संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४९

उत्तर पर्व - अध्याय १४९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

ब्राह्मणां दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ‍ । ब्राह्मणेभ्यः परं नारित नास्ति भूतं जगत्रये ॥१॥

अदेवं दैवतं कुर्युः कुर्युदैवमदैवतम् ‍ । ब्राह्मणा हि महाभागाः पूज्यंते सततं द्विजाः ॥२॥

ब्राह्मणेभ्यः समुत्पन्नाः देवाः पूर्वमिति स्मृतिः । ब्राह्मणेभ्यो जगत्सर्व तस्मात्पूज्यतमाद्विजाः ॥३॥

येषामश्रंति वक्रण देवताः पितरस्तथा । ऋषयश्व तथा नागाः किंभूतमधिकं ततः ॥४॥

यदैव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति । तदेवाप्नोति धर्मज्ञ बहुजन्मनि जन्मनि ॥५॥

तालवृंतानिलेनैव श्रांतसंवाहनेन च । उत्सादनेन गात्राना तथा व्यंजनकर्मणा ॥६॥

पादशौचप्रदानेन पादयोः सेचनेन च । परिचर्य यथाकाममेकेनैव द्विजोत्तम ॥७॥

अनिष्टावपि समाप्रोति स्वर्गलोकं च शाश्वतम् ‍ । ब्राह्मणानां शुभं कृत्वा नाकलोके महीयते ॥८॥

यद्वाह्यणास्तुष्टिमन्तो वदंति प्रत्यक्षदेवेषु परोक्षदेवाः । तद्वैशुभं तस्य नरस्य नूनं भवेदेतस्तान्सततंनिषेवेत् ‍ ॥९॥ [ ६६६९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ब्राह्मणशुश्रूषाविधिवर्णनं नामैकोपंचाशदुत्तरशततमोऽध्यायः ॥१४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP