संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२६

उत्तर पर्व - अध्याय १२६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

गृहस्थो मरणे प्राप्ते कथं त्यजति जीवितम् ‍ । एतन्मे बूहि गोविन्द परं कौतूहलं हि मे ॥१॥

कृष्ण उवाच ॥ नान्यदुत्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् ‍ । तस्याहं लक्षणं वक्ष्ये यज्जप्यं च मूमूर्षता ॥२॥

यादृगूपश्व भगवांश्विंतनीयो जनार्दनः । आसन्नमात्मनः कालं ज्ञात्वा प्राज्ञो युधिष्ठिर ॥३॥

निर्धूतमलदोषश्व स्नातो नियतमानसः । समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ॥४॥

प्रणिपातैः स्तवैः पुण्यैर्गधैर्धूपैस्तु पूजयेत् ‍ । दत्वा दानं च विप्रेभ्योऽविकलादिभ्य एव च ॥५॥

समर्प्य ब्राह्मणेभ्यश्व देवार्चाद्युपयोगि च । बंधुपुत्रकलत्रेषु क्षेत्रधाः यधनादिषु ॥६॥

मित्रवर्गे च राजेन्द्र ममत्वं विनिवर्तयेत् ‍ । मित्राण्यामित्रान्मध्यस्थान्परन्स्वांश्व पुनः पुनः ॥७॥

अत्यर्थमपकारेण नोपकारेण चिन्तयेत् ‍ । ततश्व प्रयतः कुर्यादुत्सर्ग सर्वकर्मणाम् ‍ ॥८॥

शुभाशुभानां राजेंद्र वाक्य्म चेदमुदीरयेत् ‍ परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान् ‍ ॥९॥

भोजनं हि मयोत्सृष्टमुत्सष्टमनुलेपनम् ‍ । स्त्रग्भूषणादिकं गेयं दानमासनमेव च ॥१०॥

होमादयः परार्था ये ये च नित्यक्रमागताः । नैमित्तिका स्तथा काम्याः श्राद्धधर्मादयोज्झिताः ॥११॥

त्यक्ताश्वाश्रमिका धर्मा वर्णधर्मा स्तथोज्झिताः । पद्भयां कराभ्यां विहरन्कुर्वाणः कर्म चोद्वहन् ‍ ॥१२॥

न पापं कस्यचिन्न्याय्याः प्राणिनः संतु निर्भयाः । नभसि प्राणिनो ये च ये जले ये च भूतले ॥१३॥

क्षितेर्विवरगा ये च ये च पाषाणसंपुटे । धान्यादिषु च वस्त्रेषु शयनेष्वासनेषु चः ॥१४॥

ते स्वयं तु विबुध्यंतु दत्तं तेभ्योऽभयं मया । नमेऽस्ति बांधवः कश्विद्विष्णुं मुक्त्वा जगद्‍गुरुम् ‍ ॥१५॥

मित्रपक्षेचमेविष्णुरधश्वोर्ध्वतथायुतः । पार्श्वतो मूर्ध्नि हृदये बाहुभ्यां चैव चक्षुषी ॥१६॥

श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः । इति सर्व समुत्सृज्य घृत्वा सर्वेशमच्युतम् ‍ ॥१७॥

वासुदेवेत्यविरतं नाम देवस्य कीर्तयेत् ‍ । दक्षिणाग्रेषु दर्भेषु शेते वै प्राक्छिशिरास्तथा ॥१८॥

उदक्छिराःवा राजेंद्र चिंतयञ्जगतः पतिम् ‍ । विष्णुं जिष्णुं हृषीकेशं केशव मधुसूदनम् ‍ ॥१९॥

नारायणं नरं शौरिं वासुदेव जनार्दनम् ‍ । वाराहं यज्ञपुरुषं पुंडरीकाक्षमच्युतम् ‍ ॥२०॥

वामनं श्रीधरं कृष्णं नृसिंहमपराजितम् ‍ । पद्मनाभमजं श्रीशं दामोदरमधोक्षजम् ‍ ॥२१॥

सर्वेश्वरेश्वरं शुद्धमनंतं विश्वरुपिणम् ‍ । चक्रिण गदिनं शांतं शाङ्खिनं गरुडध्वजम् ‍ ॥२२॥

किरीटकौस्तुभधरं प्रणमाम्यहमव्यवयं ‍ । अहमस्मिजगन्नाथ मयि वासं कुरु द्रुतम् ‍ ॥२३॥

आवयोरंतरं मास्तु समीराकाशयोरिव । अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम ॥२४॥

नीलोत्पलदलश्यामः पद्मपत्रायतेक्षणः । एष पश्यतु मामीशः पश्याम्यहमघोक्षजम् ‍ ॥२५॥

इत्थं जपेदेकमनाः स्मरन्सर्वेश्वरं हरिम् ‍ । आसीत सुखदुःखेषु समो मित्राहितेषु च ॥२६॥

ॐनमो वासुदेवाय इत्येतत्सततं जपेत् ‍ । यथा यथा भवेत्कामस्तथा तन्नाकीर्तयेत् ‍ ॥२७॥

ध्यायेच्च देवदेवेशं विष्णो रुपं मनोरमम् ‍ । प्रसन्ननेत्रभूचक्रं शङ्खचक्र्गदाधरम् ‍ ॥२८॥

श्रीवक्षसं सुमनसं चतुर्वक्त्र किरीटिनम् ‍ । पीतांबरधरं कृष्णं चारुकेयूरधारिणम् ‍ ॥२९॥

चिंतयेत्तु सदा रुपं मनः कृत्वैकनिश्वयम् ‍ । यादृशो वा मनः स्थैर्य रुपे बध्नाति चक्रिणः ॥३०॥

तदेव चितयेद्रूपं वासुदेवेति कीर्तयेत् ‍ । इत्थं जपन्स्मरन्नियं स्वरुपं परमात्मनः ॥३१॥

अनास्थः परमोदारतच्चिस्तत्परायणः । सर्व पातकयुक्तोऽपि पुरुषः पुरुषभ ॥३२॥

प्रयाति देवदेवेशे लयमीडयतमेऽच्युते । यथाग्रिस्तृणजातानि दहत्यानिलसंगतः ॥३३॥

तथानशनसंकल्पः पुंसां पापमसंशयम् ‍ । युधिष्ठिर उवाच ॥ उक्रांतिकाले भूतानां मुह्यंति चित्तवृत्तयः ॥३४॥

जराव्याधिविहीनानां किमुतव्याधिदोषिणाम् ‍ । अत्यंतवयसा दग्धो व्याधिना चोपषीडितः ॥३५॥

यदि स्थातुं न शक्रोति क्षितिस्थो दर्भसंस्तरे । किमप्यन्योप्युपायोऽस्ति न वानशनकर्मणि ॥३६॥

वैकल्पं येन नाप्नोति तन्मे ब्रूहि जनार्दन । त्वयोक्तं भगवन्ध्यान्म तद्‌ब्रूहि मम तत्त्वतः ॥३७॥

ध्यानस्वरुपमखिलं कथयस्व जनार्दन । श्रीकृष्ण उवाच ॥ नात्र भूमिर्न च कुशाः स्वास्तराश्व कारणम् ‍ ॥३८॥

चित्तस्यालंबनी भूतो विष्णुरेवात्रकारणम् ‍ । तिष्ठन्भुञ्जन्स्वपन्गच्छंस्तथा धावन्निस्ततः ॥३९॥

उत्क्रांतिकाले गोविण्दं संस्मरं स्तन्मयो भवेत् ‍ । यंयञ्चापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ‍ ॥४०॥

तं तमेवैति कौन्तेय सदा तद्भावभावितः । तस्मात्प्रधानमत्रोक्तं वासुदेवस्य चिन्तनम् ‍ ॥४१॥

यद्यत्पृष्टं त्वया ध्यानं तदेव कथयामि ते । पुरा मे कथितं पार्थ मार्कडेयेन धीमता ॥४२॥

राज्योपभोगशयनासनवाहनेषुस्त्रीगंधमाल्यमणिवस्त्रभूषणेषु । इच्छाभिलाषमतिमात्रमुदेति मोहाद्धयानं तदाद्यमिति संप्रवदंति तज्ज्ञाः ॥४३॥

संछेदनैर्दहनताडनपीडैश्व गात्रप्रहारदमनैर्विनिकृंतनैश्व । यस्येह चेतसि हि याति चानुकंपा ध्यानं तु रौद्रमिति तत्प्रवदंति तज्ज्ञाः ॥४४॥ सूरार्थमार्गणमहाव्रतभावनाभिर्बधप्रमोक्षगतिहेतुचिन्ता । पञ्चेन्द्रियाद्युपशमश्व शमश्व भूतेर्ध्यानं तु धर्म्यामिति तत्प्रवदंति संतः ॥४५॥

यस्योन्द्रियाणि विषयैर्हिविवर्जितानि सङ्कल्पनात्मजविकल्पविकारयोगे । तत्वैकनिष्ठहृदयो निभूतांतरात्मा ध्यानं तु शुल्कमिति तत्प्रवदंति सिद्धाः ॥४॥६

आद्योतिर्यगधोगतिश्व नियतं ध्याने तु रौद्रे सदा धर्म्ये देवगतिः शुभं फलमहो शुल्के च जन्मक्षयः । तस्माज्जन्मरुजापहेहिततरे संसारानिर्वाहके ध्याने शल्कतरे रजःप्रमथने कुर्यात्प्रयत्नं बुधः ॥४७॥

समाः सहस्त्राणि तु सप्त वै जले दशैकमग्नौ पवने च षोडश । गवां गृहे वष्टि श्रीकृष्ण युधिष्ठिरसंवादे अंतकालस्मरण वर्णनं नाम षडिवंशत्युत्तरशततमोऽध्यायः ॥१२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP