संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ८१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ८१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८१ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि क्षात्रधर्मो हि दुर्जयः ।सति राज्येऽपि राष्ट्रान्यत् वाञ्छन्ति मुग्धभूमिपाः ॥१॥तृष्णातन्तुर्गले यस्य पाशरूपः प्रवर्तते ।सत्सु सर्वेषु भोग्येषु मृत्युमुखो स गच्छति ॥२॥न सम्पत्सुखमृच्छन्ति तृष्णाऽन्धीकृतबुद्धयः ।नात्मकल्याणमिच्छन्ति रागद्वेषाभिवर्तिनः ॥३॥राजाऽपि परभोगेच्छुः परद्रव्यादिलालसः ।जार एव हि प्रोक्तोऽसौ जारत्वं परभोक्तृता ॥४॥कृष्णे त्रैलोक्यनाथे च प्राप्ते श्रीपरमेश्वरे ।येषां तृष्णा न शान्ता चेत् त एव गोखरास्त्विह ॥५॥सति ज्ञाने न वै यस्येन्द्रियाणां शान्तता स तु ।वानरो नरभावेऽपि पशुर्याम्यगृहार्हणः ॥६॥कृष्णः सम्पूजितो येन गृहे मूर्तिश्च रक्षिता ।हृदये पूजितो नैव रक्षिता न स राक्षसः ॥७॥नन्दिभिल्लो नृपो बद्रि कथायाः समये पुरा ।पुपूज श्रीहरिं नीत्वा विमानेन स्वमन्दिरे ॥८॥स एव भगवान्नत्र राजते गुरुरच्युतः ।नागविक्रमयज्ञे वै नन्दिभिल्लागुरुर्हि सः ॥९॥श्रुत्वा कीर्तिं तु यज्ञस्य नागविक्रमभूपतेः ।नन्दिभिल्लोऽसहमानो ज्ञात्वाऽपि गुरुमास्थितम् ॥१०॥युद्धपुरे स्थितं चापि ज्ञात्वा युद्धार्थमाययौ ।सोऽयं मोहो विनाशार्थो नन्दिभिल्लस्य विद्धि ह ॥११॥यत्र श्रीभगवानास्ते तं योद्धुं यदुपाययौ ।यत्रास्ते भगवान् साक्षात्तस्यैव विजयो ध्रुवः ॥१२॥जानन्नपि नन्दिभिल्लो यमुनाभूपतिर्बली ।लक्षयोद्धृगणैः सार्धं युद्धार्थं यदुपाययौ ॥१३॥दूतं दर्दुररत्नाख्यं प्रेषयामास मोहतः ।नागविक्रमभूपं श्रीकृष्णनारायणान्वितम् ॥१४॥प्रणम्याऽऽगत्य राजानं नत्वा श्रीपुरुषोत्तमम् ।स्वस्वाम्युक्तं समस्तं वै प्राह गर्वभरं वचः ॥१५॥गगायमुनासिन्धूनां मध्ये सम्राड् भवाम्यहम् ।अन्ये मे करदाः सर्वे भवान् भवति मे तथा ॥१६॥तस्मात् करदः खण्डेशः करं ददातु मे द्रुतम् ।नो चेद् युद्धं प्रददातु नन्दिभिल्लस्य मे नृप ॥१७॥नान्दिभिल्लीं राजधानीं सर्वराज्यातिवर्तिनीम् ।गृह्णातु युद्धमूल्येन मा चिरं करदोऽस्ति मे ॥१८॥मया कृपालुना नाऽद्याऽवधिः करः स्मृतो यतः ।अल्पकीर्तिः क्षुद्रराज्यो भवानास्ते विचार्य तत्। ॥१९॥किन्त्वद्य मखमासाद्य वर्तते मूर्ध्नि रोहितुम् ।पादत्राणं कथं मूर्ध्नि तिष्ठेत करदोऽस्ति यः ॥२०॥युद्धे युद्धपुरं दत्वा यद्वा मे किंकरोऽस्तु च ।एषोऽहं सन्निधावस्मि युद्धपुरस्य सीमसु ॥२१॥अनिर्देश्यविमानाढ्यश्चानिर्देश्यगजान्वितः ।उष्ट्राऽश्वाऽश्वतरासंख्यमानवसैन्यसंयुतः ॥२२॥शीघ्रं करोतु वै प्राणग्लहं त्वग्रे ह्युपस्थितम् ।यद्वा प्रसादमासाद्य करोतु राज्यमुत्तमम् ॥२३॥इत्येवं मम नृपतिर्भवते वै यशस्विने ।आवेदयति दूतोऽहं कथयामि यथोदितम् ॥२४॥इत्युक्त्वा बद्रिके दूतो विरराम ननाम च ।कृतादरो निषसाद सिषेवे पुरुषोत्तमम् ॥२५॥नन्दिवल्लिमहासैन्यं लक्षमानवसंकुलम् ।लुनीनद्यास्तटे बद्रि चासीत् सन्नद्धमुत्सुकम् ॥२६॥विमानशतसंयुक्तं सहस्रगजशोभनम् ।पञ्चसाहस्रोष्ट्रयुक्तं दशसाहस्रवाजियुक् ॥२७॥तथा विंशतिसाहस्रमहाश्वतरशोभनम् ।तथा विंशतिसाहस्रवृषभादिसमन्वितम् ॥२८॥पञ्चसाहस्ररथयुक्े सर्वशस्त्रार्थपूरितम् ।नीयमानं सैन्यपेन नाम्ना मयूरवाहिना ॥२९॥एतादृशं महासैन्यं गुप्तचारेण वै द्रुतम् ।ज्ञात्वा युद्धपुराधीशो नारायणमुपाययौ ॥३०॥दूतं निष्कास्य दूरं वै न्यवेदयद् विपत्क्षणम् ।हरिस्तस्मै विजयाय महाशीर्वादमैरयत् ॥३१॥युद्धं देहि जयं धेहि प्राप्नुहि राज्यमुत्तमम् ।अत्र तिष्ठामि राजेन्द्र तव रक्षार्थमन्वहम् ॥३२॥गर्विष्ठानां महागर्वहर्ताऽहं भक्तरक्षकः ।प्रतीपानां नाशकर्ता भवामि भक्तवत्सलः ॥३३॥इत्युक्तो बद्रिके कृष्णनारायणेन वै तदा ।नागविक्रमभूपश्च तुष्टोऽभवद्ध्रदन्तरे ॥३४॥दूतमाहूय प्राहेत्थं निवेदय नृपाय ते ।युद्धार्थं वै समायाति नागविक्रमभूपतिः ॥३५॥करदो भव मे राजन्नद्यतो नन्दिभिल्लराट् ।याहि प्रयामि पृष्ठेऽहं ससैन्यो वै यथाबलम् ॥३६॥इत्युक्तः स तु दूतोऽपि नत्वा लब्ध्वा वचो द्रुतम् ।ययौ तं नन्दिभिल्लं वै जगाद तद् यथातथम् ॥३७॥सैन्यं सज्जं द्रुतं श्रुत्वा नन्दिभिल्लो हि सैन्यपम् ।इन्द्रवज्राभिधमाज्ञापयामास रणाय वै ॥३८॥बद्रिके विज्ञलोकानां विज्ञानं लयमेत्यपि ।बुभुक्षितानां लुब्धानां सतृष्णानां च कामिनाम् ॥३९॥गर्विष्ठानां मानिनां च मत्सरिणां खलात्मनाम् ।कालाऽऽवृतशिखानां च दुर्भाग्यानां च पापिनाम् ॥४०॥सम्प्राप्तनिधनानां च निम्नभाग्यवतां तथा ।शप्तानां हिंसकानां च क्रुद्धानां धीर्विनश्यति ॥४१॥विवेको लीयते बद्रि युद्धदुर्मदिनां रणे ।मद्यपानां यथा भानं लीयते रणिनां तथा ॥४२॥सैन्यं सज्जमभवच्च नन्दिभिल्लस्य सर्वथा ।चतुरंगं बलं सर्वं प्रत्यैक्षत निनादनम् ॥४३॥अभवँश्च तदा सैन्ये चाऽपशकुनकानि वै ।इन्द्रवज्रध्वजो मुख्यो न्यपतद् गजपृष्ठतः ॥४४॥सेनापतिशिरस्त्राणं न्यपतत् स्वकरेण वै ।वामांगानि स्फुरणानि हस्तिचित्कारगर्जनाः ॥४५॥हेषाश्च वाजिनां कर्णकठोरास्तु तदाऽभवन् ।वायुर्ववौ सन्मुखोऽतिवेगवान् धूलिका वहन् ॥४६॥दुर्दिनं चाम्बरे तस्य सैन्योपरि व्यदृश्यत ।वाहनानि सकम्पानि व्यवर्तन्त स्वभावतः ॥४७॥भग्नमनस्का योद्धारः समजायन्त वै मनाक् ।काका घूकाः कपोताश्च श्येना गृध्राः पतन्ति च ॥४८॥ध्वजाऽग्रेऽम्बालिकाऽग्रे च रथाऽग्रे योद्धृमस्तके ।गोमायवो रुदन्त्यग्रे पादस्खलनकान्यपि ॥४९॥शस्त्रपातश्च तत्कोशात् प्रजायते मुहुर्मुहुः ।नन्दिभिल्लस्य वै स्वप्नं क्षणनिद्रामयं ह्यभूत् ॥५०॥तत्र काष्ठचयं शुष्कं रथभंगं ददर्श सः ।वेश्यास्तन्यं पपौ राजा यन्त्रस्फोटमकालिकम् ॥५१॥शुश्राव तत्र निद्रायामुच्छिष्टभोजनं व्यधात् ।शत्रुव्रजे स्वपतनं जलपूरे प्रपातनम् ॥५२॥वनदाहं च तन्मध्ये दहनं स्वं ददर्श ह ।मिथः सैन्यस्य युद्धं च स्वस्यैव वै परस्परम् ॥५३॥नग्नं स्वस्य स्वरूपं च दक्षिणाऽभिगमं तथा ।मस्तके चार्मणोपानद्धारणं स ददर्श ह ॥५४॥रक्तवस्त्रस्त्रियाऽऽश्लिष्टं व्यपश्यन्नन्दिभिल्लकः ।उरःपीटनं कुर्वन्त्या पदा ताडितमित्यपि ॥५५॥धूत्वा स्वस्य शवं राजा श्मशानेऽर्धनिशोत्तरे ।ययौ तत्र महाजीर्णं सौधदेवालयादिकम् ॥५६॥खण्डितं पतितं चापि व्यलोकयद् भयंकरम् ।काका निपेतुः शिरसि शतं तु राजमस्तके ॥५७॥वेत्रं हस्तात्तु पतितं स्खलितं वेत्रधारिणः ।प्रधानः पतितः स्वप्ने पादस्खलनदोषतः ॥५८॥परितश्चापि मार्गाणां निरोधः शत्रुभिः कृतः ।रोरूयमाणा राज्ञी चेत्येवं स्वप्ने व्यलोकयत् ॥५९॥नाम्नादिलावरीदेवी यन्नाम्ना नगरी ह्यभून् ।दिलावरीतिनगरी यमुनातटमास्थिता ॥६०॥नन्दिभिल्लीतिनाम्नी वै सभा यत्राऽभवत् परा ।स्वर्णस्फाटिकवैदूर्यहीरकादिविनिर्मिता ॥६१॥सापि पतित राज्ञा वै दृष्टा पाषाणसञ्चया ।नगरी सैन्यवद् याति पश्चिमां दिशमित्यपि ॥६२॥व्यलोकि तेन राज्ञा च राज्ञ्या वैधव्यमित्यपि ।केशानां मुण्डनं राज्ञ्या व्यलोकि निजमस्तके ॥६३॥श्मशानं विकरालाश्चाऽऽदृश्यन्त याम्यदूतकाः ।राज्ञ्याः केशानपि धृत्वाऽऽकुञ्चने बलिभिः कृतम् ॥६४॥कृष्णवर्णैस्तु पुरुषैर्धर्षितेति नृपप्रिया ।स्वप्ने स्वां दुःखसम्पन्नां व्यलोकयत्तिरस्कृताम् ॥६५॥दासीभिर्दासवर्गैश्च तर्जितां चावमानिताम् ।तथा व्यलोकयद् राज्ञी रूपवत्यो हि कन्यकाः ॥६६॥अपि तेजोविहीनाश्च मलिनाऽस्याः शुचाऽन्विताः ।सौधं त्यक्त्वा गम्यमाना अरण्यं प्रति वै तदा ॥६७॥बद्रिके क्षणमात्रेण वीक्ष्य राजा बुबोध ह ।सर्वमनिष्टं नैजं वै तथापि न न्यवर्तत ॥६८॥राज्ञी शंकरपूजां सा चक्रे विघ्नजयाय वै ।बाणाच्छुश्राव सा राज्ञी हृतभाग्यो नृपस्तव ॥६९॥मा खेदं कुरु कल्याणि जयो यत्र हरिः स्वयम् ।राजा कृतापराधोऽसौ फलमेष्यति वै द्रुतम् ॥७०॥यत्रास्ते भगवान् साक्षात् तत्र योद्धं गतो यतः ।निजदोषहतो राजा मदान्धो नैव पश्यति ॥७१॥इत्युक्त्वा शंकरो लिङ्गे विरराम दिलावरीम् ।दिलावरी तु वै मूर्च्छां प्रजगाम तदा क्षणे ॥७२॥निराशा साऽभवन्मृत्युमहीमानेव रोगिणी ।बद्रिके तु तदा काले नागविक्रमभूपतेः ॥७३॥शकुनान्यभवन् सर्वजयप्रदानि सर्वतः ।आशीर्वादपरा विप्रा आययुस्तिलकान्विताः ॥७४॥प्रदक्षिणोऽभवद्वह्निः प्रसन्नो धूमवर्जितः ।श्वेतो वै देववृषभोऽदृश्यत गोसमन्वितः ॥७५॥कन्यकाः स्वर्णरत्नाढ्या भूषाम्बरधरास्तथा ।अदृश्यन्त प्रसन्नास्या नागविक्रमभूपतिम् ॥७६॥कोकिलाः सारसा हंसाः शुकाश्च गरुडाः खगाः ।खे त्वागत्य पुनर्यान्ति दक्षिणं विजयप्रदा ॥७७॥रत्नाभरणभूषाढ्या नर्तकी वारकांगना ।अदृश्यत निसर्गाद्वै स्वर्णघटसमन्विता ॥७८॥वैष्णवाः साधवो दिव्याः शिखासूत्रसमन्विताः ।सबिन्दुतिलकाढ्याश्चाऽदृश्यन्ताप्यभिसन्मुखाः ॥७९॥घण्टानादोऽभवत्तत्र देवनैवेद्यबोधनः ।दक्षांगानां स्फुरणानि तदाऽभवन्नृपस्य वै ॥८०॥क्षणस्वप्ने विमाने स्वं ददर्श देवपूजितम् ।ततः क्षणे गजे स्वर्णाम्बालिकायां स्थितं निजम् ॥८१॥दिव्यया कन्यया पद्महारेण कृतपूजनम् ।ददर्श बहुकन्याभिः सेवितं शयनोत्तमे ॥८२॥पितृभिस्तुष्टहृदयैः प्रसन्नाऽऽस्यैः प्रवर्धितम् ।महोत्सवैर्महाशृंगारकैः संशोभितालये ॥८३॥दिव्यसिंहासनस्थं स्वं ददर्श परिवारितम् ।क्षीरभोजनतृप्तिं च कमलस्य दले कृताम् ॥८४॥अन्वभवत् क्षणस्वप्ने दीर्घतृप्तिं जले स्थितः ।एवं राज्ञः शकुनानि समभवन् जयाय वै ॥८५॥राज्ञ्यास्तस्याऽभवत् स्वप्ने महेन्द्राणीव दर्शनम् ।महायज्ञोत्सवे स्वां सा ददर्श चक्रवर्तिनीम् ॥८६॥लक्ष्म्या श्रिया पाशवत्या प्रभयाऽऽश्लिष्य वक्षसि ।धृतां दिव्यपद्महारैर्चितां हृदि योजिताम् ॥८७॥सपक्षधवलाभैश्च हस्तिभिर्वाहिते निजाम् ।विमाने त्वम्बरे पत्या साकं स्थितां ददर्श सा ॥८८॥सैन्यानामपि योद्धॄणां शकुनानि शुभानि वै ।नागविक्रमराज्ञश्चाऽभवन् जयप्रदानि हि ॥८९॥अस्फुरन् सर्वसैन्यानां दक्षांगानि समन्ततः ।नन्दकूबरसेनानीयोजितानां तदा क्षणे ॥९०॥सेनायां युद्धनादार्था भेर्यवाद्यत वै स्वयम् ।पवनः सानुकूलश्च पृष्ठभागाद् ववौ तदा ॥९१॥बलं सोत्साहमेवाऽभूत्तटा वै नागवैक्रमम् ।सर्वं विंशतिसाहस्रं युद्धार्थं योजितं क्षणात् ॥९२॥लुनीनद्यास्तटे सर्वमुपस्थितं क्षणाद्ध्यभूत् ।युद्धपुरं प्रसंरक्ष्य महार्धचन्द्रसदृशम् ॥९२॥बद्रिके हि तदा राज्ञी नागविक्रमभामिनी ।आययौ श्रीकृष्णपूजार्थं द्रुतं त्वर्कमालिनी ॥९४॥प्रपूज्य परमात्मानं युद्धवार्तां समाकरोत् ।सभयां निर्भया चापि कृष्णनारायणान्तिके ॥९५॥ 'कृष्णनारायणस्वामिनारायण नरायण ।बालकृष्णाऽनादिकृष्णनारायण रमायण' ॥९६॥तव भक्ताऽस्मि देवेश कांक्षये नैव मायिकम् ।किन्तु कृष्ण स्त्रिया इष्टमवैधव्यं सुधार्मिकम् ॥९७॥प्रभाया इव मे चाऽस्तु तदिष्टं मे प्रपालय ।राज्यं तवेदं सर्वं वै सनाथाऽहं त्वदर्पिता ॥९८॥यथेष्टं कुरु कृष्णाऽत्र प्राप्ते शत्रुभये प्रभो ।इत्युक्त्वा बद्रिके कृष्णपादयोः पतिता हि सा ॥९९॥कृष्णस्तस्य ददौ तूर्णं दानमभयसंज्ञकम् ।अदर्शयन्निजे रूपे महाकालं भयंकरम् ॥१००॥शत्रुसैन्यानि सर्वाणि भक्षयन्तं त्वरायुतम् ।जीवयन्तं रक्षयन्तं निजसैन्यानि यानि च ॥१०१॥ततः सौम्यं कृष्णरूपं विष्णुं नारायणं हरिम् ।अदर्शयन्निजे रूपे सौम्यं साम्राज्यदं प्रभुम् ॥१०२॥अंके कृत्वा पतिं नैजं हसन्तं पार्वतीपतिम् ।तिरोभूय ततो नैजं मानवं रूपमुत्तमम् ॥१०३॥अदर्शयद्धरिस्तस्यै सा सन्तुष्टाऽभवत्ततः ।बद्रिके श्रीहरिस्तूर्णं युद्धार्थं त्वरितोऽभवत् ॥१०४॥सज्जो भूत्वा रथे स्थित्वा श्वेताश्वपरिवाहिते ।सर्वशस्त्रास्त्रसंविज्ञो रणाग्रे संस्थितोऽभवत् ॥१०५॥नागविक्रमभूपोऽपि रणाऽग्रे रथमध्यगः ।संस्थितः सर्वशस्त्राढ्यः श्रीकृष्णात्मनिवेदवान् ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दिलावरीनगर्या नन्दिभिल्लनृपसैन्यस्य नागविक्रम्ं जेतुमागमनं, नागविक्रमस्य ससैन्यस्य युद्धार्थं तत्प्रतिनिर्याणं, शकुनाऽपशकुनस्वप्नादीनि चेत्यादिनिरूपणनामैकाशीतितमोऽध्यायः ॥८१॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP