोऽस्माकं युदाबहः ॥७१॥

यथा जीमूतशब्देन स्त्रीणां त्रासोऽमिजायते । तथा च तव शब्देन त्रस्यंत्वस्मन्द्दिषोरजे ॥७२॥

दुंदुभिमंत्रः ॥

सर्वायुधमहामात्र सर्वदेवारिसूदन । चाप मां सर्वदा रक्ष साकं सायकसत्तमैः ॥७३॥

चापमन्त्र॥

पुण्यस्त्णं शङ्खपुष्पाणां मङ्गुलामां च मङ्गलम् ‍ । विष्णुना विधृतो नित्यं मनःशांतिप्रदो भव ॥७४॥

शङ्गमन्त्रः ॥

शशांककरतंकाशहिसडिंढीरपांडुर । प्रोत्सारयाशुं दुरितं चासरामवल्लभ ॥७५॥

चामरमंत्रः॥

सर्वायुधानां प्रथमा विर्मिताऽसि पिनाकिना । शूलायुधाद्विनिष्कृष्य कृत्वा मुष्ठिपरिजदम् ‍ ॥७६॥

चंडिकायाः प्रदत्तासि सर्वदुष्टनिवर्विणि । तथा विस्तारिना चासि देवानां प्रतिपादिता ॥७७॥

संवसत्वामभूतासि सर्वाशुभनिवारिणि । च्युरिके रक्ष मां नित्यं शान्तिं यच्छ नमोऽस्तु ते ॥७८॥

छुरिकामंत्रः ॥

प्रोत्सारणाय दुष्टानां साधुसंग्रहणाच च । ब्रह्मणा निर्मितश्वासि व्यवहारप्रसिद्धये ॥७९॥

यशो देहि नयदो भव भूपतेः । ताडयाशु रियू सर्वान्हेमदंडनमोस्तु ते ॥८०॥

कनकदण्डमन्त्रः ॥

विजयो जयदो जेता रिपुवावी प्रियंकरः । दुःखहा धर्मदः शांतः सर्वारिष्टविनाशनः ॥८१॥

पलेऽष्टौ सन्निधौ यस्मात्तव सिंहा महाबलाः । तेन सिंहासनेति त्वं विप्रैर्वेदेषु प्रीयसे ॥८२॥

त्वयि स्थितः शिवः साक्षात्वयि शक्रः सुरेश्वरः । त्वयि स्थितो हरिर्देनस्त्वदर्थे तघ्यते तपः ॥८३॥

नमस्ते सर्वतोभद्र भद्रदो भव भूपते । त्रैलोक्यजयसर्वस्वसिंहासन नमोऽस्तु ते ॥८४॥

सिंहासनमंत्रः ॥

लोहाभिहारिकं कर्म कृत्वेदं मंत्रपूर्वकम् ‍ । फलनैवेद्यकुसुमैर्धूपदीपविलेपनैः ॥८५॥

अष्टम्यां धावनं कृत्वा पूर्वाह्रस्त्रानमाचरेत् ‍ ॥८६॥

गद्यम् ‍ ॥

दुर्गा कांचनमूर्ति रौप्यां वा पित्तलीं वार्क्षीं चैत्रीं तांम्रीं वा विभवतः कृत्वा दारुविचिविचित्रतोरणविन्यस्तां शोभने स्थाने पुरतो विन्यस्तदृष्टां विचित्रगृहमध्यगां स्त्रातां कुंकुअमचंदनगंधैश्वतुःसमैश्वीरपट्टैश्वर्चितगात्रां देवीं कुसुमैरभ्यर्च्य तां बहुभिः पुष्यमाणकीर्तिस्तैर्द्विजजनैर्जनितपरितोषैर्दिवान्वितो नरेंद्रः स्वयं प्रयच्छेत्पुरोहितैः सार्घ विल्वपत्रेणार्चनेन मंत्रेणानेन भगवत्यै ।

गद्यं संपूर्णम् ‍ ॥ जयंती मंगला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ॥८७॥

अमृतोद्भवः श्रीवृक्षो महादेवीप्रियः सदा । बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥८८॥

दुर्गा संपूजनीयाचतद्दिनाद्रणपुष्पयाः । सा चाभीष्टा सुरेशान्यास्तथा रुढव्रणायुतः ॥८९॥

ततः खड्‌गं नमस्कृत्य शत्रूणां मानमर्द्दम् ‍ । इच्छेत विजयं राज्यं सुभिक्षं चात्मनो नृप ॥९०॥

पुनः पुनः प्रणम्याथ ध्यायेच्च हृदये शिवाम् ‍ । महिषघ्नीं बहुभुजां कुमारीं सिंहवाहिनीम् ‍ ॥९१॥

दानवांस्तर्जयंती च खड्‌गोद्भातकरां शुभम् ‍ । घंटाक्षस्त्रग्धरांदुर्गा रणारंभे व्यवस्थिताम् ‍ ॥९२॥

ततो जयजयाकारैः स्तवं कुर्यादिमं ततः । सर्वमङ्गमाङ्गुल्ये शिवेसर्वार्थसाधिके ॥९३॥

शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते । कुंकुमेन समालब्धे चन्दनेन विलेपिते ॥९४॥

बिल्बपत्रकृतामाले दुर्गेऽहं शरं गतः । कृत्वैवमर्च्चा कौरव्य अष्टम्यां जागरं निशि ॥९५॥

नटनर्तनगीतैश्व कारयेत्तु महोत्सवम् ‍ । एवं हृष्टेनिंशां नीत्वा प्रभाते चारुणोदये ॥९६॥

पातयेन्महिषान्नेषानग्रतो नतकन्धरान् ‍ । शतं चाषि शतार्ध वा तदर्द्ध वा यथेच्छया ॥९७॥

सुरासर्वभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् ‍ कापालिकेब्यस्तद्देयं दासीदासजनैस्तथा ॥९८॥

विभज्य सर्व कौन्तेय सुहृत्संबंधिबंधुषु । ततोऽपराह्रसमये नवम्यां स्यंदने स्थिताम् ‍ ॥९९॥

भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा स्वसैन्यवान् ‍ । सहस्त्रैः पुरुषैर्वापि रथयुक्तैः सुषिक्षितैः ॥१००॥

शनैः शनैरधिकया दीप्त्या प्रज्वलदीपकैः । आकृष्ठखड्‌गैर्वीरैश्व धातुरक्तैर्गजैस्तथा ॥१०१॥

नदद्भिः शङ्खपटहैनृत्यद्भिर्वारयौवतैः । अलंकृता भिर्नारीभिर्बालकैः सुविभूषितैः ॥१०२॥

भूतेभ्यस्तु बलिं दद्यान्मंत्रणानेन सामिषम् ‍ । सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम् ‍ ॥१०३॥

त्रींस्त्रिवारांस्त्रिशूलेन दिग्विदिक्षु क्षिपेद्वलिम् ‍ । बलिं गृह्यन्वितमं देवा आदित्या वसवस्तथा ॥१०४॥

मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः । असुरा यातुधान्याश्व मातरश्व पिशाचकाः ॥१०५॥

शाकिन्यो यक्ष वेताला योगिन्यः पूतनाः शिवाः । जृंभकाः सिद्धन्धर्वा बाल्या विद्याधराधराः ॥१०६॥

दिक्पाला लोकपालाश्व ये च विघ्नविनायकाः । जगतां शांति कर्तारो ब्रह्माद्याश्व महर्षयः सविघ्नं मम पापं ते शाम्यंतु परिपन्थिनः । सौम्या भवंतु तृप्ताश्व भूताः प्रेताः सुखावहाः ॥१०८॥

इत्येवं भ्रामयेद्राष्ट्रे दुर्गा देवी रथे स्थिताम् ‍ । नरयानेन वा पार्थततोऽविघ्नं समापयेत् ‍ ॥१०९॥

अथोत्पन्नेषु विघ्नेषु भूतशांतिं समाचरेत् ‍ । येन विघ्ना न जायन्ते संपूर्णतां व्रजेत् ‍ ॥११०॥

एवंये कुर्वते यात्रां राजानोऽन्येपि मानवाः । महानवम्यां नंदायां पुत्रका हृष्टमानसाः ॥१११॥

ते सर्वे पापनिर्मुक्ता यांति भागवतीं पुराम् ‍ । न तेषां शावको नाग्निर्न चौरा च विनायकाः ॥११२॥

विघ्नं कुर्वन्ति राजेंद्र येषां तुष्टा महेश्वरी । इत्येष ते समाख्यातो दुर्गादेव्या महोत्सवः ॥११४॥

पठतां शृण्वतां चैव सर्वाशुभविनाशनः ॥११५॥

शूलाग्रभिन्नमहिषासुरपृष्ठविष्टामुत्खातखङ्गरुचिरांगदबाहुदण्डाम् ‍ । अभ्यर्च्यपंचवदनानुगतांनवम्यांदुर्गासुदुर्गगहनानितरंतिमर्त्याः ॥११६॥ [ ६०८२ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महानवमीव्रतवर्णनं नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ॥१३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP