संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७७

उत्तर पर्व - अध्याय ७७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

कृष्णपक्षे तु पौषस्य संप्राप्तं द्वादशीव्रतम् ‍ । पौषादिपारणं मासैः षड्रभिर्ज्येष्ठांन्तिकं स्मृतम् ‍ ॥१॥

प्रथमं पुण्डरीकाक्षं नाम कृष्णस्य गीयते । द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने ॥२॥

पुरुषोत्तमाख्यं तु ततः पञ्चमेऽच्युतसंज्ञकम् ‍ । षप्ठे जयेति देवेश गुह्यं नाम प्रकीर्तितम् ‍ ॥३॥

पूर्वोक्तेषु च मासेषु स्नानप्राशनयोस्तिलाः । आषाढादिषु मासेषु पञ्चगव्यमुदाह्र्तम् ‍ ॥४॥

स्नानं च प्राशंन चैव पञ्चगव्यं सदेष्यते । पूजयेत्पुण्डरीकाक्षं तैस्तेरेव च नामभिः ॥५॥

प्रतिमांस च देवेश कृत्वा पूजां यथाविधि । विप्राय दक्षिणां दद्याच्छ्रद्दधानश्व भक्तितः ॥६॥

पारणं चैव देवेश प्रीणनं भक्तिपूर्वकम् ‍ । कुर्वीत भक्त्या गोविन्द सद्भावेनार्चनं यतः ॥७॥

नक्तं भूञ्जीत सततं तैलक्षारविवर्जितम् ‍ । एकादश्यासुपोष्यैवं द्वादश्यामथवा दिने ॥८॥

एवं संवत्सरस्यान्ते यदभिप्रेतमात्मनः । धनं च सुहिरण्यं च धान्यं भाजनमासनम् ‍ ॥९॥

शय्यां वा ब्राह्मणे दद्यात्केशवः प्रतिगृह्यताम् ‍ । एतामुपोष्य विधिना विष्णुप्रीतौ च तत्परः ॥१०॥

सर्वान्कामानवान्पोति यद्यदिच्छति चेतसा । ततो लोकेषु विख्य़ातं संप्राप्तं द्वादशीति वै ॥११॥

कृताभिलषिता द्दष्टा प्रारब्धा धर्मतत्परैः । पूरयेदखिलान्कामान्संस्मृता वा दिने दिने ॥१२॥

संप्राप्तिकामुपवसन्ति समीहितार्था ये मानवा मनुजपुङ्गव विष्णुभक्ताः । तेषां संमीहितफलानि ददाति शश्वद्वासः सुरेशगवने भगवत्प्रसादात् ‍ ॥१३॥ [ ३२३२ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संप्राप्तिद्वादशीव्रतं नाम सप्तसमतितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP