तिष्यसन्तानः - अध्यायः १७
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि पुनः सा बालयोगिनी ।
सुरेश्वरी मातरं यज्जगाद कथयामि ते ॥१॥
सौराष्ट्रे महुवासाख्ये पत्तनेऽब्धितटे शुभे ।
बहुरूपोऽभवच्छूद्रो नैकवेषाभिधारकः ॥२॥
रूपे त्विन्द्रसमो देहे युवा षोडशवत्सरः ।
नारीमुखः सुजटिलः केशवेषाभिसुन्दरः ॥३॥
कर्णनासाविभूषादिधारकः समयो क्वचित् ।
क्वचिद् राजा क्वचिद् राज्ञी क्वचित् सेनापतिस्तथा ॥४॥
क्वचिच्छ्रेष्ठी क्वचिच्चौरः क्वचित् कन्या कुमारकः ।
क्वचिद् वधूः क्वचिद् देवी देवः क्वचिन्नटः क्वचित् ॥५॥
क्वचिद् विप्रः क्वचिद् योद्धा दरिद्रो भिक्षुकः क्वचित् ।
क्वचिद् वनेचरो नौकावाहः क्वचित्तु कर्षुकः ॥६॥
क्वचित् प्रेतो वानरश्च क्वचिद् भल्लुकरूपधृक् ।
क्वचित् पुत्रवती भार्या क्वचिद् वाजिनियामकः ॥७॥
क्वचित् साधुर्यतिः स्वामी ब्रह्मचारी च तापसः ।
क्वचिन्नर्मकरः सर्वशृंगाराढ्यः क्वचित् खलः ॥८॥
एवंविधः स भवति वेषरूपाढ्यचेष्टितैः ।
बाहुलकइतिनाम्ना तं वदन्ति प्रजाजनाः ॥९॥
नृत्ये वेषे गायने तं कुशलं वाद्यवादने ।
आहूय चोत्सवान् लोकाः कुर्वन्ति जनरञ्जनान् ॥१०॥
पूर्वभाग्यवशात् तस्य पत्नी तत्सदृशी ततः ।
विवाहिताऽभवत् कन्या नाम्ना लीलावती शुभा ॥११॥
गान्धर्वीव कलाभिज्ञा सर्ववेषाभिधारिणी ।
चतुरा नरवत् प्राज्ञा नरवेषेषु कोविदा ॥१२॥
पूर्वं सम्यक् कृतोऽभ्यासो जन्मान्तरे फलत्यपि ।
धर्मो धनार्पणं सेवा भक्तिः फलन्ति कालतः ॥१३॥
नाऽकृतं प्राप्यते किञ्चिद्धर्यनुग्रहमन्तरा ।
पूर्वदत्ता शुभा विद्या नारी सम्पत् सुखानि च ॥१४॥
जन्मान्तरेऽभिलभ्यन्ते गुणा यशो धनानि च ।
तथैव कृतपापानां चोपतिष्ठन्ति चाऽऽधयः ॥१५॥
सुकृतीनां सूत्सवास्तु प्रवर्धन्ते दिने दिने ।
भार्या नैवाऽल्पपुण्येन लभ्यते निजसक्रिया ॥१६॥
गुणे रूपे स्वभावे च विचारे हृदये समा ।
चातुर्ये च विवेके च बहुपुण्येन लभ्यते ॥१७॥
पतिश्चापि तथा पत्न्या स्वानुकूलस्वभाववान् ।
नाऽल्पपुण्येन लभ्येत लभ्यते तपसा तु वै ॥१८॥
हानौ दुःखे तथोद्वेगे कैंकर्ये निर्धनस्थितौ ।
रोगे विपदि पीडायां समचित्तौ हि दुर्लभौ ॥१९॥
हान्यादौ समचित्तौ चेत् स्वर्गे तयोः करस्थितम् ।
लाभादौ तु भवेतां वै समचित्तौ गृहेगृहे ॥२०॥
लाभहान्योः समचित्ताः साधवो योगिनोऽमलाः ।
नारायणोऽतिबुद्धाश्च पुण्या वा गृहधर्मिणः ॥२१॥
एवमेतौ युयुजाते किन्न्वेकस्य कृतिद्वयम् ।
एवंविधौ तौ सुखिनौ नाट्यादिव्यवसायिनौ ॥२२॥
नाट्यप्रसंगे चोपार्ज्य धनाऽन्नाम्बरवस्तुभिः ।
सम्यङ्निर्वहतो यात्रां प्राणादेर्लोकदुस्तराम् ॥२३॥
प्रयातस्तीर्थयात्रायां सोमनाथं च रैवतम् ।
द्वारावतीं चमत्कारपुरं कुंकुमवापिकाम् ॥२४॥
तत्राऽक्षरे शुभे क्षेत्रे चाऽश्वपट्टसरोवरे ।
स्नात्वा श्रीलोमशं गत्वा नेमतुः सद्गुरुमृषीन् ॥२५॥
जगृहतुर्महामन्त्रं मायापाशविनाशकम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥२६॥
वैष्णवौ परमौ जातौ भक्तौ यथा कृतश्रमौ ।
उषतुर्बहुकालं च भेजतुर्बालकृष्णकम् ॥२७॥
गोपालबालकं दिव्यं प्रभुं कृष्णनरायणम् ।
नित्यमानर्चतुः प्रीत्या भेजतुः माधवीपतिम् ॥२८॥
चक्रतुश्च सदा तत्र सत्संगं ज्ञानमापतुः ।
दिव्यतां प्रापतुश्चोभौ वर्तेते दास्यशोभितौ ॥२९॥
लक्ष्मीनारायणसंहितायाः कथां मुहुर्मुहुः ।
शुश्रुवतुश्च तत्रत्याऽवतारचरितानि च ॥३०॥
प्रदध्यतुः सुराणां सन्नृपाणां चरितान्यपि ।
मुक्तानां योषितां चापि भक्तानां चरितान्यपि ॥३१॥
श्रुत्वा हृदये संक्लृप्य चाश्वपट्टसरस्तटे ।
यथाश्रुतानि सर्वाणि वेषचेष्टाक्रियादिभिः ॥३२॥
ताववतारयामासतुर्दर्शयामासतुर्मुहुः ।
रात्रौ चान्द्र्यां हि कौमुद्यां जनेभ्योऽतिमुदाऽन्वितौ ॥३३॥
जनास्तु लक्षशो दृष्ट्वा भवन्ति चकिता ह्यति ।
नटीं नटं प्रशंसन्ति बहुरूपाभियोगिनौ ॥३४॥
देवतुल्याविमौ स्तश्च नारायणांशकाविव ।
पुरावृत्तं तदाकारं यच्चोपस्थापयन्ति वै ॥३५॥
मानार्हौ कुंकुमवापीक्षेत्रे जातौ सुरूपिणौ ।
एवंविधयोः सम्प्राप्तः समयो भाग्यवर्धनः ॥३६॥
अनादिश्रीकृष्णनारायणजन्मदिनोत्सवः ।
सप्तदशस्तत्र देवा मुक्ताः सन्तः समाययुः ॥३७॥
ईश्वरा मानवाद्याश्च सूतमागधबन्दिनः ।
महर्षितीर्थविप्राश्च कलाविदः समाययुः ॥३८॥
रमाद्याः शक्तयश्चापि प्रजा लोकाः समाययुः ।
अनादिश्रीकृष्णनारायणस्य परमात्मनः ॥३९॥
सम्बन्धिनो भुवनानां वासिनश्च समाययुः ।
कृष्णनारायणजन्मतिथ्यूर्जकृष्णकाष्टमीम् ॥४०॥
अभिलक्ष्य निशायामाययुः स्थावरजङ्गमाः ।
अष्टम्यां प्रातरेवाऽयं स्नात्वा श्रीकृष्णमाधवः ॥४१॥
कृतमंगलपूजादिः कृतकौतुकशोभनः ।
कोट्यर्बुदाब्जपत्नीभिः कृतार्चनसुवन्दनः ॥४२॥
मात्रा पित्रा वृद्धजनैः श्वश्रूभिः श्वशुरादिभिः ।
कृताशीर्वादसद्भाग्यः कृतवेषाभिसुन्दरः ॥४३॥
सभायां तु विशालायां चाऽश्वपट्टसरस्तटे ।
सर्वसृष्टिजनाढ्यायां युक्तायां लोमशादिभिः ॥४४॥
गजासने जयकारान् शृण्वन् कृष्णसद्यशः ।
निषसाद समागत्य तदाऽवाद्यन्त सर्वशः ॥४५॥
वाद्यानि सर्वलोकानां गीतयश्चाऽभवन् शुभाः ।
वेदघोषा महर्षीणामभवन् कर्णपावनाः ॥४६॥
स्नेहभराणि सर्वेषां विलोकनानि चाऽभवन् ।
हर्षाः प्रमोदा आनन्दा मूर्तिमन्तस्तदाऽभवन् ॥४७॥
पुपूजुः परमात्मानं लोमशः ऋषयः सुराः ।
द्विजा नृपाश्च पितरः सिद्धो ईश्वरकोटयः ॥४८॥
अप्सरसश्च देव्यश्च मानव्यो मानवादयः ।
पातालादिनिवासाश्च तीर्थानि जडचेतनाः ॥४९॥
समस्तसिद्धयो वृद्धा नार्यो देव्यो रमादिकाः ।
साध्व्यश्च साधवश्चापि पुपूजुः परमेश्वरम् ॥५०॥
तिलकं चन्दनाद्यैश्चाऽक्षतकुंकुममंगलैः ।
चन्द्रकं ते प्रचक्रुश्च पुष्पहारान् न्यधुर्गले ॥५१॥
गन्धसारान् शब्दसारान् मन्त्रसारान् शुभाशिषः ।
प्रददुश्चोपदाश्चापि हृदयानि विशेषतः ॥५२॥
मुकुटं कुण्डले हारान् कटकानि च शृंखलाः ।
ऊर्मिकाश्च मणीन् रत्नस्वर्णभूषाश्च ते ददुः ॥५३॥
यशोगानान्यभवँश्च नर्तनान्यभवँस्तथा ।
ताम्बूलदानपानादि मिष्टान्नमंगलानि च ॥५४॥
हस्तधूननमेवाऽपि तदाऽभवन् समाजके ।
महीमानाऽभियोगाश्च सभायां चाऽभवँस्तदा ॥५५॥
आरार्त्रिकं कृष्णनारायणस्यर्षिगणा व्यधुः ।
मुक्ताद्याः .संस्तवान् चक्रुश्चैवं महोत्सवोऽभवत् ॥५६॥
अत्रोत्सवे तु सम्प्राप्याऽवसरं बहुरूपधृक् ।
बाहुलकश्च तत्पत्नी कृतवेषौ सुसुन्दरौ ॥५७॥
चमत्कारकरौ सभ्यमनोहरौ सभान्तरे ।
आययतुर्हसन्तौ तावुभौ स्त्रीवेषशोभनौ ॥५८॥
का नारी को नरश्चेत्यविदितौ तौ सभाजनैः ।
रूपातिसुन्दरौ देवैरपरीक्ष्यौ तदा क्षणे ॥५९॥
समकण्ठस्वरौ हावभावांगव्यञ्जनैः समौ ।
सर्वज्ञोऽपि हरिः साक्षात्तदर्थे मुग्धतां गतः ॥६०॥
का कथा तु तदाऽन्येषां मायाढ्यचर्मचक्षुषान् ।
एवं सभाऽपि सहसा वीक्ष्य स्त्रियौ समन्ततः ॥६१॥
स्तब्धतां वै गता यद्वन्मुग्धा पुत्तलिकामयी ।
गायनं ते स्त्रियौ तत्र वालकृष्णयशोमयम् ॥६२॥
चक्रतुः सर्वकामानामानन्दरसपूरितम् ।
प्रसन्नः श्रीकृष्णनारायणस्ताभ्यां मणीन् ददौ ॥६३॥
रत्नहारानलंकारानाशिषश्च शुभा ददौ ।
अथ नृत्यं चक्रतुस्ते स्त्रियौ भावादिगर्भितम् ॥६४॥
अनादिश्रीकृष्णनारायणवृत्तान्तगानयुक् ।
अक्षराधिपतिः साक्षात् परमेशोऽसि मानवः ॥६५॥
भवान् येषां तु जिह्वासु मनस्सु च मतिष्वपि ।
आत्मस्वपि नर्तकोऽस्ति तेषां मोक्षो हि शाश्वतः ॥६६॥
प्रसन्नो भव भगवन् रूपं नृत्यं सुसार्थकम् ।
कुरु त्वं चावयोर्नार्योः पादस्पर्शं प्रदेहि नौ ॥६७॥
ओमित्याह सभामध्ये प्रसन्नः कृष्णनन्दनः ।
द्रुतं नार्यौ समायातां श्रीकृष्णचरणान्तिकम् ॥६८॥
कृष्णचरणधूलीं ते चोहतुर्मस्तके तथा ।
उरस्युदरे देहे च ततः पादौ हरेः पुनः ॥६९॥
स्पर्शयामासतुर्वक्षोजयोः प्रसन्नमानसे ।
पश्यतां सभ्यलोकानां तावच्छाटीविहीनकौ ॥७०॥
पुंवेषसहितौ तूर्णं युवानौ संबभूवतुः ।
पुंभाषासहितौ सर्वपुमंकपरिशोभितौ ॥७१॥
स्त्रीत्वं गतं प्रवीक्ष्यैव कृष्णनारायणः प्रभुः ।
समाजश्चेश्वराद्याश्च महाश्चर्यं प्रपेदिरे ॥७२॥
जग्मुः सभाजनास्तत्र संशयं वा नरौ स्त्रियौ ।
न निर्णयं तदा कर्तुं समर्थाः केऽपि चाऽभवन् ॥७३॥
मुग्धा सभा समाजश्च सर्वे निरीक्षकास्तदा ।
अथेमौ किंकिणीजालैर्घुर्घुरैः पादसंक्रमान् ॥७४॥
कुर्वन्तौ रंगमध्ये तौ महानृत्यं प्रचक्रतुः ।
शंकरोऽपि क्षणं मुग्धोऽ।न्तरसः सुतरां तदा ॥७५॥
गन्धर्वा नर्तकाश्चाऽन्ये गलद्गर्वास्तदाऽभवन् ।
अथ नृत्यं विधायैव बालकृष्णमहाप्रभोः ॥७६॥
संस्पृश्य चरणौ प्राप्योपदाश्च पारितोषिकम् ।
मणिरत्नहीरकादि स्वर्णभूषाऽम्बरादि च ॥७७॥
सभामध्ये समन्यस्य तूर्णं पुंभाववर्जितौ ।
अभवतामुभौ तत्र पश्यतां सर्वदेहिनाम् ॥७८॥
षण्ढवेषौ षण्ढभावौ षण्ढविलासनर्मदौ ।
हस्ततालीपरौ नेत्रकोणोल्लाससमन्वितौ ॥७९॥
षण्ढभाषां भाषमाणौ सभाहास्यकरावुभौ ।
अथ क्षणान्ते तत्रैको नटी भूत्वा ननर्त ह ॥८०॥
भूत्वाऽपरो नटस्तत्र वाद्यं श्रेष्ठमवादयत् ।
पश्यतां देवतादीनां नटी चाऽदृश्यतां गता ॥८१॥
नटोऽपि रंगसातत्यार्थं नटी संबभूव ह ।
ननर्त यावद् रंगे सा तावन्नटी समाययौ ॥८२॥
दृष्ट्वा नटीं तु नृत्यन्तीं नरोऽभवद्धि सा नटी ।
एवं बहुस्वरूपाणि वीक्ष्य सभाऽतिहर्षिता ॥८३॥
तयोर्द्वयोर्बहुमानशब्दान् जगाद सा सभा ।
अथ पत्नीपतिरूपौ क्षणान्ते वरमालया ॥८४॥
योजितौ दम्पतीरूपौ सभामध्ये बभूवतुः ।
नमस्कारं हरये च सभ्येभ्यस्तौ प्रचक्रतुः ॥८५॥
अपराधक्षमायाञ्चां चक्रतुर्विनयाऽन्वितौ ।
तस्थतुश्च सभामध्ये यथार्थरूपमास्थितौ ॥८६॥
तदेश्वराद्या देवाद्या मानवाः संशयोज्झिताः ।
अभवन् ऋषयश्चापि प्रसन्नाश्चाऽभवन् ह्यति ॥८७॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
श्रीमद्गोपालकृष्णाद्या माता श्रीकंभरा सती ॥८८॥
अन्येऽपि लोकपालाद्या महाश्चर्यपरायणाः ।
उपदाः प्रददुस्ताभ्यां प्रसन्नत्वप्रयोजिताः ॥८९॥
अनादिश्रीकृष्णनारायणः प्रसन्नमानसः ।
वरदानं ग्रहीतुं तावुवाच तौ तदा शुभम् ॥९०॥
परब्रह्मरसानन्दं वरयामासतुर्हरेः ।
दिव्यानन्दमहाब्रह्मरसाऽब्धौ मग्नतां पराम् ॥९१॥
अर्थयामासतुः कृष्णान्नारायणाद्धि केशवात् ।
तथाऽस्त्वेवं हरिः प्राह तत आरभ्य वै तयोः ॥९२॥
निर्विकल्पसमाधिश्च बभूव कृष्णमोददः ।
सर्वभूतेन्द्रियादीनां वृत्तिषु स्फुरणं हरेः ॥९३॥
सदा तयोरभवद्वै यथाऽक्षरस्थमुक्तयोः ।
एवं हरेर्हि कृपया कलया निजयाऽपि च ॥९४॥
बहुरूपभवनया हर्यर्थकृतया तदा ।
परब्रह्मानन्दमहासुखमोदरसं परम् ॥९५॥
अवापतुः सदा दिव्यं दिव्यदेहेन्द्रियाऽन्वितौ ।
सप्तदशो जन्ममहोत्सवः सम्पूर्णतां गतः ॥९६॥
भोजनानि विचित्राणि समाजानां तदाऽभवन् ।
पूजाश्च परितोषाश्च महादानानि चाऽभवन् ॥९७॥
एवं स्वां मातरं बालयोगिन्याह हरेः रसम् ।
यौ लब्धवन्तौ तौ भक्तौ वृत्तौ च माधवं ततः ॥९८॥
एवं ब्रह्मरसं प्राप्ता कृपयाऽपि सुशाश्वतम् ।
बालयोगिनी संमग्ना स्मृत्वेशं विरराम ह ॥९९॥
एवं ते कथितो बद्रीप्रिये ब्रह्मरसः परः ।
अनुग्रहेण कृष्णस्याऽवाप्यते नाऽन्यथा क्वचित् ॥१००॥
बहवः सेवया प्राप्ता ब्रह्मानन्दरसं परम् ।
कृपया बहवः प्राप्ता यथा ब्रह्मप्रियास्त्विह ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां बालयोगिन्या मात्रे बहुरूपधृग्युगलस्य बाहुलकलीलावतीनामकस्य भक्तिवृत्तान्तकथनेन परब्रह्मरसाऽवाप्तिसाधनोक्तिः श्रीहरेःसप्तदशजन्मदिन्योत्सवश्चेति निरूपणनामा सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : May 06, 2021
TOP