संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ७

तिष्यसन्तानः - अध्यायः ७

लक्ष्मीनारायणसंहिता


श्रीबदरीश्वर्युवाच-
कान्तनारायणकृष्ण दाराभाग्यो नृपो हि मे ।
बद्रिकालयमासाद्य किं चकार वदस्व मे ॥१॥
श्रीनरनारायण उवाच-
ऋषीकेशात्समारभ्य प्रतिक्रोशं स भूपतिः ।
व्यधाद्वै दण्डवद् बद्रीनाथं दानानि सन्ददौ ॥२॥
पद्भ्यां ययौ शनैः सर्वप्रजाभिः सहितो हि मे ।
भोज्यव्ययः समस्तो वै सहस्रदेहिनां निजः ॥३॥
व्रतं मध्याह्नभोजित्वं चक्रे राजा प्रजान्वितः ।
सहस्रमालिकाऽऽवर्त्तनं चक्रे प्रत्यहं नृपः ॥४॥
प्रजाश्चापि तथा चक्रुर्मालाऽऽवर्त्तनकीर्तनम् ।
हरे कृष्णबालकृष्णबद्रीनाथेशमाधव ॥५॥
अनादिश्रीकृष्णनारायणपद्मावतीधव ।
एवं संभूय भजनं चक्रुस्ते वाचिकं पथि ॥६॥
तीर्थव्रतानि ते सर्वे पालयामासुरुत्सुकाः ।
भूशायित्वं ब्रह्मचर्यं चैकभुक्तत्वमित्यपि ॥७॥
नारीणां च नराणां च मिथः स्पर्शविहीनताम् ।
सत्यवचनं चाऽद्रोहं चान्यगाथाविवर्जनम् ॥८॥
अस्तेयं चेश्वरवृत्तिं स्वाध्यायं फलभोजनम् ।
सतां सेवां हरेः सेवां साध्वीनां सेवनं तथा ॥९॥
कथायाः श्रवणं सायं कीर्तनं वाद्यसंयुतम् ।
वृद्धानां वन्दनं प्रातर्देवानां पूजनं प्रगे ॥१०॥
अहिंसां चापि जीवानां नोच्छेदं तृणशाखिनाम् ।
स्नानं ध्यानं जपं चापि हवनं पितृतर्पणम् ॥११॥
पित्रोः प्रसेवनं पत्युः सेवनं साधुसेवनम् ।
नित्यदानं च गोसेवां विप्रसम्मानमर्हणम् ॥१२॥
अन्नवस्त्रप्रदानं च धूपदीपनिवेदनम् ।
व्रतान्येवंविधान्येव चक्रुर्मार्गे हि यात्रिकाः ॥१३॥
सहस्रमानवाः सर्वे दाराभाग्यनृपान्विताः ।
बदरीश जय विष्णो नरनारायण प्रभो ॥१४॥
गंगा जयतु बद्रीशी हिमालयो जयत्वपि ।
एवं जयादिशब्दैस्ते सोत्साहा रुरुहुर्गिरिम् ॥१५॥
शिखराणि कज्जलानि धवलानि क्रमात् ततः ।
विलोकयन्तो भक्तौ च मग्ना यान्ति शनैः शनैः ॥१६॥
अथ नारायणस्वामी साधुर्भूत्वा नरोऽपि च ।
तथा श्रीबदरी साध्वी भूत्वा भागवतीप्रभा ॥१७॥
भिक्षुकाणां वेषवन्तो ययुः संघेन संयुताः ।
रात्रौ त्रयो मिलित्वा च मिष्टस्वरैः सुकीर्तनम् ॥१८॥
नरनारायणस्यैव कुर्वन्ति स्नेहगर्भितम् ।
शृण्वन्ति संघशः सर्वे नमन्ति त्रीन् गुरूनिव ॥१९॥
भोजयन्ति परे चापि सेवन्ते त्वपरेऽपि तु ।
अर्पयन्ति यथेष्टं वै त्रिभ्यो यात्रालवो मुहुः ॥२०॥
त्रिकं चापि दिव्यरूपं भागवतं स्थले स्थले ।
आवेदयति पन्थानं पथ्यं पाथेयमित्यपि ॥२१॥
विक्रेतृरूपमासाद्य पर्वतीयफलादिकम् ।
आपणे त्विव धृत्वा च मार्गे तिष्ठति वै पुरः ॥२२॥
एवं श्रीभगवान् बद्रि संघेन सह वर्तते ।
भक्ता यतः प्रसन्नाः स्युः सेवया दुःखवर्जिताः ॥२३॥
वियोगं निजभक्तानां तत्रापि स्वं प्रयायिनाम् ।
सहते न हरिकृष्णो भक्ताः सहन्त एव न ॥२४॥
तथा बद्रीप्रभो नारायणोऽहं वै त्वया सह ।
नरेण सहितः संघे युक्तेऽभवं निजेच्छया ॥२५॥
मुक्तिदोऽहं हि भक्तानां पार्वतिकोऽघनाशकः ।
दयया प्रेरितः संघे व्यचरं साधुवेषभाग् ॥२६॥
साधूनां सेवया कृष्णसेवया तीर्थयात्रिका ।
सफला जायते बद्रि दर्शनात् पादवाहनात् ॥२७॥
अथ राज्ञस्तु संघस्य परीक्षार्थं मया तदा ।
रुग्णं रूपं मम बद्रि दर्शितं ज्वरवेशितम् ॥२८॥
चलितुं त्वसमर्थोऽहं ज्वराग्निना तदाऽभवम् ।
मम भ्राताऽपि सहसा ज्वराऽऽविष्टोऽभवत्ततः ॥२९॥
मम पत्नी सती नारी साध्वी रुरोध वै भृशम् ।
ज्वराविष्टौ पुमांसौ द्वौ सेवनीयौ कथं पथि ॥३०॥
एकया योषिता साध्व्या रुग्णौ पाल्यौ कथं पथि ।
शीताढ्ये हिममार्गे वै पराधीनौ सुदुःखितौ ॥३१॥
भिक्षुक्याः सन्निधौ तत्र नायान्ति धनमानिनः ।
भिक्षुकी रौति विजने निषद्य सन्निधौ तयोः ॥३२॥
संघस्था मानवाः सर्वे दयायुक्तास्तु तैर्थिकाः ।
ये ये त्वायान्ति तत्पार्श्वे तिष्ठन्ति दययाऽन्विताः ॥३३॥
सेवन्ते ज्वरनाशार्थं देहं संवाहयन्त्यपि ।
धैर्यं वदन्ति नार्यै च यथेष्टं संददत्यपि ॥३४॥
क्रमशस्ते सहस्रं वै मानवा रुग्णसन्निधौ ।
यात्रां निरुध्य मिलितास्त्यक्तुं शक्ता न चाऽभवन् ॥३५॥
राजाऽपि त्वाययौ मार्गे निर्गच्छन् तौ व्यलोकयत् ।
रुग्णौ साधूसत्तमौ च दुःखिनीं साध्विकां प्रियाम् ॥३६॥
अतिष्ठत् सहसा तत्र निषसाद पुरस्तयोः ।
पप्रच्छेप्सितमेवाऽपि धैर्यं ददौ धनं ददौ ॥३९॥
वचनं प्रददौ ताभ्यां साधुभ्यां नृपतिः शुभम् ।
यावद् रोगो न भवतोर्निवर्तेत तु तावता ॥३८॥
नाऽस्मात् स्थानात् प्रयास्यामि त्वग्रे बदरिकाश्रमम् ।
सह नीत्वैन यास्यामि मा खेदं कुरुतं युवाम् ॥३९॥
सर्वे वयं निवत्स्यामश्चात्रैव स्वस्थतावधिम् ।
यद्वाऽऽज्ञया तु भवतोर्वां कृत्वा स्कन्धवाहिनौ ॥४०॥
यास्यामो बदरीतीर्थं सन्तो हि हृदयं हरेः ।
न त्यक्तव्या मोक्षणार्थैः प्राप्ताः सन्तः कदाचन ॥४१॥
साध्वीयं मा शुचं यातु तिष्ठामस्त्वत्सहायिनः ।
बद्रीनाथो द्रुतं चेमौ नीरुग्णौ विदधात्विह ॥४२॥
एवं निश्चित्य राजाऽपि प्रजाश्चापि हरिप्रियाः ।
सर्वे यात्रां विहायैव साध्वर्थं तूषिताः पथि ॥४३॥
अथ भोजनपानादि फलादनं प्रचक्रिरे ।
साधुभ्यां दत्तवन्तश्च मुद्गपक्वादिमण्डकम् ॥४४॥
पपतुस्तौ सुखं साध्वी भोजनं प्रचकार ह ।
सर्वेऽपि भुक्तवन्तस्ते रात्र्यागमोऽभवत्ततः ॥४५॥
रात्रौ सर्वे कीर्तनं च प्रचक्रुः कण्ठरागिणः ।
सवाद्यं श्रीनरनारायणनाम प्रचक्रिरे ॥४६॥
अथापि हिमवर्षा वै निशाऽर्धविगमेऽभवत् ।
शीताऽनलोऽभवद् व्याप्तः संघे सर्वत्र भूतले ॥४७॥
रुग्णौ प्रातर्मृतौ त्यक्त्वा प्राणान् प्रेतौ बभूवतुः ।
रुरोध साध्वी साऽनाथा रुरुदुर्नृपतत्प्रजाः ॥४८॥
हिमस्य विगमे जाते प्रातःप्रकाशनोत्तरम् ।
राजा सर्वान् यात्रिकाँश्च सम्बोधयन्नुवाच ह ॥४९॥
यावन्मृतौ न जीवेतां तावदन्नं त्यजाम्यहम् ।
मरणं साधुभिः साकं मन्ये मोक्षप्रदं मम ॥५०॥
श्रुत्वैवं यात्रिकाः सर्वे नरा नार्योऽपि बालकाः ।
प्रतिज्ञां तादृशीं चक्रुर्गृह्णामो भोजनं नहि ॥५१॥
यावन्नैतौ हि जीवेतां मरिष्यामोऽत्र निर्जलाः ।
यास्यामो ब्रह्मसदनं साध्वर्थे प्राणरोधिनः ॥५२॥
किमत्र यात्रया साधून् त्यक्त्वा स्वार्थपरार्थिनाम् ।
निष्फलं जीवनं तस्य साधूँस्त्यक्त्वा तु जीवति ॥५३॥
अपि प्राणान् प्रदायैव साधून् संरक्षयेत् सदा ।
गवार्थे ब्राह्मणार्थे वा साध्वर्थे च सतीस्त्रियै ॥५४॥
प्राणपणं विधायाऽपि रक्षां करोति यो जनः ।
तस्य स्वर्गं च मोक्षश्च शरण्यस्य ध्रुवौ मतौ ॥५५॥
अपि पञ्चमहापापप्रसक्तोऽपि सतां कृते ।
प्राणान् जहाति रक्षार्थं सर्वपापात् स मुच्यते ॥५६॥
साधुरक्षाकृतः रक्षां करोति भगवान् हरिः ।
साधुष्वेव हरिश्चास्ते साधुरेव स्वयं हरिः ॥५७॥
या प्रीतिर्निजपुत्रेषु पत्न्यां पित्रोश्च बन्धुषु ।
तां कृत्वा सत्सु देह्यत्र मुच्यते जन्मबन्धनात् ॥५८॥
यो यत्नः स्वकुटुम्बस्य भरणार्थं वितन्यते ।
स चेत् कृतः सतामर्थे यत्नवान् मुच्यते ह्यघात् ॥५९॥
यथा लोकैः पक्षपातः क्रियते स्वकुटुम्बिषु ।
तथा कृतः सतामर्थे तारयत्येव तत्कृतः ॥६०॥
यथा स्नेहो निजदेहे दैहिके वर्तते नृणाम् ।
तथा चेज्जायते सत्सु मुच्यते भवसागरात् ॥६१॥
यथा स्वार्थे कृतयत्नः पुमान्न मनुते श्रमम् ।
तथा सतां कृते यत्ने स्नेहान्न मनुते श्रमम् ॥६२॥
न पारक्यं च मनुते मनुते मोक्षकृच्छ्रमम् ।
स एव लभते धाम्नि नारायणपदाम्बुजम् ॥६३॥
रुग्णं साधुं तु यस्त्यक्त्वा याति देही मदान्वितः ।
स याति याम्यलोकं वै दुःखं याम्यनिभं त्विह ॥६४॥
मातृसेवाफलं पितृसेवाफलं तथा सताम् ।
सेवया लभते कान्तसेवाफलं हि शाश्वतम् ॥६५॥
सर्वतीर्थानि साधूनां मूर्तौ वसन्ति सर्वदा ।
साधुतीर्थाऽवमन्ता न लभते तीर्थजं फलम् ॥६६॥
साध्वोरेतयोर्मार्गेऽत्र गताऽस्वोस्त्यजनं ह्यघम् ।
तदर्थं प्राणदानेन पुण्यं स्वर्गं च मोक्षणम् ॥६७॥
इति निश्चित्य राजा च प्रजा यात्रां विहाय वै ।
अन्नं जलं विहायाऽपि निषेदुः शवसन्निधौ ॥६८॥
चक्रुस्ते भजनं तत्र सततं नामकीर्तनम् ।
अथ साध्वी सती नारी प्राणान् हातुं समिच्छति ॥६९॥
कृत्वा काष्ठानि चैकत्र शवौ निधाय तत्र च ।
यावदग्निं तत्र कर्तुं याति तावन्नृपः स्वयम् ॥७०॥
उत्प्लुत्य काष्ठचयने निपपात पुरः स्त्रियाः ।
ततो राज्ञी तथा नार्यः प्रजाश्चापि शुचाकुलाः ॥७१॥
निपेतुः सहसा काष्ठचितायां मरणाय वै ।
नारी वह्निं समुत्पाद्य शेते तु यावदेव ह ॥७२॥
शेरते भूभृताद्याश्च न निर्गच्छन्ति वह्नितः ।
तादृशीं परमां भक्तिं विलोक्य भगवान् स्वयम् ॥७३॥
चितायाः शान्तवह्नेस्तु सजीवः सनरो हरिः ।
उत्थितश्च हसन् दिव्यवपुश्चतुर्भुजान्वितः ॥७४॥
शंखचक्रगदापद्मधरो नरेण शोभितः ।
तथा लक्ष्म्या युतः साध्व्या हसन्नाह नृपादिकान् ॥७५॥
भवन्तो मम भक्ताः स्थ सर्वस्वार्पणकारिणः ।
साधुस्नेहयुतास्तीर्थपावनाश्चात्मसदृशाः ॥७६॥
आत्मनिवेदिनः सर्वे सर्वपापविवर्जिताः ।
वैकुण्ठयोग्या यूयं स्थ मम प्रसन्नतान्विताः ॥७७॥
परीक्षिता मया सर्वे मदर्थकृतयत्नकाः ।
मदर्थप्राणदातारो मदर्थकृतजीवनाः ॥७८॥
त्यक्तसंसारपुत्रादिस्नेहाः साधुपरायणाः ।
धामयोग्या मुक्तियोग्या भवथाऽत्र हिमालये ॥७९॥
मत्प्रसादाद्दिव्यदेहा भवथाऽत्र सुगन्धिनः ।
व्योमगाः संभवन्त्येव सर्वे दुःखविवर्जिताः ॥८०॥
इतो दूरं न मे बद्रिकाश्रमो विद्यतेऽनघाः ।
आयान्तु व्योममार्गेण सहसा तु मया सह ॥८१॥
इत्युक्त्वा भगवान्नारायणो नरश्च बद्रिका ।
व्योममार्गेण सर्वांस्तान्निन्युर्बदरिकाश्रमम् ॥८२॥
बदर्यां अभितस्तत्र तस्थुस्ते भगवत्पराः ।
ऊषुः पक्षं सेवमाना बद्रीनाथं नरं सतीम् ॥८३॥
ऋषीन्देवान्पितृगणान्दिव्यान्दिवः समागतान् ।
वीक्षयामासुरूर्ध्वज्ञा मुक्ता इवाऽभवँश्च ते ॥८४॥
अथैकं तत्र विप्रं च तपन्तं तापसं मुनिम् ।
व्यलोकयन् बदर्यग्रे नारायणजपान्वितम् ॥८५॥
निराहारं ध्यानमग्नं दिव्यमूर्तिं जटान्वितम् ।
व्यपश्यँश्च द्विजस्याऽग्रे त्वायातां कन्यकां शुभाम् ॥८६॥
बदरीमूलतो दिव्यामुद्भूतामद्भुतां प्रभाम् ।
विप्राय बदरं दत्वा व्यलीयत द्रुतं तु सा ॥८७॥
बदर्यां सा लीनभावमुपयाता नरायणी ।
दृष्ट्वाऽऽश्चर्यं तु परमं प्राप्तास्ते नृपमानवाः ॥८८॥
तीर्थविधिं ततश्चक्रुर्नारायणस्य पूजनम् ।
गंगास्नानं बदरस्य फलाहारं व्यधुस्तदा ॥८९॥
नामसंकीर्तनं चक्रुर्नारायणगतासवः ।
नीराजनं हरेश्चक्रुः प्रसादं जग्धुरुत्सुकाः ॥९०॥
एकाग्रमानसा जाताः कृष्णे स्नेहद्रवान्विताः ।
तावत्तेषां शरीराणि दिव्यानि तैजसानि वै ॥९१॥
व्यजायन्त क्षणाद् बद्रि विमानं चागतं ततः ।
निर्विकल्पसमाधिस्था दिव्येन्द्रियादिविग्रहाः ॥९२॥
तैरेव विग्रहैर्दिव्यैरारुरुहुर्विमानकम् ।
सर्वे चतुर्भुजा दिव्या नरा नार्यश्च बालकाः ॥९३॥
वैकुण्ठमार्गं विमलं त्वविच्छिन्नं तथाऽम्बरे ।
व्यलोकयन् हरिं नत्वा पार्षदैः सह तैजसैः ॥९४॥
ययुर्वैकुण्ठधामाऽथ जयशब्दास्तदा दिवि ।
देवानामभवन् बद्रि महर्षीणां शुभा रवाः ॥९५६॥
नारायणाः सर्वनरा नारायण्यः स्त्रियस्तदा ।
दिव्या वैकुष्ठयोग्यास्ते वैकुण्ठं विविशुः क्षणात् ॥९६॥
साधुरूपस्य कृष्णस्य सेवाफलं हि मोक्षणम् ।
दाराभाग्यनृपाद्याँस्तान् स्वप्ने ददृशिरे प्रजाः ॥९७॥
मुक्तिं गतान् विमानेन महोत्सवान् प्रचक्रिरे ।
एवं श्रीमाणिकीबद्रि बद्रिकाश्रमयात्रया ॥९८॥
मुक्तिं यान्ति मानवा वै दिव्यदेहा विमानगाः ।
पठनाच्छ्रवणादस्य स्मरणात् संस्तवादपि ॥९९॥
भुक्तिं मुक्तिं लभन्ते वै बद्रीप्रभेतिवादिनः ।
साक्षान्नारायणो यत्र यत्र त्वं बद्रिकाप्रभे ॥१००॥
यत्र महर्षयो दिव्या गंगा यत्र च पार्वती।
तत्र वैकुण्ठमेवास्ते पञ्चमं तपसाऽन्वितम् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दाराभाग्यनृपस्य सहस्रमानवयुतस्य बद्रिकाश्रमयात्रायां साधुसाध्वीरूपबदरीनरनारायणदर्शनं, परीक्षणं, नारायणार्थप्राणदानं, प्रसन्नता,
व्योम्ना वद्रिकाश्रमप्रापणं, दिव्यदेहवत्त्वं, मोक्षणं चेत्यादिनिरूपणनामा सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP