संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४७

उत्तर पर्व - अध्याय ४७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अत ऊर्ध्वं प्रवक्ष्यामि सप्तमीकल्पमुत्तमम् ‍ । माघमासात्समारभ्य शुक्लपक्षे युधिष्ठर ॥१॥

सप्तम्यां कुरु संकल्पप्रहोराव्रे व्रते नृप । वरुणंत्यर्चयित्वा तु ब्रह्मकूर्चं तु कारयेत् ‍ ॥२॥

अष्टम्यां भोजयेद्विप्रांस्तिलपिष्ट गुडौदनम ‍ । अग्निष्टामस्य यज्ञस्य फलं प्रान्पोति मानवः ॥३॥

सप्तम्यां फाल्गुने मासि सृर्यमित्यभिपूजयेत् ‍ । वाजपेयस्य यज्ञस्य यथोक्त लगते फलम् ‍ ॥४॥

सप्तन्यां चैव्रमासे तु वेदांशुरपि पूजयेत् ‍ । उक्थाध्वरसमं पुण्यं नरः प्रान्पोति भक्तिमान् ‍ ॥५॥

वैशाखस्य तु सप्तम्यां धातारमभिपूजयेत् ‍ । पशुबन्ध्वध्वरे पुण्यं सम्यक्प्रान्पोति मानवः ॥६॥

सप्तम्यां ज्येष्ठमासस्य इन्द्रमित्यभिपूजयेत् ‍ । वाजपेयस्य यज्ञस्य फलं प्रान्पोति दुर्लभम् ‍ ॥७॥

आषाढमांस सप्तम्यां पूजयित्वा दिवाकरम् ‍ । बहुवर्णस्य यज्ञस्य फलं प्रान्पोति पुष्कलम् ‍ ॥८॥

सप्तम्यां श्रावणे मासि मातापिं नाम पूजयेत् ‍ । सौव्रामणिफलं सम्यवप्राप्नोति पुरुषः शुभम् ‍ ॥९॥

रविं प्रौष्ठपदे मासे सप्तम्यामर्चयेच्छचिः । तुलापुरुषदानस्य फलं प्रान्पोति मानवः ॥१०॥

आश्वयुवछुक्लसप्तम्यां सवितारं प्रपूज्य च । गोसहस्त्रप्रदानस्य फलं प्रान्पोति मानवः ॥११॥

कार्तिके शुक्लसप्तम्यां दिनेशं सप्तिवाहनम् ‍ । योऽभ्यर्चयति पुण्यात्मा पौण्डरीकं स विन्दति ॥१२॥

भानुं मार्गसिते पक्षे पूजयित्वा विधानतः । राजसूयस्य यज्ञस्य फलं दशगुणं लभेतु ॥१३॥

भास्करं पुष्यमासे तु पूजयित्वा यथाविधि । नरमेधस्य यज्ञस्य फलं प्रान्पोति पुष्कलम् ‍ ॥१४॥

तदेव कृष्णसप्तम्यां नाम संपूजयेद्‍बधः । सोपव्रासः प्रथत्नेन वषमेकं युधिष्ठिर ॥१५॥

पश्वात्समाप्ते नियमे सूर्ययागं समाचरेत् ‍ । शुचिर्भूमौ समे देशे लेपयेद्रक्तचन्दनैः ॥१६॥

एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा । सिन्दूरगैरिकाभ्यां च सूर्यमण्डलमालिखेत् ‍ ॥१७॥

रक्तपुष्पैः सपद्मैश्व धूपैः कुन्दुरकादिभिः । संपूज्य दद्यान्नैवेद्यं विचिव्रं घृतपाचितम् ‍ ॥१८॥

पुरतः स्थापयेत्कुम्भान्सहिरण्यान्नसयुतान् ‍ । अग्निकार्यं ततः कुर्यात्समम्युक्ष्य हुताशनम् ‍ ॥१९॥

आकृष्णेनेति मन्व्रेण समिद्भिश्वार्कसंभवैः । तिलैराज्यगुडोपतैर्दद्याद्दशशताहुतीः ॥२०॥

ततस्तु दक्षिणा देया ब्राह्मणानां युधिष्ठिर । भोजयित्वा रक्तवस्त्रैः शुक्लान्यपि पिधापयेत् ‍ ॥२१॥

द्वादशाव्र प्रशंसन्ति गावो वस्त्रान्विताः शुभाः । छव्रोपानहयुग्मं च एकैकाय प्रदाययेत् ‍ ॥२२॥

एवं निसृज्य तान्विप्रान्स्वयं भुञ्जीत वाग्यतः । य एवं कुरुते पार्थ सप्तमीव्रतमुत्तमम् ‍ ॥२३॥

नीरुजो रूपवान्वाग्मी दीर्घायुश्वैव जायते । सप्तम्यां सोपवासास्तु भानोः पश्यन्ति ये मुखम् ‍ ॥२४॥

सर्वपापविनिर्मुक्ताः सूर्यलोकमवान्पुयुः । व्रतमेतन्महाराज सर्वाशुभविनाशनम् ‍ ॥२५॥

सर्वदुष्टप्रशमनं शरीरारोग्यकारकम् ‍ । सूर्यलोकप्रदं चान्ते प्राहैवं नारदो मुनिः ॥२६॥

ये सप्तमीमुपवसन्ति सितासितां च नामाक्षरैरहिमदीधितिमचयन्ति । ते सर्वरोगरहिताः सुखिनः सदैव भूत्वा रवेरनुचराः सुचिरं भवन्ति ॥२७॥ [ १९८५ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद उभयसप्तमीव्रतवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP