तिष्यसन्तानः - अध्यायः ३०
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां प्रतारिणीस्त्रियाः ।
कृष्णनारायणसंगान्मोक्षमार्गं तु सा गता ॥१॥
आसीद् ग्रामे धवलारे सौराष्ट्रे चर्मठाकुले ।
नाम्ना नारी विषलाणी प्रतारणपरायणा ॥२॥
पुत्रपौत्रयुताऽप्येषा प्रतारणे कृतश्रमा ।
वञ्चने सर्वथा ज्ञात्री वञ्चयित्रीति विश्रुता ॥३॥
वञ्चयित्री विषलाणी यथा नाऽन्या तथा भुवि ।
सर्वान् सा वञ्चयत्येव कलया च छलेन च ॥४॥
सर्वा नार्यो विषलाण्या बिभ्यत्येव पुरेऽन्वहम् ।
यद्गृहं विषलाणी सा याति तत्र विशेषतः ॥५॥
यथाकथञ्चिद्धास्येन वार्तया वचनेन च ।
कृत्रिमार्थप्रदानाद्यैः सत्यभ्रान्तिकरैस्तथा ॥६॥
वस्तुभिर्बहुधा दृष्टिरोधैर्दृष्टिप्रवञ्चनैः ।
मोडनैभ्रामणैर्व्यतिक्रमैर्विनिमयैस्तथा ॥७॥
आदानप्रतिदानैश्च वञ्चयत्येव नित्यशः ।
विश्वासिन्यस्तु बह्व्यो वञ्चनां यान्ति तत्र ह ॥८॥
वञ्चनाख्यां कलां यस्मान्निसर्गजां प्रवेत्ति सा ।
यद्गृहे याति सा तत्र वञ्चयित्वा गृहाधिपाम् ॥९॥
प्रच्छन्नलाभं संगृह्य प्रयाति तु यथा सती ।
वस्तुहानौ वस्त्वलाभे गृहेशी शंकते तु ताम् ॥१०॥
तथा हृतं भवेद्वस्तु वञ्चयिव्या गृहान्मम ।
एवं सा वञ्चनपरा ग्राम्यजनैर्विनिश्चिता ॥११॥
वञ्चनाचारमात्रज्ञा सर्वचातुर्यहारिणी ।
वञ्चनादोषयुक्ता सा दण्डपात्रं तु यद्यपि ॥१२॥
राज्ञा तथापि कलया यतः श्रेष्ठाऽनुमोदिता ।
मल्लानां च नटानां च खेलने बहुरूपिणाम् ॥१३॥
रङ्गमध्ये समागत्य वञ्चयत्येव तानपि ।
पराजयं प्रयान्त्येव जयं नैवोपयान्ति ते ॥१४॥
पारितोषिकदानाद्यं वञ्चयित्री प्रविन्दति ।
एवं सा वञ्चनपरा ह्येकदा गृहतो बहिः ॥१५॥
याता तया वीक्षितं वै साधूनां मण्डलं महत् ।
शतं ते साधवः साध्व्यो निर्वाणपदबोधिनः ॥१६॥
तस्या ग्रामे गोपुरान्ते प्राकारान्ते व्यधुः स्थितिम् ।
अथ ग्रामप्रजाः सर्वा मिलित्वा साधुभोजनम् ॥१७॥
ददुश्चापूपमौक्तिकदुग्धपाकप्रपोलिकाः ।
चणकाः श्रेष्ठशाकानि ददुर्भोजनमुत्तमम् ॥१८॥
साधवो बुभुजुः सर्वे दृष्ट्वा तद् भोजनोत्तमम् ।
रसास्वादपरा वञ्चयित्री चाऽचिन्तयद्धृदि ॥१९॥
केनोपायेन मिष्टान्नं मिलेत् तद् भक्षयाम्यपि ।
जना ग्राम्याः साधवश्च जानीयुर्न यथा तथा ॥२०॥
कृत्वाऽत्र वञ्चनं भुक्त्वा तृप्ता यास्यामि मे गृहम् ।
अथ सा निजकेशानां जटां बद्ध्वाऽकरोज्जटाम् ॥२१॥
भस्माढ्यां तां जटां नैजां तनूं चाप्यकरोत्तदा ।
धृत्वा काषायवस्त्राणि करे त्रिशूलमित्यपि ॥२२॥
योगिनी साध्विका भूत्वा साध्वीमण्डलमाविशत् ।
भुक्तवतीषु साध्वीषु साध्वीपंक्तौ स्थिताऽभवत् ॥२३॥
उपविष्टा तथा तत्र यथा न स्यात् परेक्षणम् ।
भुक्त्वा पीत्वा प्राप्य तृप्तिं शनैरुत्थाय प्रस्थिता ॥२४॥
न ज्ञाता खलु साध्वीभिर्ग्रामसाध्वीति सम्मता ।
न पृष्टा तर्किता काभिश्चिदियं ग्रामयोगिनी ॥२५॥
ग्रामजनैर्विकृता सा न यथार्थं समीक्षिता ।
एवं सा वञ्चनावेषं धृत्वा भुक्त्वा प्रसादकम् ॥२६॥
गृहं गत्वा पुनर्वेषं निजं धृत्वाऽस्वपत् सुखम् ।
एवं नित्यं प्रयात्येव भुक्त्वा पञ्चदिनानि सा ॥२७॥
आयाति स्वगृहं तस्या याथार्थ्यं न विदुर्जनाः ।
साधुसाध्वीकृष्णप्रासादिकं भुक्तवती तु सा ॥२८॥
पावनं सर्वपापानां क्षालकं तु प्रसादजम् ।
जलमन्नं दलं वापि फलं शाश्वतमुक्तिदम् ॥२९॥
पापिनो बहवः सन्ति पापात् प्रेता भवन्ति च ।
अधोयोनिगताश्चापि जायन्ते तु घसाशिनः ॥३०॥
विघसाशी सदा मुक्तो भवत्येवाऽघराशिभिः ।
हरेर्योगः सतां योगः साध्वीयोगो हि दुर्लभः ॥३१॥
सत्संगो दुर्लभश्चाति मिलेच्चेन्मोक्षणं द्रुतम् ।
महापापानि नश्यन्ति प्रसादान्नादिभोजनात् ॥३२॥
वञ्चनादिप्रपापानि दह्यन्ति श्रीप्रसादतः ।
आत्मा शुद्ध्यति सहसा मोक्षयोग्यो भवत्यपि ॥३३॥
श्रीबद्रीरमोवाच-
प्रतारणं तु यत्कर्म कतिधा छन्नमेव वा ।
येन स्यान्नरके वासस्तन्मे निगद केशव ॥३४॥
श्रीनरनारायण उवाच--
शृणु बद्रीप्रिये देवि प्रतारणं तु नैकधा ।
येन देही नरकान् वै यानि वञ्चनपापकृत् ॥३५॥
परमेशकृतं देहं प्राप्य देहेन सेवनम् ।
कुर्यान्न परमेशस्य वञ्चितस्तेन माधवः ॥३६॥
आत्ममोक्षप्रदं देहं प्राप्य मोक्षार्थसाधनम् ।
येनाऽर्जितं न वै तेन त्वात्मा वै वञ्चितो निजः ॥३७॥
साधूनां योगिनां चापि साध्वीनां मण्डलादिषु ।
बकभक्तो भवेद्यस्तु साध्वाद्यास्तेन वञ्चिताः ॥३८॥
धनस्त्रीत्यागवैराग्योपदेष्टा यस्तु मानवः ।
त्याजयित्वा स्वयं भुंक्ते प्रतारणं तु तन्महत् ॥३९॥
विश्वास्य बहुधा लाभं दर्शयित्वा विभिन्नकम् ।
स्नेहं कृत्वा कारयित्वा धनं हरति वञ्चनम् ॥४०॥
बालं नारीं बालिकां वा युवानं धनिनं तथा ।
युवतीं वस्तुमात्रं वा यत्र हरति वञ्चनम् ॥४१॥
सदृशं चोभयं वस्तु निर्मूल्यं बहुमूल्यकम् ।
दत्वा निर्मूल्यकं बहुमूल्यं हरति वञ्चनम् ॥४२॥
कार्यं पूर्णं कारयित्वा पश्चाद् यत्नफलं तु यः ।
न ददात्यल्पयत्येव छिनत्ति तद्धि वञ्चनम् ॥४३॥
कर्मणा मनसा वाचा लाभं लब्ध्वा ततः परम् ।
न कार्यं निष्पादयति वञ्चको लुञ्चकस्तु सः ॥४४॥
सति द्रव्ये धर्मकार्यं न करोति ददाति न ।
न भुंक्ते सा वञ्चना वै द्रव्यकृता तु नारकी ॥४५॥
त्यागी भूत्वा गृहस्थानां भोगान् भुंक्ते ददाति च ।
गृहस्थवंशकृत् स्याद् यः संसारस्तेन वञ्चितः ॥४६॥
भक्त्या विश्वास्य लोकान् यश्चेन्द्रियाणां वशो भवेत् ।
प्रतारिता तेन भक्तिर्निरयाणां विधायिनी ॥४७॥
अभिचारादिकं कृत्वा स्वाधीनं प्रकरोति यः ।
पुनर्वशं कृतं भुंक्ते धर्मस्तेन प्रतारितः ॥४८॥
यानि कार्याणि यावन्ति सुदृढानि भवन्ति वै ।
तथा तेषां विधाता न पोलम्पोलविधायकः ॥४९॥
अपूर्णकार्यकर्ता च कनिष्ठवस्तुयोजकः ।
प्रच्छन्नलाभलोभाढ्यो वञ्चको निरयानुगः ॥५०॥
घृतस्थाने तु यस्तैलं जलं तक्रं पयस्तथा ।
प्रयुंक्ते च शुभेऽनिष्टं वञ्चको निरयाभिगः ॥५१॥
हस्तिने यत्र करिणीं दर्शयित्वा तु गर्तके ।
पातयत्येव तद्वस्तुकर्ता प्रतारको मतः ॥५२॥
कन्यां सुरूपां युवतीं प्रदर्श्य मण्डपे तु ताम् ।
विहायाऽन्यां प्रदद्यात् स वञ्चको निरयानुगः ॥५३॥
दुग्धे पानीयमाक्षिप्य रसविक्रयकारकः ।
अन्ने तु कंकरान् धूलिं पिष्टे चूर्णं स वञ्चकः ॥५४॥
शिल्पकार्ये कलाकार्ये सौधकार्ये च सेतुषु ।
महोद्याने पत्तनादौ यन्त्रमार्गे महापथे ॥५५॥
क्षेत्रे कूपे तडागादौ प्राप्य द्रव्यं प्रपूर्णकम् ।
अर्धव्ययेन सर्वं तत् करोति चादृढं तथा ॥५६॥
निर्बलं दरगर्भं च वञ्चना नरकप्रदा।
काकानां च शृगालानां वानराणां स्वभाववत् ॥५७॥
वर्तमानो नरो लोके वञ्चनाढ्यो भवेत् खलु ।
दृष्टिं ध्यानं मतिं सावधानतां प्रणिधानताम् ॥५८॥
प्रच्याव्य ताभ्यो हरति कुरुते जयते च वा ।
अन्याऽनिष्टं विधत्ते स वञ्चको निरयंगमः ॥५९॥
हस्तिदन्तसमं कार्यं बहिर्दर्शनमात्रकम् ।
अन्तस्त्वन्यच्चर्वणार्थं दन्तवत् स्वार्थसाधकम् ॥६०॥
परहिंसाद्रोहकृच्च वञ्चना निरयप्रदा ।
एवमादीनि सर्वाणि वञ्चनानि भवन्ति वै ॥६१॥
शिष्यो भूत्वा गुरोः सेवां यो न करोति भावतः।
वञ्चना सा महापापकरी वै निरयप्रदा ॥६२॥
पत्नी भूत्वा स्वामिनो या सेवां करोति नैव ह।
पतिर्भूत्वा सतीं नैव पालयत्येव वंचना ॥६३॥
किंकरो न करोत्येव श्रेष्ठिकार्यं तु वञ्चना ।
गरदा वह्निदा नाशयोगदा वञ्चकास्तु ते ॥६४॥
स्तेनकर्मरताः सर्वे वञ्चका निरयंगमाः।
एतादृशानामुद्धारः सतां समागमे भवेत् ॥६५॥
इन्द्रो भूत्वा गौतमाभोऽहल्यामवञ्चयद्धि सः ।
अहं जालन्धरो भूत्वा वृन्दामवञ्चयं पुरा ॥६६॥
एवंविधा वञ्चना वै बद्रिके दुःखदा मता।
शापो वा दुःखमेवाऽपि निरयो वा भवेत्ततः ॥६७॥
यद्यप्यहं सर्वकर्ता सर्वपतिः परेश्वरः।
निर्दोषः पावनो मायापावकः सर्वमोक्षकृत ॥६८॥
सुरकार्यकृते भक्तकृते क्वचित्तु वञ्चनाम् ।
करोमि दैत्यनाशार्थं दोषो मे नैव विद्यते ॥६९॥
जीवानां कर्मभोगानां दोषस्तत्र प्रजायते ।
एवं सा छलना प्रोक्ता सतां संगेन नश्यति ॥७०॥
साधूनां संगमो बद्रि पावनः पापनाशकः।
विषलाणी सतां संगाज्जाता पापादिवर्जिता ॥७१॥
साधूच्छिाष्टादनात् कायकृताघं संविनश्यति ।
साधुस्पर्शादियोगेनेन्द्रियपापं विनश्यति ॥७२॥
साधुसेवाभावभक्त्या मनःपापं विनश्यति ।
साध्वर्पणेन जीवस्य सर्वं पापं विनश्यति ॥७३॥
साधुश्चाहमहं साधुः साधुः श्रीकृष्णमाधवः ।
माधवीशः स्वयं साधुः प्रभुःपतिः सतां पतिः ॥७४॥
एवं सा साधुपंक्तौ वै भोजनेन विपापिनी ।
शुद्धा जाता ततश्चास्या विवेकः समपद्यत ॥७५॥
अहोऽहं वञ्चनाकर्त्री सर्वथा पापकारिणी ।
यत्र पापानि नश्यन्ति तत्रापि वञ्चनापरा ॥७६॥
भोजनार्थं कृता प्रतारणा किं क्षुद्रकर्मणा ।
मोक्षकर्म करोम्यद्याऽधुना चोत्तरकालिकम् ॥७७॥
साधुसेवां सतीसेवां कृत्वाऽपराधनाशनम् ।
वन्दनं च सतां मोक्षं यास्ये वै परमं पदम् ॥७८||
इति विचार्य सहसा लब्ध्वा धनाम्बराणि च ।
ययौ साधुनिवासं सा ददौ तेभ्यो धनाम्बरम् ॥७९॥
भोजनं प्रददौ चापि पादसंवाहनं व्यधात् ।
सतां पादजलं पीत्वा तुष्टाऽभवद् रजो न्यधात् ॥८०॥
शिरस्येव शरीरेऽपि वक्षसि श्रीहरिश्रिता।
उवाच सत्तमं तत्र गुरुं भद्रायनं हि सा ॥८१॥
मोक्षो मे स्याद् यथा येन वञ्चनापापसंक्षयः।
पुनर्जन्म भवेन्नैव तथा मे कुरु सद्गुरो ॥८२॥
श्रुत्वा भद्रायनः साधुर्वैष्णवोत्तम उक्तवान् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ||८३॥
रट मन्त्रं सदा साध्वि काषायाम्बरधारिणी।
जटायुक्ता भस्मयुक्ता नारायणपरायणा ॥८४॥
याहि श्रीकुंकुमवापीं यत्र श्रीकृष्णमापतिः।
विराजते हि भगवान् साक्षात् सर्वान्तरः प्रभुः ॥८५॥
अवतारी चाक्षरेशो यत्रास्ते लोमशः ऋषिः ।
अश्वपट्टसरस्तीर्थं वर्तते पावनं परम् ॥८६॥
यत्र सन्ति च तीर्थानि महर्षयोऽप्यनेकशः।
साध्व्यश्च साधवश्चापि मुक्ता मुक्तानिकास्तथा ॥८७॥
श्रीराधामाणिकीकृष्णारमाभूकमलादिकाः ।
कोट्यर्बुदाब्जसख्यश्च नारायणस्य पत्निकाः ॥८८॥
सुराः सुराण्यो योगिन्यो विद्यन्ते याहि तत्र ह ।
भुक्तिर्मुक्तिस्तव स्यातां पापानां नाशनं तथा ॥८९॥
यद्यप्यत्र हि साधूनां सेवया पापनाशनम् ।
जातं तव विशुद्धिश्च जाता मा खेदमावह ॥९०॥
तथापि भूतले कृष्णकान्तं प्राप्य सुखाश्रया।
दिव्या भूत्वा याहि मोक्षं मा चिरं विषलाणिके ॥९१॥
इत्युक्ता विषलाणी सा बद्रिके द्रुतमेव हि ।
पद्भ्यामाहिड्य मार्गेषु ययावश्वसरोवरम् ॥९२॥
स्नात्वाऽऽश्रमं लोमशस्य गत्वा पादाववन्दयत् ।
पादजलं ततः पीत्वा नत्वा महर्षिमण्डलम् ॥९३॥
आश्रमस्य रजो देहे सम्मृद्य कीर्तनं हरेः।
गायमाना ययौ कृष्णनारायणं प्रभुं हरिम् ॥९४॥
अनादिश्रीकृष्णनारायणश्रीवल्लभम् प्रभुम् ।
प्रत्यक्षं शान्तियुग्रूपं सुन्दरं पुरुषोत्तमम् ॥९५॥
दृष्ट्वा मुमोह सहसा मूर्तौ स्तब्धाऽभवत् क्षणम् ।
आसक्ता ध्यानमग्ना च कृष्णलीनेव साऽभवत् ॥९६॥
सेन्द्रियाऽन्तःकरणा सा सजीवा तन्मयी तदा ।
देहभानविहीना च जाता सा योगिनी यथा ॥९७॥
बद्रिके क्षणमात्रं चेन् मूर्तौ मे सर्वथा स्थितिम् ।
निश्चलां लभते कश्चित् पूतो मुक्तिमवाप्नुयात् ॥९८॥
अधैर्यप्रेरिया द्राक् सा कृष्णपार्श्वमुपागता।
कृष्णनारायणं चांके कृत्वा चुचुम्ब भावुकी ॥९९॥
हरिस्तां चुम्बनं दत्वाऽपावयत् समतोषयत् ।
स्पर्शमात्रेण मुक्ता सा भवसागरबन्धनात् ॥१००॥
बद्रिके दिव्यदेहा सा राधेव समजायत ।
युवती सद्गुणैर्युक्ता वासनादोषवर्जिता ॥१०१॥
सर्वकर्मविहीना सा ब्राह्मी स्त्रीः समजायत ।
ज्ञानवती दिव्यदृष्टिमती श्रीवल्लभम् प्रभुम् ॥१०२॥
अस्तौत् साध्वी पादजलं पयौ हरेस्ततो द्रुतम् ।
विमानमागतं दिव्यं कृष्णनारायणेच्छया ॥१०३॥
आरुह्य त्वाज्ञया दिव्याक्षरं पदं ययौ हि सा ।
एवं प्रतारिणी नारी विषलाणी सतां हरेः ॥१०४॥
योगेन पावनी भूत्वा ययौ मोक्षपदं परम् ।
बद्रिके श्रवणादस्य वञ्चनाऽघं प्रणश्यति ॥१०५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वञ्चयित्र्या विषलाणीनामिकायाः सतां प्रासादिकान्नजलभोजनादिना विवेकोद्भवः, तीर्थेऽनादिकृष्णनारायणप्राप्त्या मोक्षणं चेत्यादिनिरूपणनामा त्रिंशोऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : May 06, 2021
TOP