संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०

उत्तर पर्व - अध्याय १०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ।

ज्येष्ठे मासि सिते पक्षे प्रथमेऽह्रि दिनोदये । देवोद्यानभवं ह्रद्यं करवीरं समर्चयेत् ‍ ॥१॥

रक्ततन्तुपरीधानं गन्धधूपविलेपनैः। विरूढैः सप्तधान्यैश्व नारङ्गैर्बीजपूरकैः ॥२॥

गुणकैर्घटकैर्दिव्यैर्नलिकेरैः सुशोभनैः। अभ्युक्ष्याक्षततोयेन मन्व्रेणैवं क्षमापयेत् ‍ ॥३॥

करवीर बिषा वाम नमस्ते भानुवल्लभ । मौलिमण्डनसद्रत्न नमस्ते केशवेशयोः ॥४॥

आकृष्णेन रजसा वर्तमानो निबेशयन्नमृतं मर्तेषु । हिरण्मयेन सविता रथेना देवो याति भुवनानि पश्यन् ‍ ॥५॥

एवं भक्त्या समभ्यर्च्य द्त्त्वा विप्रया दक्षिणाम् ‍ । प्रदक्षिणामयो कृत्वा ततः स्वभवनं व्रजेत ‍ ॥६॥

एतदव्रतं महाभाग सृर्यारावनकाम्यया । अनसूयया च क्षमया साविव्र्या सत्यभामया ॥७॥

दमयन्त्या सरस्वत्या गायव्र्या गङ्गया तथा । अन्याभिरपि नारीभिर्मर्त्यलोकेऽप्यनुष्ठितम् ‍ ॥८॥

करवीरव्रतं पार्थ सर्वसौख्यफलपदम् ‍ ॥९॥

संपूज्य रत्नकुसुमाञ्चिसर्वशाखं नीलैर्दलैस्तततनुं करवीरवृक्षम् ‍ । भुक्त्वा मनोऽभिलषितान्भुवि भव्यभोगानन्ते प्र्याति भवनं भरताग्रन्य भानोः ॥१०॥ [ ७११ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वाणि श्रीकृष्णयुधिष्ठिरसंवादे करवीरव्रतवर्णनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP