संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११९

उत्तर पर्व - अध्याय ११९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पार्थ पार्थिवदिव्यस्त्रीमुखपंकजसदृशः । शुणुष्वभिनवर्स्येदोरुदयेऽर्घ्यविधिं परम् ‍ ॥१॥

रविर्द्वादशभिर्भागैर्वारुण्या दृश्यते यदि । प्रदोषसमये पार्थ अर्घ्य दद्यात्तदा विमोः ॥२॥

द्वितीयायां सिते पक्षे संध्याकाले ह्युपस्थिते । संस्थाप्यभिनवं चंद्रं सभूम्यां दृश्यते यदि ॥३॥

गोमयं मंडलं कृत्वा चंदनेन सुशोभितम् ‍ । रोहिण्यासहितं देवं कुम्दामोदसंभवम् ‍ ॥४॥

पुष्पचंदनधूपैश्व दीपाक्षतजलैःशुभैः । दूर्वाकुरैरत्नवरैर्दध्नावस्त्रैपाण्डुरैः ॥५॥

मंत्रेणानेन राजेन्द्र क्षत्रियः सपुरोहितः । नवो नवोऽसि मासांते जायमानः पुनः पुनः ॥६॥

आप्यायस्वसमेत्वेवंसोमराजनमोनमः । अनेन विधिनाचार्य सर्वकामफलप्रदम् ‍ ॥७॥

य प्रयच्छति कौतेय मासि मासि समाहितः । स कीर्त्या यशसा कांत्या धन्यश्व भुवि मानवः ॥८॥

पुत्रपौत्रैः परिवृतो गोधान्यधनसंकुलः । स्थित्वा वर्षशतं मर्त्ये ततः सोमपुरं व्रजेत् ‍ ॥९॥

तत्रास्ते दिव्यवपुषा भोगान्भुञ्जन्नृपोत्तम । वरस्त्रीभिः सहात्यर्थ यावदाभूतसंप्लवम् ‍ ॥१०॥

धर्म समृद्धिमतुलां यदि व्राञ्छसि त्वं मासानुमासमिह मद्वचन कुरुष्व । सोमस्य सोमकुलनंदन धूपपुष्परैर्घ प्रयच्छ नतजानु नवोदित्यस्य ॥११॥ [ ५०६७ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽभिनवचंद्रार्घ्यव्रतं नामैकोनविंशोतरशततमोऽध्यायः ॥११९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP