संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९९

उत्तर पर्व - अध्याय ९९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पूर्णमासी महाराजसोम्यस्य दयिता तिथिः । पूर्णमासो भवेद्यस्यां पौर्णमासी ततः स्मृता ॥१॥

पौर्णमास्याम च संजातः संग्रामो जयलक्षणः । सोमस्यारिबुधैः सार्द्धं सर्वसत्वभयंकरम् ‍ ॥२॥

तारायां चन्द्रमाः सक्तस्तस्या भर्ता बृहस्पतिः । तयोरभून्महायुद्धं भार्याकृत्येषु ते पुरा ॥३॥

युधिष्ठिर उवाच ॥ तारा कस्य सुता कस्मात्स क्रुद्धः ससुररिहा । सोमेन सह संग्रामं चक्रे चक्रे चक्रगदाधर ॥४॥

धीरकृष्ण उवाच । प्रजापतेरभूत्कन्या तारा वृव्रस्य चानुजा । तां बृहस्पतये प्रादात्पृथिव्यामेकसुंदरीम् ‍ ॥५॥

देवाचायीय सा भार्या त्वनिर्देश्य तथाविधा । रूपेणातो रूपवती सेत्यवदज्जनः वस्थिता ॥६॥

बृहस्पतिं पर्यचरद्यथा चान्याः स्त्रियः क्वचित् ‍ । तां ददर्शायतापांगीं तन्वंर्गी चारुहासिनीम् ‍ ॥७॥

शीतांशुर्दर्शनादेव कामस्य वशमीयिवान् ‍ । आबभाषे च मधुरं तो एह्येहि मा चिरम् ‍ ॥८॥

इंगिताकारकुशला तारा सोमस्य चेष्टितम् ‍ । बुध्द्वा शुद्धधिया तन्वीप्राहेदंमधुराक्षरम् ‍ ॥९॥

मुनेरंगिरसःपुव्रस्त्वं च सोभ्योऽसि सोमराट् ‍ । अंगिरसो मुनेर्वीर स्नुषाहमुचितं न ते ॥१०॥

सह सौभ्येन यो योगस्तुव सिद्धोऽद्धुतो महान् ‍ । अंगिरास्त्वां किल पुरा ससुरासुरराक्षसैः ॥११॥

राजत्वे स्थापयामास नैतत्स्मरसि किं विधो । कथमद्य निशानाथ ह्यनंगेनासि पोडितः ॥१२॥

तस्माद्ववीमि ते चंद्र कामोऽयं शिथिलीकुरु । परवत्यस्मि भद्रं ते न गम्यास्मिबुधोत्तम ॥१३॥

एवमुक्तस्तथा चासौ न चैतत्कृतवांस्ततः। गृहीत्वा कर्षयासास सोमोऽनंगवशीकृतः ॥१४॥

बृहस्पतिस्तु तां ज्ञात्वा स तं सोममगर्हयत् ‍ । प्रेषयिष्यति मे भार्यां स्वयमेव ममांतिकम् ‍ ॥१५॥

एवं चिरेण विज्ञाय बृहस्पतिरुदरधीः । नाससाद स्वकां भार्यां रोषात्प्रस्फुरिताधरः ॥१६॥

आचख्यौ सर्वमिन्द्राय सोमस्येदं विचेष्ठितम् ‍ । इंद्रः समाह्रयामास देवानृषिगणांस्तथा ॥१७॥

न सोमो गणयामास ततोऽबुध्यत देवराट् ‍ । आकार्यव्रिदशान्सर्वानाचख्यौ चन्द्रचेष्टितम् ‍ ॥१८॥

तच्छुत्वा देवगंधर्वाः कोढान्धाः क्षुब्धमानसाः । प्रगृहीत प्रहरणा स्थानारुरुहुः स्वकान् ‍ ॥१९॥

सोमोऽपि देवान्सद्योघाञ्ज्ञात्वा सुकूतनिश्वयान् ‍ । दैत्यदानवरक्षांसि समानीय व्यवस्थितः ॥२०॥

आरुह्य च रथश्रेष्ठं युद्धायैव मनोदधे । प्रवृत्तं सुमहद्युद्धं शरतोमरकंपनैः ॥२१॥

कौणपैः क्ष्मासुरैः शूलैर्देवदानवदारूनम् ‍ । स तेषां सुमहद्युद्धं दत्वा तागगणाधिपः ॥२२॥

बभंज देवान्सेन्द्रांश्व हिमवृष्टन्या क्षपाकरः । स जित्वा देवगन्धर्वान्सोमो राजन्यसत्तम ॥२३॥

श्रिया परमया युक्तो यथानान्योहविर्भुजाम् ‍ । देवाश्व निजिंतास्तेन सोमेनामिततेजसा ॥२४॥

आजग्मुः शरणं देव शरण्ये स्वर्गवासिनाम् ‍ । इन्द्रः सर्वं समाचरूयौ सोमस्येद्दग्विचेष्टितम् ‍ ॥२५॥

श्रुत्वा कुद्धो ह्रषीकेश आरुह्य गरुडं रुषा । गृहीत्वा चायुधं श्रेष्ठं युद्धायैव मनोदधे ॥२६॥

प्रकर्तुं सुमहयुद्धं चक्रशांर्गगदाधरः । जगाम विबुधैः सार्धं सोमस्योपरिरोषितः ॥२७॥

विष्णुं विदित्वा संप्राप्तं सोमो दैत्यगणैः सह । युद्धाय समरामर्षी स्थितः प्रध्माप्य वारिजम् ‍ ॥२८॥

सजित्वा देवसंघातं सेन्द्रंवायुपुरस्सरम् ‍ । विष्णुनासहसंयुक्तः शस्त्रास्त्रे रसुभोजनैः ॥२९॥

यदा नासावुपरमेद्युद्धाय सह विष्णुना । तदाऽऽददे रुषा विष्णुश्वकं कोधसमन्वितः ॥३०॥

अथाह ब्रह्मा देवेशमजितं विष्णुमव्यम् ‍ । योऽसौ मेघप्रपुष्टांगं यत्वाम वच्मि निबोध तत् ‍ ॥३१॥

नास्त्यवध्यस्त्रिभुवने चक्रस्यस्य तवा नघ । सोमो द्विजाधिपत्ये च मया समभिषेचितः ॥३२॥

तस्माद्यद्युज्यते देव कर्थिऽस्मिंस्तद्विधीयताम् ‍ । अथाह भगवान विष्णुःसुरब्रह्मर्षिसन्निधौ ॥३३॥

सिनीवालीकुहू नाम तस्यां नष्टः क्षपाकरः । विनष्टोऽपि पुनर्जन्म प्राप्स्यतीति न संशयः ॥३४॥

राकां चानुमतीं प्राप्य वृद्धिरस्य भविष्यति । आप्यायितश्व श्रुत्युक्तैः पितृ पिण्डैः समंव्रकैः ॥३५॥

ब्राह्मणैर्हव्यकव्यानि देवेभ्यः प्रापयिष्यति । वृद्धिः कृद्धिः कृष्णे न चैवास्य व च जातस्य भूयसी ॥३६॥

एवमेवविधिर्दृष्टस्तस्याप्यायनमेब च । अमोघस्य न मोघत्वं भविष्यति कदाचन ॥३७॥

शप्तश्व सोमो दक्षेण स चावश्यं भविष्यति । सुदर्शनस्य च प्रीतिरेवमेव भविष्यति ॥३८॥

एवमस्त्विति देवेश यद्भवान्प्रब्रवीषि वै । ब्रह्मा प्रावाच सोम तु विनीतवदुपस्थितम् ‍ ॥३९॥

अर्पयस्य गुरोर्भार्यां न कार्यं पुनरीद्दश्यम् ‍ । स तथोक्तः समानीय ददौ तारां बृहस्पतेः ॥४०॥

पुनरूचे शशी स्पष्टं श्रृण्वतां व्रिदिवौकसाम् ‍ । अस्यां गर्भो मदीयोऽयं यदपत्यम ममैव तत् ‍ ॥४१॥

बृहस्पतिरथोवाच मयि गर्भः समाहितः । क्षेव्रे मदीये चोत्पन्नस्तस्मात्स मम पुव्रकः ॥४२॥

उक्तं च वेदशास्त्रज्ञिऋषिभिर्द्भर्मदर्शिभिः । उभं वाताह्रतं बीजं यस्य क्षेव्रे प्ररोहति ॥४३॥

क्षेव्रिणस्तस्य तद्वीजं न बीजी फलभाग्भवेत् ‍ । सम्यगुक्तं न भषता शशांकः प्राह तत्ववित् ‍ ॥४४॥

माता भस्त्रा पितुः पुव्रौ येन जातः स एव सः । इति पौराणिकाः प्राहुर्मुनयो नयचक्षुषः ॥४५॥

विवदंतौ निवार्याथ ब्रह्या प्रोवाच तां वधूम् ‍ । शनैरेकांतमानीय गर्भोऽयं कस्य शस मे ॥४६॥

एतदुक्तवती तारा र्‍हिया नोबाच किचन । उत्ससर्ज क्षणाद्नर्भं भाभासितसुरालयं ‍ ॥४७॥

तमुवाच ततो ब्रह्मा पुव्र कम्य सुतो भवान् ‍ । सोमस्याहं मुतो ब्रह्मन्निति तथ्ये मयोदितम् ‍ ॥४८॥

बुधोऽयै विबुधाः प्राहुः सर्वज्ञानविदां वरः । गृहीवा पुव्रकं सोमो जगाम स्वं निवेशनम् ‍ ॥४९॥

गुरुर्गृहीत्वा स्वां भार्यां जगाम भवनं शनैः । सोमोऽपि तनयं लब्ध्वा हर्षव्याकुलमानसः ॥५०॥

पौर्णमासी समाख्याता प्राप्तपूर्णमनोरथा । प्राप्तः पुव्रो मया ह्यस्यां लब्धश्व विजयस्तथा ॥५१॥

तस्मादेनामुपासिष्ये विधिना ब्रततत्परः । एवमन्योऽपि पूर्णार्थः पूर्णांशः पूर्णलक्षणः ॥५२॥

यो मामक्यां तिथौ भक्या विधित्पूजयिष्यति । तस्य प्रसादाभिमुखः सर्वकामप्रदो ह्यहम् ‍ ॥५३॥

एवमेषा तिथिः पार्थ सोमस्य दयिता शुभा । पौर्णमासी समाख्याता पूर्णो मासो भवेद्यथो ॥५४॥

तदस्यां स्त्रोतसि स्त्रात्वा संतप्यं पितृदेवताः । आलिख्य मंडले सीमं नक्षव्रैः सहितं विभुम् ‍ ॥५५॥

पूजयेत्कुसुमैर्ह्रद्यैनैंवद्यैर्घृतपाचितैः । शुक्लाक्षतिः शुकृवस्त्रैः पूजयित्वा क्षमापयेत् ‍ ॥५६॥

शाकाहरणमुन्यन्नैर्नकं भुञ्जीत वाग्यतः वसंतबांधव विधो शीतांशी स्वस्तिनः कुरु ॥५७॥

गगनार्णवमाणिक्य चन्द्र दाक्षायणीपतै । मासे मासे पौर्णंमास्यां बिधिरेष प्रकीर्तितः ॥५८॥

कृष्णपक्षेऽपि यः कश्विच्छ्र्द्धावान्वै व्रती भवेत् ‍ । तस्याप्येष विधिः प्रोक्तः सर्चसौख्यप्रदायकः ॥५९॥

अमावास्या तिथिरियं पितृणां दयिता सदा । अस्यां दत्तं तपस्तप्तं पितृणामक्षयं भवेत् ‍ ॥६०॥

अमावास्या महाराज प्रयत्नैर्यैरुपोषिता । तैरक्षय्यं भवेद्दत्तं पितृभ्यातीर्थमुत्तमम् ‍ ॥६१॥

यः कश्वित्कुरुते तस्मिन्पितृपिण्डोदकक्रियाम् ‍ । स तारयति पुण्यात्मा पुरुषानेकविंशातिम् ‍ ॥६२॥

भवेयुरक्षयास्तस्प लोकाः पितृनिषोविताः । यदा तु इह कालांते तस्याव्रागमनं भवेत् ‍ ॥६३॥

ब्राह्मणः पितृभक्तश्व सर्वविद्याविशारदः । एवं जन्मनि राजेन्द्र भवेद्धनसभान्वतः ॥६४॥

एवं संवत्सरस्यांते हैमं कृत्वा सुशोभनम् ‍ । सोमं नक्षव्रसहितं विप्राय प्रतिपादयेत् ‍ ॥६५॥

उपदेशं प्रयच्छेद्यस्तस्मै व्रतकृते नरः। संपूज्य वस्त्राभरणैर्मंव्रेणेत्थं निवेदयेत् ‍ ॥६६॥

मासे मासे विधिरयं व्रतस्यास्य नराधिप । योन शक्रोति वा कर्तुं पक्षं वाथ निरंतरम् ‍ ॥६७॥

स एकामप्यपोष्यैव कृत्वा ह्युद्यायनं सुधीः । यश्वैतत्कुरुते पार्थ पौर्णमासीव्रतं नरः ॥६८॥

सर्वपापविनिर्मुक्तश्वन्द्रवद्दिवि राजते । पुव्रपौव्रधनोपेतो यज्वा दाता प्रियंवदः ॥६९॥

संततिं विपुलां प्राप्य प्रयागे मरणं भवेत् ‍ । ततश्वैवाक्षयाँल्लोकान्प्रान्पोति सुरसेव्रितान् ‍ ॥७०॥

सेव्यमानः स गन्धर्वैः स्तूयमानः सुरासुरैः । आस्ते संपूर्णसर्वांगो यावक्तल्पायुतव्रयम् ‍ ॥७१॥

अभ्यर्चयन्ति सितपञ्चदशीषु सोमं कृष्णासु य पितृगणं जलपिंडदानैः । तेषां गृहाणि धनधान्यसुतादिसंपत्पूर्णानि पार्थिव्र भवन्ति विधोर्विधानात् ‍ ॥७२॥ [ ४२०८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयपौर्णमासीव्रतवर्णनं नाम नवनवतितमोऽध्यायः॥९९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP