संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९१

उत्तर पर्व - अध्याय ९१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्टिर उवाच ॥

अंबुपूर्णतडागेषु महत्तोयाशयेषु च । कस्यार्ध्यं संप्रयच्छंति कृष्णैताः कुलयोषितः ॥१॥

श्रीकृष्ण उवाच ॥ मासि भाद्रपदे प्राप्ते शुक्ले भूततिथौ नृप । तडागपाल्या दातव्यं वरुणायार्घ्यमुत्तमम् ‍ ॥२॥

ब्राह्मणैः क्षव्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथैव च । तस्मिन्दिने भक्तिनम्रैर्दद्यादर्घं युधिष्ठिर ॥३॥

पुष्पैः फलैस्तथावस्त्रैर्दीपालक्तकचन्दनैः । अनग्निपाकसिद्धान्नैस्तिलतंडुलमिश्रकैः ॥४॥

खर्जूरैर्नालिकेरैश्व बीजपूर्णारकैस्तथा । द्राक्षादाडिमपूगैश्व व्रपुसैश्वापि पूजयेत् ‍ ॥५॥

आलिख्य मण्डले देवं वरुणं वारुणीयुतम । मंव्रेणानेन राजयेन्द्र पृजयेद्भक्तिभावतः ॥६॥

वरुणाय नमस्तुभ्यं नमस्ते यादसांपते । अपांपते नमस्तेऽस्तु रसानां पतये नमः ॥७॥

मा क्लेदं मा च दौर्गंध्यं विरस्यं मा मुखेऽस्तु मे । वरुणो वारूणीभर्ता वरदोऽस्तु सदा मम स्वाहा ॥८॥

एवं यः पूजयेद्भक्त्या वरुणं वरुणालयम् ‍ । मध्याह्ले सरसि स्त्रात्वा नन्गिपाकी व्रती नृप ॥९॥

चातुर्वर्णाथ वै नारी व्रतेनानेन पांडव । नैवेद्यं ब्राह्मणे देयं यनैवेद्ये प्रकल्पितम् ‍ ॥१०॥

एवं यः कुरुते पार्थ पालीव्रतमनुत्तमम् ‍ । तत्क्षणात्सर्वपापेभ्यो मुच्यते नाव्र सशयः ॥११॥

संरुद्धशुद्धसलिलातिबलाम विशालां पालीमुपेत्य बहुभिस्तरुभिः कृतालीम् ‍ । ये पूजयंति वरुणं सहितं समुद्रैस्तेषां गृहे भवति भूमिरलब्धवेगा ॥१२॥ [ ३८३८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पालीव्रतवर्णनं नामैकनवतितमोऽध्यायः॥९१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP