संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २०१

उत्तर पर्व - अध्याय २०१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम । तेजोऽमृतमये दिव्यं महापातक नाशनम् ‍ ॥१॥

पंचाशद्‌घृतकुंभानामुत्तमः स्याद्‌घृताचलः । मध्यस्तु तदर्घेन तदर्द्धेनावरः स्मृतः ॥२॥

अल्पवित्तस्तु कुर्वीत यथाशक्त्या विधानतः । विष्कंभपर्बतांस्तद्वच्चतुर्मागेन कल्पयेत ॥३॥

शालितंदुलपत्राणि कुंभोपरि निवेशयेत् ‍ । कारयेत्संहतानुच्चान्यथाशोभं विधानतः ॥४॥

वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः । धान्यपर्वतवच्छेषं विधानमिह पठ्यते ॥५॥

अधिवासनपूर्व च तद्धद्धोमं सुराचं नम ‍ । प्रभातायां तु शर्वर्या गुरवे विनिवेदयेत् ‍ ॥६॥

विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः । मंत्रेणानेन कौतेय तच्छुणुष्ववदाभिते ॥७॥

संयोगाद्‌घृतमुन्पन्नं यस्मादमृततेजसोः । तस्माद्‌घृतार्चिर्विश्वात्माप्रीयतां मम शंकरः ॥८॥

यस्मातेमयं ब्रह्म घृते नित्यं व्यवस्थितम् ‍ । घृतपर्वतरुपेण तस्मान्नः पाहि भूधर ॥९॥

अनेन विधिना दद्याद्‌घृतामनुत्तमम् ‍ । महापातकयुक्तोऽपि लोकमायाति शांकरम ॥१०॥

हंससारससंयुक्ते किंकिणीजालमालिते । विमानेअप्सरोभिश्वसिद्धविद्याधरैर्वृतः ॥११॥

विहरोत्पितृभिः सार्द्ध यावदाभूतसंप्ल्वम् ‍ ॥१२॥

आज्याचलं प्रचलकुलसुंदरीभिः संसेव्याजानीमह ये वितरंति मर्त्याः । स्वर्गे सुरेंद्रभवनं भवसंनिधिं वा स्त्रेहानुबंधमचलं भवतीति स्पष्टम् ‍ ॥१३॥ [ ७८७० ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृताचलदानविधिवर्णनं नामैकाधिकद्विशततमोऽध्यायः ॥२०१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP