तिष्यसन्तानः - अध्यायः ९१
लक्ष्मीनारायणसंहिता
श्रीपद्मावतीप्रज्ञे प्रोचतुः-
कृष्णनारायणस्वामिन् गोदानं चेत् कृतं न हि ।
मोक्षार्थं त्वपरं किञ्चिदस्ति चेन्नौ वदाऽत्र ह ॥१॥
श्रीकृष्णनारायण उवाच-
सतां देहेन मनसा सेवा वै कर्मणा सदा ।
सर्वसम्पत्प्रटा मोक्षप्रदा पापविनाशिनी ॥२॥
येषां न व्रतविज्ञानं धर्मज्ञानं न विद्यते ।
दारिद्र्यं विद्यते चापि मालिन्यं तीर्थवर्जिता ॥३॥
तेषां साधोस्तु सत्संगात् पापनाशश्च मोक्षणम् ।
जायते नाऽत्र सन्देहः सत्संगे भगवान् स्थितः ॥४॥
सतां समागमो भार्ये! बहुधा रुचिभेदतः ।
यस्य भवति तस्याऽघविनाशो मोक्षणं भवेत् ॥।९॥
नेत्राभ्यां दर्शनमात्रं सत्संगो दर्शनात्मकः ।
हस्ताभ्यां संवाहनादि सत्संगो देहमर्दनः ॥६॥
शुश्रूषा कार्यकारित्वं चाज्ञायामनुवर्तनम् ।
भृत्यता दास्यमेवाऽपि सत्संगो देहदानकम् ॥७॥
पद्भ्यां गमनं साधूनामाश्रमं प्रति नित्यदा ।
प्रदक्षिणं प्रकर्तव्यं सत्संगाश्चरणार्पणः ॥८॥
मस्तकेन नमेत् सन्तं सत्संगो नमनात्मकः ।
प्राञ्जलिः प्रणमेत् सन्तं सत्संगः प्राञ्जलिः स तु ॥९॥
प्रशंसेज्जिह्वया सन्तं सत्संगः शंसनात्मकः ।
प्रसादं भक्षयेत् साधोः सत्संगो रसनात्मकः ॥१०॥
शृणुयात्तत्र कथां साधोः सत्संगः श्रवणात्मकः ।
स्पृशेत् साधुं स्नेहपूर्वं सत्संगः स्पर्शनात्मकः ॥११॥
गन्धं सतां तु गृह्णीयात् पुष्पप्रसादसंभवम् ।
गन्धसारं सतां देहात् सत्संगो घ्राणनात्मकः ॥१२॥
आश्लिष्येत् साधुवर्यं तु सत्संगः सञ्जनात्मकः ।
प्रसादयेन्मोदयेच्च सत्संगो नन्दनात्मकः ॥१३॥
स्तुवीताऽऽज्ञां पालयेच्च सत्संगः स्तवनात्मकः ।
सेवेत सततं साधून् सत्संगः सेवनात्मकः ॥१४॥
विहरेत् साधुभिः सार्धं सत्संगो भ्रमणात्मकः ।
विचरेत् साधुभिः सार्धं सत्संगो मण्डलात्मकः ॥१५॥
निवसेत्तु सता साकं सत्संगः स गृहात्मकः ।
मन्येत पितरं साधुं सत्संगः स सुतात्मकः ॥१६॥
प्रमन्येत गुरुं साधुं सत्संगः शिष्यवर्तनः ।
सुसाधोः शरणं गच्छेत् सत्संगः शरणात्मकः ॥१७॥
भोजनं साधवे दद्यात् सत्संगो भोजनात्मकः ।
दुग्धं दधि घृतं दद्यात् सत्संगः स रसात्मकः ॥१८॥
वस्त्रं च कम्बलं दद्यात् सत्संगश्चाऽम्बरात्मकः ।
छत्रं दद्याच्चामरं च सत्संगः करणात्मकः ॥१९॥
पात्रं शय्यां प्रदद्याच्च सत्संगः शयनात्मकः ।
गृहं सौधं प्रदद्याच्च सत्संगो भवनात्मकः ॥२०॥
यानं दद्याद्विमानं च सत्संगो वाहनात्मकः ।
अन्नं शाकं फलं दद्यात् सत्संगस्तर्पणात्मकः ॥२१॥
जलं दद्यात् लेपयेच्च सत्संगः स्नाननामकः ।
साधुं शृंगारयेत् पुष्पैः सत्संगो भूषणात्मकः ॥२२॥
साधुं चावाहयेद्ग्रामे गृहे वाट्यां प्रपूजयेत् ।
भ्रामयेद् ग्राममध्ये च सत्सङ्गश्चोत्सवात्मकः ॥२३॥
उपदेशं धारयेच्च सत्सङ्गो बोधनात्मकः ।
द्रव्यं समर्पयेत्तस्मै सत्सङ्गः स धनात्मकः ॥२४॥
इष्टदानैस्तोषयेच्च सत्सङ्गस्तोषणात्मकः ।
आशीर्वादान् लभेत् साधोः सत्सङ्गः स वरात्मकः ॥२५॥
औषधादि दिशेत् तस्मै सत्सङ्गः स निरामयः ।
समिदादि दिशेद् यज्ञे सत्सङ्गः समिदात्मकः ॥२६॥
अध्यापयेत्तु साधून् वै सत्सङ्गोऽध्यापनात्मकः ।
ब्रह्मविद्यामर्जयेच्च सत्सङ्गो ब्रह्मबुद्धिदः ॥२७॥
ध्यायेत् साधुं च मां नित्यं सत्सङ्गो ध्यानयोगदः ।
कीर्तयेच्छ्रीहरिं साधून् सत्सङ्गः कीर्तनात्मकः ॥२८॥
साध्वर्थं सर्वशः कुर्यात् सत्सङ्गो निर्गुणो हि सः ।
साधुरेव हरिर्यस्य तस्य कार्यं न विद्यते ॥२९॥
एव सतां सेवनेन सत्सङ्गेन ममाऽङ्गने ।
मोक्षः करे स्थितो बोध्यः कर्तव्यं नाऽस्य शिष्यते ॥३०॥
शृणुतं भावनां साधुजने गुरौ यथायथम् ।
कर्तव्यविधिना सम्यक् कृतां संवर्णयामि वाम् ॥३१॥
साधुं दिव्यं विजानीयाद् ब्रह्ममूर्तिममायिकम् ।
पावनं पुण्यमूर्तिं च निर्लेपं पुरुषोत्तमम् ॥३२॥
साधुपादरजः पुण्यं साधुवस्त्रं च पावनम् ।
साधुसेव्यं समस्तं वै पावनं चाप्यमायिकम् ॥३३॥
साधुस्पर्शः पावनोऽस्ति साधुभुक्तं हि पावनम् ।
जलान्नफलपुष्पादिः प्रसादः पावनः सताम् ॥३४॥
साध्वासनं पवित्रं च पादुके पावने सताम् ।
सर्वोपकरणाद्यं च पावनं सर्वथा सताम् ॥३५॥
साधोर्दन्ता नखाः केशाः पावनाः पापनाशकाः ।
साध्वाश्लेषः पावनो वै सर्वाऽभिचारनाशनः ॥३६॥
उपाध्याधिव्याधिनाशकरः साधोः समागमः ।
साध्वाश्रमो महत्तीर्थं साध्वाश्रयश्च पावनः ॥३७॥
साधूनां वसतिर्दिव्या महावैकुण्ठशालिनी ।
साध्वागमः स्वस्तिदाता श्रेयसां वर्षकः सुखः ॥३८॥
कल्याणशेवधिः साधोः प्रसन्नता तु सेवया ।
साधोः स्नेहो ब्रह्मलाभप्रदः प्रीतिः प्रमोक्षदा ॥३९॥
सर्वानन्दप्रदा साधोः सङ्गतिर्भयवर्जिता ।
कालमायापापकर्मशत्रुयाम्यभयापहा ॥४०॥
साधोः शिखान्ते विरजा नदी गोलोकजाऽस्ति वै ।
शिखामूले ब्रह्मह्रदोऽक्षरस्थो राजते सदा ॥४१॥
ब्रह्मरन्धेऽक्षरं धाम गोलोको मस्तकेऽस्ति च ।
वैकुण्ठं तु ललाटेऽस्ति भालमध्ये रमापुरम् ॥४२॥
भालान्तयोरमृताऽव्याकृतधामद्वयं स्थितम् ।
कर्णयोस्तु महाविष्णुवैराजौ द्वाववस्थितौ ॥४३॥
नेत्रयोः सूर्यचन्द्रौ च गण्डयोर्वे ध्रुवद्वयम् ।
नासायां मरुतो देवा मुखे नारायणः स्वयम् ॥४४॥
ओष्ठयोरमृतं दिव्यं मिष्टमानन्दसंभृतम् ।
जिह्वायां सर्ववेदाश्च मुखगर्भेऽग्निदेवता ॥४५॥
शब्दे वाणी शारदाश्रीः रूपे लक्ष्मीर्हि कन्धरे ।
कण्ठे सर्वा ब्रह्मविद्या हृदये ब्रह्म शाश्वतम् ॥४६॥
चेतनेऽहं परब्रह्म संकल्पे कृष्णदेवता ।
वक्षसि धर्मदेवश्च पृष्ठे पितरो देवताः ॥४७॥
पार्श्वयोर्ब्रह्मरुद्रौ च विष्णुरुरसि तिष्ठति ।
उदरे चान्नपूर्णाऽस्ति नाभौ स्वर्गं सुरालयम् ॥४८॥
जघने श्रीगणेशश्च गुप्ते चैश्वर्यकोटयः ।
कट्यां पृथिवी द्वावद्री चास्तोदयौ नितम्बयोः ॥४९॥
स्कन्धयोरनिरुद्धश्च प्रद्युम्नश्चेति तावुभौ ।
भ्रुवोः संकर्षणो वासुदेवो भ्रूमध्यगः सताम् ॥५०॥
भुजयोस्तु दिशां पाला लोकपालास्तु हस्तयोः ।
हस्ततलयोः श्रीर्भूश्च विभूतयोऽङ्गुलिष्वपि ॥५१॥
नखेषु तारकाः सन्ति ग्रहा वसन्ति पर्वसु ।
सर्वरोमसु तीर्थानि वसन्ति साधुविग्रहे ॥५२॥
वचने कामगावश्च चिन्तामणयश्चिन्तने ।
कल्पद्रुमा ह्यनुवृत्तौ सौहृदे कल्पवल्लयः ॥५३॥
नाडीषु तीर्थसरितः सरोवराणि कुक्षिषु ।
आन्त्रेषु काश्यपाः सर्वे वसन्ति साधुविग्रहे ॥५४॥
सक्थ्नोः शिलादप्रह्लादौ जानुनोर्बलिवामनौ ।
जंघयोर्नागलोकाश्च पादयोः शेषकच्छपौ ॥५५॥
शक्तयः सन्ति सर्वेषु सन्धिषु साधुविग्रहे ।
मुक्ता घातुषु वर्तन्ते पार्षदाः साधुसत्कृतौ ॥५६॥
सिद्धयो धारणायां च साधोर्ध्याने हरिस्त्वहम् ।
साधुतादात्म्यवासोऽस्मि भगवान् पुरुषोत्तमः ॥५७॥
अनादिश्रीकृष्णनारायणो राजे हि साधुषु ।
अङ्गने साधुमूर्तौ न त्यागभागौ कथंचन ॥५८॥
एवं तु भावयेत् साधुं तथैव सेवयेत् सदा ।
सर्वं समर्पयेद् यस्तु तस्य मोक्षः करे स्थितः ॥५९॥
साध्विके! भावयित्वैवं पूजयेत् सेवयेत् सतः ।
प्रातः प्रबोधसमये देहसंवाहनं चरेत् ॥६०॥
उत्थिताय जलं दद्याद् दन्तधावनमर्पयेत् ।
जलपात्रं प्रदद्याच्च देहशौचार्थमित्यपि ॥६१॥
हस्तशौचं कारयेच्च पात्रशुद्धिं विधापयेत् ।
यथेष्टवारिभिर्दिव्यैस्तीर्थजलैः सुगन्धितैः ॥६२॥
स्नानमालेपनपूर्वं कारयेच्चान्दनैर्जलैः ।
सुगन्धितैलसम्मिश्रैः स्नापयेत्तिलचूर्णकैः ॥६३॥
आमलकादिचूर्णैश्च मर्दयेत् साधुविग्रहम् ।
दुग्धेन स्नापयेच्चापि परं शुद्धजलैरपि ॥६४॥
वस्त्रैः सम्मार्जयेद् देहं सुगन्धं प्रोक्षयेत्तथा ।
वस्त्राधानं भूषणानि शृंगारं मालिकादिभिः ॥६५॥
पुष्पैः सौभाग्यचूर्णैश्च कुंकुमाऽक्षतचन्दनैः ।
कारयेच्च ततो धूपं दीपं तिलकं चन्द्रकम् ॥६६॥
कारयेद् रङ्गरूपाद्यं रंजयेत् साधुविग्रहम् ।
कज्जलं नेत्रयोर्दद्यात् केशेषु तैलमित्यपि ॥६७॥
आसनं पट्टिकाद्यं च सिंहासनं सतेऽर्पयेत् ।
आवाहनं च पाद्यं चाऽऽचमनीयं तथाऽर्पयेत् ॥६८॥
अर्घ्यं च मधुपर्कं च दद्यात् श्रीसाधवे रसान् ।
नैवेद्यं च जलं ताम्बूलकं फलं दलं दिशेत् ॥६९॥
यज्ञोपवीतकं दद्यान्मेखलां योगपट्टकम् ।
कम्बलं नक्तकं दद्यात्पुष्पगुच्छं करेऽर्पयेत् ॥७०॥
नैवेद्यं भोजनं मिष्टं सुगन्धं भक्ष्यमित्यपि ।
दुग्धसारं क्षीरमिष्टं पूरिकाः प्रार्पयेद् दधि ॥७१॥
तक्रं जलं प्रार्पयेच्च मुखवासं तथाऽर्पयेत् ।
पर्यंकं वाहनं यानं पादुके छत्रमर्पयेत् ॥७२॥
शय्यां दद्यात् स्वापयेच्च पवनं प्रार्पयेत्तथा ।
पादसंवाहनं देहमर्दनं दास्यमाचरेत् ॥७३॥
यद्यदपेक्षितं दद्याद् दैहिकं मानसं च वा ।
प्रकाशं चाऽप्रकाशं च यदिच्छेत्तत्प्रपूरयेत् ॥७४॥
एवं कुर्यात् सतां सेवां पावनीं श्रीप्रदां तदा ।
हरिः साक्षात् पूजितोऽहं तेनेयं सृष्टिरर्चिता ॥७५॥
सर्वं पुण्यं कृतं तेन तीर्थं सर्वं कृतं तथा ।
साधुपादजलं दिव्यं पिबेत् तीर्थादिपावनम् ॥७६॥
सर्वं तीर्थं व्रतं दानं कृतं तेन तु सेवया ।
साधुः प्रसादितो येन तेन कृष्णः प्रसादितः ॥७७॥
कृष्णः प्रसादितो येन ब्रह्मधाम्नि स मोदते ।
परानन्दमयो भूत्वा सर्वान् कामान् समश्नुते ॥७८॥
साधुतोषणकाच्छ्रेष्ठं तुल्यं वा साधनं परम् ।
विद्यते नैव सरलं मोक्षार्थं गृहिणां भुवि ॥७९॥
सर्वपापहराः सन्तो हरिशीलपरा यतः ।
ब्रह्मव्रतपरा यस्मान्महाभागवता यतः ॥८०॥
निबोधत प्रिये पत्न्यौ! गृही यथा तु तोषयेत् ।
पत्न्यै सर्वं प्रदायैव यथा पत्नीं प्रतोषयेत् ॥८१॥
पुत्रं पुत्रीं यथा प्रतोषयेद् गृही तदिष्टदः ।
तथा साधुं प्रदायैव तोषयेदभिवाञ्च्छितम् ॥८२॥
भ्रात्रे पित्रे पतये च प्रदायैव यथा गृही ।
इष्टं सते तथा दत्वा तोषयेत् सन्तमन्वहम् ॥८३॥
महीमानार्थमेवाऽयं गृही यादृग्व्ययं बहुम् ।
करोति तु तथा कुर्यात् सतामर्थे स मोक्षभाग् ॥८४॥
सते पौष्पं समुकुटं दद्यान्मूर्ध्नि सुशोभनम् ।
साधवे प्रच्छदपटीं दद्यात् पौष्पीं च सूत्रजाम् ॥८९॥
बध्नीयात् पुष्पकटकान् भुजयोश्च प्रकोष्ठयोः ।
आरार्त्रिकं प्रकुर्वीत बहुवर्तिसमन्वितम् ॥८६॥
प्रदक्षिणं प्रकुर्याच्च कुर्याच्च दण्डवन्मुदा ।
पादयोर्मस्तकं दद्यान्मूर्ध्नि हस्तौ निधापयेत् ॥८७॥
सतां प्रसादं भुञ्जीताऽऽशीर्वादान् धारयेच्छुभान् ।
पुष्पाञ्जलिं सते दद्याद् दानं यथेष्टमर्पयेत् ॥८८॥
एवं श्रीललने! साधोः सेवया गृहधर्मिणाम् ।
सत्संगस्य बलात् सर्वाऽघानि नश्यन्ति सर्वथा ॥८९॥
सतां पुण्यं लभेतापि सम्पत्प्रदं प्रमोक्षदम् ।
प्रार्थयेत्तु सतः साध्वीः क्षमापयेत्तदग्रतः ॥९०॥
कृपासिन्धो दयासिन्धो शरणागतवत्सल ।
साधो ह्यसाधुलोकानामस्माकं शरणं भवान् ॥९१॥
न साधनानि जानामि न पुण्यानि करोम्यपि ।
नाऽऽराधनं पापहं च मोक्षदं साधनं न च ॥९२॥
अगतीनां गतिस्त्वं मे भवाऽरण्येऽतिदुर्गमे ।
संसारसागरे नौका तारयित्री प्रवर्तसे ॥९३॥
सर्वपापविनाशार्थं मुक्त्यर्थं सुखहेतवे ।
साधो कृष्णस्वरूपोऽसि त्वां प्रपद्ये हरेस्तनुम् ॥९४॥
वयं नित्यं पतिताः स्मो घोरे संसारकर्दमे ।
प्रक्षाल्य नः समुद्धर्तुं समर्थोऽसि समुद्धर ॥९५॥
पूजने सेवने साधो न्यूनं वा क्रमवर्जितम् ।
मानहीनं च वा यत्तत् क्षमस्व शरणंजुषम् ॥९६॥
ओं नमो गुरुदेवाय साधवे परमात्मने ।
अस्मद्दैवतरूपायोद्धारकर्त्रे मुहुर्नमः ॥९७॥
इत्यभ्यर्थ्य नमस्कृत्य समर्प्य गुरुदक्षिणाम् ।
विसर्जयेत् सदाऽस्मत्सु प्रसन्नो भव तापस ॥९८॥
आयाहि नित्यमेवात्र पूजां गृहाण मामकीम् ।
भुक्तिं मुक्तिं च सम्पत्तिं प्रदेहि मे कृपां कुरु ॥९९॥
इतिविसर्जितं साधुं चिन्तयेद्धरिरूपिणम् ।
एवं साधुव्रतेनापि साध्व्यौ! मोक्षः करे स्थितः ॥१००॥
अन्तकाले साधुभक्ता यान्ति साधुभिरेव ते ।
आक्षरं परमं धाम दिव्यं विमानगैः सह ॥१०१॥
नरो नारी सतः साध्व्या एवं पूजनमाचरेत् ।
वर्षे वर्षे च मासे वा सर्वान् कामानवाप्नुयात् ॥१०२॥
यत्र साधोश्चरणं तद्गृहं गोलोकसदृशम् ।
साधुभक्ताः पार्षदास्ते नार्यो मुक्तानिकास्तु ताः ॥१०३॥
पठनाच्छ्रवणादस्य साधुपूजाफलं भवेत् ।
अन्ते भक्त्या लभेतापि ब्रह्मधाम न संशयः ॥१०४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने गृहगीतायां सर्वधर्मकर्मादिहीनानां गृहिणां परमं मोक्षस्य साधनं साधुसत्संगतिरित्यादिनिरूपणनामैकनवतितमोऽध्यायः ॥९१॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP