संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२७

उत्तर पर्व - अध्याय १२७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

तडागोत्सर्जने देव विधिं विधिविदां वर । कथयस्व महाभाग मम देवकिनंदन ॥१॥

वाषीकूपोदकानाञ्च के मंत्राः परिकीर्तिताः । के ऋग्विजोत्र के यूपाः कर्तव्याः कुण्डमण्डपे ॥२॥

दानं किमत्र निर्दिष्टं बलयः के प्रकीर्तिताः । कस्मिन्काले कथं कुर्यादित्येतत्सकलं वद ॥३॥

श्रीकृष्ण उवाच ॥ साधु साधु महाबाहो यन्मां त्वं परिपृच्छासि तडागवापीकृपानामुत्समं कथयामि ते ॥४॥

निष्पम्र बद्धपालीके सर्वोद्भेदविवर्जिते । सोपानपंक्तिसहिते पाषाणैः सर्वतश्विते ॥५॥

तस्मिन्सालिलसंपूर्णे कार्तिके वा विशेषतः । तडागस्य विधिः कार्यः स्थिरनक्षत्रयोगतः ॥६॥

मुनयः केचिदिच्छंति व्यतीते चोत्तरायणे । न कालनियमो ह्यत्र प्रमाणं सलिलं यतः ॥७॥

तडागपालिशीर्शे तु मंडप कारयेच्छुभम् ‍ । दशद्वादशहस्तं च चतुर्द्वारं सुविस्तृतम् ‍ ॥८॥

तोरणानि तु चत्वारि चतुर्दिक्षु विचक्षणैः । अश्वत्थोदुंवरप्लक्षवटशाखामयानि च ॥९॥

नानावर्णास्तु परितः पताकाः परिकल्पयेत् ‍ । मध्ये महाध्वजः कार्यः पञ्चवर्णः सुशोभनः ॥१०॥

चतुर्हस्ता भवेद्वेदी मध्ये पञ्चकराथवा । यजमानप्रमाणेन मध्ये यूपेन शोभिता ॥११॥

कदंबाश्वत्थपालाशवैकंकतमयः शुभः । ब्राह्मणस्यास्य निर्दिष्टो यूपः श्रुतिविचक्षणैः ॥१२॥

न्यग्रोधबिल्वजः प्रोक्तः क्षत्रियाणांचखादिः । वैश्यस्योदुंबरमयो मध्वर्जुनसमुद्भवः ॥१३॥

बिभितकोदुबरजः शाकशाल्मलिसंभवः । शूद्रस्य यूपो निर्दिष्टः सारदारुमयोऽथवा ॥१४॥

लोकचालाष्टाकं तत्र रजसा च विलेखयेत् ‍ । ब्रह्माविष्णुश्व रुद्रश्व कमला चाम्बिका तथा ॥१५॥

सावित्री सहिता क्रार्या पुष्पधूपैरथार्चयेत् ‍ । कुर्यात्कुंडानि चत्वारि चतुर्दिक्षु विचक्षणः ॥१६॥

मेखलात्रययुक्तानि हस्तमात्राणि सर्वतः । हेमालंकारिणः कार्या होतारः षोडशाष्ट वा ॥१७॥

अहतांबरसंवीताः स्त्रक्चन्दनविभूषिताः । स्थापकाश्वात्र विहिता वेदवेदाङ्गपारगाः ॥१८॥

इतिहासपुराणज्ञाः प्रियवागनसूयकाः । मृन्मयानि च पात्राणि ताम्राणि स्त्रुवस्त्रुवं तथा ॥१९॥

व्यंजनानि च कार्याणि होमार्थ समिधस्तिलाः । ग्रहज्ञबिधानेन होमः कार्यो विजानता ॥२०॥

वेद्याविवासितानां च सुराणां होम इष्यते । वारुणैस्तु तथामंत्रैहोतव्यं पुष्टिवर्द्धनम् ‍ ॥२१॥

इन्द्रादिलोकपालानां पूर्वादिक्रमयोगतः । बलिं दद्याच्च तल्लिङ्गैर्मन्त्रैस्सर्वार्थसिद्धये ॥२२॥

द्वारेषु कलशान्दद्यात्सहिरण्यान्सपल्लवान् ‍ । अश्वत्थपल्लवैः कार्याः शुभाश्वन्दनमालिकाः ॥२३॥

सौवर्ण कार्येत्कूर्म ताम्रेण मकरं तथा रजतेन तथा मत्स्यं त्रपुणा दर्दुरं तथा ॥२४॥

शिशुमारजलौकाञ्च रजतेनैव कारयेत् ‍ । सर्वानपि यथास्थानं ताम्रपात्र्यांनिधापयेत् ‍ ॥२५॥

एषा प्रतिष्ठा नामेति मन्त्रेणामंत्रयेच्च तान् ‍ । वस्त्रयुग्मन संपूज्य नैवेद्यादि यथाक्रमम् ‍ ॥२७॥

ततो द्विजातिप्रवर . श्रपयित्वा चरुं नवम् ‍ । ततश्वाग्न्याहुतीर्द्याद्भूर्भुवःस्वरितिक्रमात् ‍ ॥२८॥

ततश्वावाहयेद्देवं वरुणं सरितांपतिम् ‍ । वादित्रघोषैर्गीतैश्व गन्धमाल्यानुलेपनैः ॥२९॥

श्वेतेनैव तु वस्त्रेण शिरोवेष्टं तु कारयेत् ‍ । आदाय ताम्रपात्रीं तु ब्रह्महोषपुरः सरः ॥३०॥

अप्रमाणं जलं मत्वा वरुणाय निवेदयेत् ‍ । त्वं वरुण इति मंत्रेण जलमध्ये प्रवाहयेत् ‍ ॥३१॥

यच्चान्यदूस्त्रबीजानि तत्सर्व मज्जयेज्जले । तारयेच्च ततो धेनुं दक्षिणाया उदग्व्रजेत ॥३२॥

गोशिरोवेष्टनं कुर्यात्सति वस्त्रे तु बुद्धिमान् ‍ । लांगूलस्याग्रमादाय अवतीर्य ततो जलम् ‍ ॥३३॥

ज्ञातिभिः सहितः कर्ता सभार्यश्वानगाहयेत् ‍ । ततोऽवतीर्य सलिलाद्दत्त्वा गां ब्राह्मणाय ताम् ‍ । शक्त्या च दक्षिणां दद्यादेवं विप्रान्विसर्जयेत् ‍ ॥३४॥

सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् ‍ । एवं जला ञ्जलिं क्षिप्त्वा पूजयेज्जलमातरः ॥३५॥

तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत् ‍ । अवारितं तु दातव्यं मंत्रपूर्व दिनत्रयम् ‍ ॥३६॥

एकाहं च यथाशक्त्या वित्तशाठ्यं न कारयेत् ‍ । गोसहस्त्रं तदर्ध वा तस्यार्धमथवापि वा ॥३७॥

शतमर्धशतं वापि पञ्चविंशतिमेव च । तासामभावे गां दद्यात्सवत्सां कांस्यदोहनाम् ‍ ॥३८॥

एष राजंस्तडागस्य विधिस्तेपरिकीर्तितः । वापीकूपविधानं च कथयामि तथा परम् ‍ ॥३९॥

लुडमंड्पडपसंभारभूषणाच्छादनादिकम् ‍ । तडागविधिवत्कुर्याद्यूपगोतरणादिकम् ‍ ॥४०॥

अकालमूलान्कलशान्वापीकोणेषु दापयेत् ‍ । तीर्थोदकसमायुक्तान्सितचन्दनचर्चितान ॥४१॥

सितवासोयुगच्छन्नासमाल्यान्रन्नगर्भिणः । श्रपयित्वा चरुं तत्र यावन्मात्रो यथाविधि ॥४२॥

चतस्त्राआहुतीर्दवाद्भूर्भुवःस्वरितिक्रमात् ‍ । ग्रहहोमं प्रकुर्वीत शांतिपुष्टिविवर्द्धनम् ‍ ॥४३॥

वरुणाय बलिं दद्याल्लोकपालभ्य एव च । वारुणानि च सुक्तानि पठेयुर्द्विजसत्तमाः ॥४४॥

वेदीमध्ये मंडलं च पद्मपत्र प्रशस्यते । तन्मध्ये पूजयेच्छुंभु ब्रह्माण्म केशवं तथा ॥४५॥

मत्स्यकमठमण्डूकान्वेद्या मध्येऽधिवासयेत् ‍ । मित्रामित्रोऽसि भूतानां धनदो धनकाक्षिणाम् ‍ ॥४६॥

वैद्यो रोगाभिभूतानं शरण्यः शरणार्थिनाम् ‍ । अनेनैव हि मंत्रेण वरुणाय विसर्जयेत् ‍ ॥४७॥

आदौ चावाहयेदेवमनेनैव विशेषतः । नमस्ते विश्वगुप्राय नमो विप्णो अपांपते ॥४८॥

सान्निध्य्म कुरु देवेश समुद्रे यद्वदत्र वै । ततस्तु दक्षिणा देया ब्राह्मणानां नराधिप ॥४९॥

गौः स्थापकाय दातव्यां भोजनं चानिवारितम् ‍ । सर्वेषामेव दातव्यमेष पौराणिको विधिः ॥५०॥

शराया आगतं सामुद्रं प्रथमं स्मृतम् ‍ । निपाने वा तडागे वा संस्थितं तद्भवेच्छुचि ॥५१॥

वापीकूपडागे वा स्थितं तु प्रथमं जलम् ‍ । अपेयं तु भवेत्सर्व तज्जलं सूतिकासमम् ‍ ॥५२॥

समुद्रोऽपिहिकौतेयदेवयोनिरपांपतिः । कुशाग्रेणा पिरभसानस्पृष्टाव्यस्त्वसंस्कृतः ॥५३॥

अग्निश्व तेजो मृडयाथदेहेरेतोधाविष्णुरमृतस्यनाभिः । एवं ब्रुवन्पांडव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ‍ ॥५४॥

वैष्णवे मासि संप्राप्ते नक्षत्रे वारुणे तथा । अर्घ्य प्रदद्याद्भक्त्या तु तस्मिन्काले महोदधेः ॥५५॥

स्त्रात्वा तु विधिवन्मंत्रैः सागरेतुसमाहितः । फलमूलाक्षतैर्भक्ष्येस्तथार्घ्यसंप्रकल्पयेत ॥५६॥

अपि जन्मसहस्त्रं तु यत्पापं कुरुते नरः । मुच्यते सर्वपापेभ्यः स्त्रात्वा तु लवणांभसि ॥५७॥

विधिज्ञेन तु कर्तव्यं ब्राह्मणेन यथाविधि । कर्ता कारयिता चैव उभौ तु स्वर्गगामिनौ ॥५८॥

विधिं त्वेनमजानानो यः कुर्यादर्थमोहितः कर्ता कारयिता चैव उभौ नरकगामिनौ ॥५९॥

य न कारयते शांति तडागाद्येषु कर्मसु । तस्य तन्निष्फलं सर्वमुप्तं बीजमिवोषरे ॥६०॥

सर्व्रत्नमयं दिव्यं चन्द्रार्कसदृअशवभम् ‍ । विमानं तेजसा युक्तमारोहेत्पुण्यकर्मकृत ॥६१॥

कश्वित्पिबतितत्तोयंनिपानस्थं ततोऽऽञ्जलिम् ‍ । ब्राह्मणो वा यतिर्गौवो येन कर्ता न सीदति ॥६२॥

उत्सृष्टे कृतकृत्यस्तु सुहृअत्कुर्यान्महोत्सवम् ‍ । महाभोज्यं महोत्सर्ग यजमानो दिनाष्टकम् ‍ ॥६३॥

कारकाः कर्मणो बापि सुत्रधारादयो नराः । इष्टापूर्तेन धर्मेण तेऽपि स्वर्गे प्रयांति हि ॥६४॥

स्वन्यमाने महीभागे प्राणिनो ये क्षयं गताः । चित्रे वा देवकूटार्थे ते सर्वे त्रिदिवं गताः ॥६५॥

धेनोस्तु रोमकूपाणि यावंतीह नरोत्तम । तावद्वर्षसहस्त्राणि वर्षकोटिशतानि च ॥६६॥

कोटिर्युगसहस्त्राणां स्वर्गे तिष्ठेत्तडागकृत् ‍ । चेत्तस्य पितरः केचिन्नरकं समुपागताः ॥६७॥

तांस्तु तारयते सर्वानात्मानं च महीपते । आस्फोट्यंति पितरो वल्गंति प्रपितामहाः ॥६८॥

अपि नः सकुले जातो यस्तडागं करिष्यति । सर्वस्वेनापि कौतेय भूमिष्ठमुदकं कुरु ॥६९॥

कुलानि तारयेत्सप्त यत्र गौर्वितृषी भवेत् ‍ । अतः सर्वेण धन्येन कार्या वाप्यः समंततः ॥७०॥

धनस्य क्षणध्वं सित्वं चित्ते कार्य सदैव हि । तडागं देवभवनं वापीवृक्षाघन्च्छदः ॥७१॥

चतुर्थकं फलं प्राप्त कारितेऽस्मिश्वतुष्टये । यथा मातुःसमाचष्टे पुत्रः शीलं स्वकैर्गुणैः ॥७२॥

तथा स्वादेन च जलं कर्तुः सर्व शुभाशुभम् ‍ । अतः शुभागतं द्रव्यं तडागादिषु लापयेत् ‍ ॥७३॥

धन्यस्य पांथाः संप्राप्य तडागं वृक्षमण्डितम् ‍ । अभ्यागता यसुधिया तडागाद्यं प्रकल्पितम् ‍ ॥७५॥

सामान्यं सर्वभूतेभ्यो येन भूमिगतं जलम् ‍ । तारितं कारितं तेन सुपुत्रेण कुलद्वयम् ‍ ॥७६॥

मूर्त स्वभावतः सिद्धमिष्टं मंत्रप्रदर्शितम् ‍ । इष्टापूर्ते राजन्कृतकृत्यः पुनान्भवेत् ‍ ॥७७॥

उन्नता वाथ निम्रा वा कीर्तिर्येन प्रकाशिता । तेन त्रैलोक्यचन्द्रेण जननी पार्थपुत्रिणी ॥७८॥

त्रितयं निम्रतां नेयं त्रितयं चोन्नतिं पराम् ‍ । तडागमथ यो भूमौ देव देवागृहंकृती ॥७९॥

यः कारयति लोकेऽस्मिन्कीर्तिस्यस्यामला भवेत् ‍ । सजीवति स एवैकः स भवेदजरामरः ॥८०॥

उपेतोऽपि दिवं त्यक्त्वा नश्वरं स कलेश्वर । आस्त एव निरातंकं तस्य कीर्तिमय्म वपुः ॥८१॥

तावत्स्वर्गे स रमते यावत्कीर्तिरनश्वरी । तावत्त्विलायामध्यास्ते सुकृती वै बुधं पदम् ‍ ॥८३॥

घटैरञ्जलिभिवक्रैर्यस्य वाटीपुटैर्जलम् ‍ । पिबंति जंतवः सर्वे किमन्यत्तस्य वर्ण्यते ॥८४॥

तडागं नगरोपांते धन्यस्य किल जायते । उभयोरर्थसंसिद्धिर्दृष्टा कर्तुर्जनस्य च ॥८५॥

येषां देवकुलं तत्तु निष्पद्येत सरस्तटे । अभीष्टदेवतायुक्तं तेषां पार्थ किमुच्यते ॥८६॥

न भवंतीष्टि कयावद्‍द्रोणी वा भूमिसन्निभा । स्वर्गे महीयते तावत्कारकोदेववेशमनः ॥८७॥

भोग्यस्थाने कृतः कूपः सुस्वादुसलिलस्तथा । दृढरज्जुसमायुक्तः पुनात्यासप्तमं कुलम् ‍ ॥८८॥

यस्य स्वादुजलं कूपे पिबंति सततं जनाः । किं तेन न कृतं पुण्यं सर्वसत्वोपकारिणा ॥८९॥

यः प्रासादन्त्रचयति शुभान्देवतानां तडातेकीर्तिस्तस्य भ्रमति विपुला वंशमार्गानुयाता । दिव्यान्भोगान्भजति च सदा कारकश्वाप्रमेयान्भुक्त्वा सौख्यं पुनरपि च भवेच्चक्रवर्ती पृथिव्याम् ‍ ॥९०॥

येषां तडागानि बहूदकानि कूपाश्व यूपाश्व प्रतिश्रयाश्व । अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचनी भवंति ॥९१॥ [ ५५३१ ]

इति श्रीभविष्ये महापुराणे श्रीकृष्णयुधिष्ठिरसंवादे वापीकूपतगोत्सर्गविधिवर्णन नाम सप्तविंशन्युत्तरशततमोध्यायः ॥१२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP