संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४४

उत्तर पर्व - अध्याय ४४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथान्यदपि ते वच्मि दानं श्रेयस्करं परम् ‍ । आदित्यमण्डलं नाम सर्वाशुभविनाशनम् ‍ ॥१॥

यवचूर्णेन शुभ्रेण कुर्याद्नोधूमजेन वा । सुपक्कं भानुबिम्बामं गुडगव्याज्यपूरितम् ‍ ॥२॥

संपूज्य भास्कर भक्त्या तदग्रे मण्डलं शुभम् ‍ । रक्तचन्दनजं कुर्यात्कुङ्रकुमं वा विशेषतः ॥३॥

मण्डलं तव संस्थाप्य रक्तवस्त्रैः सुपूजितम् ‍ । ब्राह्मणाय प्रदातव्यं मन्व्रेणानेन पाण्डव ॥४॥

आदित्यतेजसोत्पन्न राजतं विधिनिर्मितम् ‍ । श्रेयसे मम विप्र त्वं प्रतिगृह्लेदमुत्तमम् ‍ ॥५॥

इति दानमन्व्रः ॥ कामदं धनदं धम्यै पुव्रदं सुखदं तव । आदित्यप्रीतये दत्तं प्रतिगृह्रामि मण्डलम् ‍ ॥६॥

इति प्रतिग्रहमन्व्रः ॥ एवं दत्त्वा नरो राजन्सूर्यवद्दिवि राजते । सर्वकामसमृद्धार्थो मण्ढलाधिपतिर्भवेत् ‍ ॥७॥

दातव्यो जयसप्तम्यां तदारभ्य दिनेदिने । भास्करस्य महाराज शक्त्या भावेन भावितः ॥८॥

गोधूमचूर्णजनितं यवचूर्णजं वा आदित्यमण्डलमखण्डगुडाद्यपूर्णम् ‍ । कृत्वा द्विजाय विधिवत्प्रतिपादयेद्यो भूमौ भवत्यमितमण्डलमण्डलोऽसौ ॥९॥ [ १९०८ ]

इति श्रीभविष्ये महापुराण उत्तरपवणि श्रीकृष्णयुधिष्ठिरसंवाद आदित्यमण्डलविधिवर्णनं नाम चतुश्वत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP