संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५०

उत्तर पर्व - अध्याय ५०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् ‍ । यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ॥१॥

वस्तन्तेऽमलसप्तम्यां स्त्रातः सन्गौरसर्षपैः । तिलपाव्रे च सौवर्णं निधाय कमलं शुभम् ‍ ॥२॥

वस्त्रयुग्मवृतं कृत्वा गन्धपुष्पैरथार्चयेत ‍ । नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ॥३॥

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते । ततो द्विकालवेलाथामुदकुम्भसमन्विसम् ‍ ॥४॥

विप्राय दधात्संपूज्य वस्त्रमाल्यविभूषणैः । अहोराव्रे गते पश्वादष्टम्यां भोजयेद ‍ द्विजान् ‍ ॥५॥

यथाशक्त्याथ भुञ्जीत विमांस तैलवर्जितम् ‍ । अनेन विधिना शुक्लसप्तम्यां मासि मासि च ॥६॥

सर्वं समाचरेद्भक्त्या वित्तशाठन्यविवर्जितः । व्रतान्ते शयन दद्यात्सुवर्णकमलान्वितम् ‍ ॥७॥

गावं स दद्याच्छक्त्या तु सुवर्णाढन्यां पयस्विनीम् ‍ । भाजनासनदीपादीन्दद्यादिष्टानुपस्करान् ‍ ॥८॥

अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम् ‍ । लक्ष्मीमनन्तामभ्येत्य सूर्यलोके च मोदते ॥९॥

कल्पे कल्पे तथा लोकान्सप्त गत्वा पृथक्पृथक् ‍ । अप्सरोभिः परिवृतस्ततो याति पराङ्गतिम् ‍ ॥१०॥

यः पश्यतीदं शृणुयान्मुहूर्तं पठेच्च भक्त्या सुमतिं ददाति । सोऽप्यव्र लक्ष्मीमचलामवाप्य गन्धर्ववि्द्याधरलोकमेति ॥११॥ [ २०३० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठरसंवादे कमलासप्तमीव्रतवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP