संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९८

उत्तर पर्व - अध्याय ९८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

तथा सर्वफलत्यागमाहात्म्यं श्रृणु भारत । यदक्षयं परोलोके सर्वकामफलप्रदम् ‍ ॥१॥

मार्गशीर्षे शुभे मासि चतुर्दश्यां घृतव्रतः । आरंभे शुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ‍ ॥२॥

अन्येष्वपि तु मासेषु अष्टम्यां नरसत्तम । सदक्षिणापायसेन शक्तितः पूजयेद ‍ दिजान् ‍ ॥३॥

अष्टादशानां धान्यानानामन्यव्र फलमूलकम् ‍ । वर्जयेदब्दमेकं तु विधिनौषधकारकम् ‍ ॥४॥

ततः सर्वत्सरस्यांते चतुर्दश्यष्टामीषु च । अशक्तक्तश्व व्रतं कर्तुं सहसैव प्रमुच्यते ॥५॥

सौवर्णं कारयेद्रुद्रं धर्मराजं तथैव च । कूष्माण्डं मातुलुंगं च वृंताकं पनसं तथा ॥६॥

आम्राम्रातकपित्थे च कलिंगं सेर्ववारुकम् ‍ । श्रीफलं सवटाश्वत्थं जंबीरंकदलीफलम् ‍ ॥७॥

बदरं दाडिमं शक्त्या कार्याण्येतानि षोडश । मूलकामलकं जम्बूपुष्करंकरमर्दकम् ‍ ॥८॥

उदुंबरं द्नाक्षा च बृहतीद्वयम् ‍ । कंकोलीकर्कटी कार्या करीरकुटजं शमी ॥९॥

रौप्याणि कारयेच्छक्त्या फलानी मानि षोडश । ताम्रं तालफलं कुर्यादगस्त्यफलमेव वा ॥१०॥

पिंडीतकं च खर्जूरं तथा सूरणकंदकम् ‍ । पनसं लकुचं चैव कर्कटं तितिडिंतथा ॥११॥

चिव्रावल्लीफलं तद्‍त्कूटशाल्मलिकाफलम् ‍ । मधूकं कारवेल्लं च वल्लींगुदषटोलकम् ‍ ॥१२॥

कारयेच्छक्तितोधीनान्फलान्ये तानि षोडश । उदकुंभद्वयं कुर्याद्धान्योपरि सवासससम् ‍ ॥१३॥

तच्चपाव्राद्वयोयेतं यमरुद्रसमन्वितष्ट । धेन्वा सहैव शांताय विप्रायाथ कुटुंबिने ॥१४॥

सपत्नीकाय संपूज्य पुण्येऽइनि निवेदयेत् ‍ । यथाफलेषु सर्वेषु वसंत्यमरकोटयः ॥१५॥

तथासर्वफलत्यागाच्छिवे भक्तिः सदास्तु मे । यथाशिवश्व धर्मश्व सदानन्तफलपदौ ॥१६॥

तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ । यथा फलमकामस्य शिवभक्तस्य सर्वदा ॥१७॥

यथानंतफलावाप्तिरस्तु जन्मनि जन्मनि । यथाभेदं न पश्यामि शिवविष्ण्वर्कपद्मजाम् ‍ ॥१८॥

तथा मामासु विश्वात्मा शङ्करः सदा । इत्युच्चर्य च तत्सर्वमलं कृत्य विभूषणैः ॥१९॥

शक्तश्वेच्छयनं दद्यात्सर्वोपस्करसंयुत्तम् ‍ । अशक्तस्तु फलान्येव यथोक्तानि विधानतः ॥२०॥

तथोदकुंभसहितौ शिवधर्मौ च कांचनौ । विप्राय दत्वा भुञ्जीत तैलक्षाः विवजिंतम् ‍ ॥२१॥

अन्यानपि यथाशकया भोजयेद् ‍ दिजपुङ्गवान् ‍ । न शकोति विहातुं चेत्सर्वाण्यपि फलान्युत ॥२२॥

एकमेव परित्यज्य तदित्थं प्रतिपादयेत् ‍ । एतत्त्यागव्रतानां तु फलं वैष्णवयोगिनम् ‍ ॥२३॥

शस्तं सर्वफलत्वागंव्रतं वेदविदो विदुः । नारीभिश्व यथाशक्त्या कर्तव्यं राजसत्तम ॥२४॥

नैतस्मादपरं किञ्चिदिह लोके परव्र च । व्रतमरित मुनिश्रेष्ट यदन्नं तत्फलप्रदम् ‍ ॥२५॥

सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः । भवंति चूर्यमाणेषुनृपसत्तम ॥२६॥

तावद्युगसहस्त्राणि रुद्रलोके महीयते ॥२७॥

एतत्समस्तकलुषापहरं जनानामाजीवनाय मनुजेश्वर सर्वदा स्यात् ‍ । जन्मान्तरेष्वपि न पुव्रकलव्रदुःखमान्पोति धाम स पुरंदर एव जुष्टम् ‍ ॥२८॥

यो वा शृणोति पुरुषोल्पधनो नरो वा यो ब्राह्मणस्तु भवनेषु च धार्मिकाणाम् ‍ । पापैर्विमुक्तश्व परव्र पुरं मुरारेरानंदकृत्यत्परमुपैतिनरेन्द्र सोऽपि ॥२९॥ [ ४१३६ ]

इति श्रीभविष्ये उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे फलत्यागचतुर्दशीव्रतवर्णनं नामाष्टनवतितमोऽध्यायः ॥९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP