संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १२३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १२३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२३ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु श्रीबदरीदेवि नारायणि परेश्वरि ।तिष्यसन्तानविषयान् संक्षेपात् स्मारयामि ते ॥१॥चतुर्थे तिष्यसन्ताने नरनारायणस्य मे ।श्रीबदर्याः स्वरूपस्य वर्तनं ते समीरितम् ॥२॥राजर्षेर्बदराख्यस्याऽऽख्यानं हिमाचलस्य च ।हेमानलासुरस्यैव गर्ते निक्षेप ईरितः ॥३॥श्रीमाणिक्या बदरीशीरूपतादि प्रकीर्तितम् ।श्रीशीलस्य तु विप्रस्य प्रेतस्य मुक्तिरीरिता ॥४॥ दाराभाग्याख्यभूपस्य परीक्षणं च मोक्षणम् ।ब्रह्मदेवद्विजस्यापि वंशवत्त्वकथोदिता ॥५॥बदर्या बालयोगिन्या गीतोक्ता ब्रह्मभावदा ।दास्यं भागवतत्वं च वैष्णवत्वं च योगिता ॥६॥परब्रह्मप्रेमरसवर्णनं चेति कीर्तितम् ।सत्सेवया नाग्नमुखीचारण्या मुक्तिरीरिता ॥७॥विनोदिन्यास्तु कान्तस्य भक्त्या नारायणाऽऽगमः ।देवलिकात्मकत्वं चेत्येतत् सर्वमुदीरितम् ॥८॥बाहुलकस्य च लीलावत्या भक्तिरुदाहृता ।सप्तदशोऽनादिकृष्णजन्मोत्सवस्तथोदितः ॥९॥मालियानमल्लिकयो सेवया मुक्तिरीरिता ।ज्ञानलभ्यो ब्रह्मरसश्चोपास्त्या कथितस्ततः ॥१०॥रसप्रदाधिधर्माणां महायोगस्य वर्णनम् ।अनादिश्रीकृष्णनारायणश्च बालयोगिनीन् ॥११॥विवाहयामास कथा चैषा तत उदीरिता ।सद्भक्तस्य ततो निकामदेवस्य च मोक्षणम् ॥१२॥स्वरूपयोगरूपं च परब्रह्मणि चोदितम् ।ततो विशिष्टब्रह्माऽद्वैतात्मा हरिरुदीरितः ॥१३॥निर्भययोगकथनं स्तुतिश्चापि तथोदिता ।स्तुतिकर्त्र्यै तथा स्तोत्रे ह्यखिलधामिदर्शनम् ॥१४॥सदेहदिव्यमुक्तिश्च तयोस्तत उदीरिता ।निगडभ्रमणादीनां कैवर्तानां प्रमोक्षणम् ॥१५॥पिपठायनयोगेन तत उक्तं हि बद्रिके ।एकलायाश्च कुशलीसागर्या राजयक्ष्मतः ॥१६॥रक्षणं मोक्षणं चापि तत उक्तं हि बद्रिके ।वञ्चयित्र्या विषलाण्याः सतां प्रसादभोजनात् ॥१७॥मुक्तिरुक्ता ततो गंगाञ्जन्या मोक्ष उदीरितः ।रमाञ्जन्या रमात्व च मोक्षणं समुदीरितम् ॥१८॥स्त्रियां रणस्तम्बकुम्भकारस्य साधुसेवया ।चन्द्रमाः पुत्रतां प्राप्तस्ततो मोक्षं उदीरितः ॥१९॥ततो देवसुधानाम्न्याः स्वर्णकर्त्र्याश्चमत्कृतिः ।दुर्भिक्षेऽसंख्यजीवानां भोजनं मोक्षणं तथा ॥२०॥विष्टिनार्या विद्रुमिण्याः सत्संगेन च दिव्यता ।चाण्डाल्या मालवान्याश्च सेवया धर्मदर्शनम् ॥२१॥मूर्तमन्त्रदर्शनं च मोक्षणं चाप्युदीरितम् ।कारेलिकायाः शूद्र्याश्च निर्मोहित्वमुदाहृतम् ॥२२॥बद्रिकायनसाधोश्च मूकता शापमोक्षणम् ।यन्त्रकर्त्र्याश्च गोमत्याः क्षयरोगनिवारणम् ॥२३॥कनकांगदाया मोक्षः साधूनां सेवया कृतः ।रायहरिभाणवाण्योरुन्मत्तयोस्तु मुक्तये ॥२४॥लक्ष्मीनारायणसंहितायाः कथादिवाचनम् ।अष्टादशो हरेर्जन्ममहोत्सव उदीरितः ॥२५॥नारायणसरःस्थानां मोक्षणं रुच्छभूभृतः ।पावनत्वं तथा विद्योताया मोक्षं उदीरितः ॥२६॥कुंभकारकुटुम्बस्य स्वर्णकारस्त्रियास्तथा ।धातुध्माया नटस्यापि कदर्यस्यापि मोक्षणम् ॥२७॥क्षीरोदनृपतेः पत्न्याः प्रजानां मुक्तिरीरिता ।सोमिकादिगणिकानां मोक्षं उदीरितस्ततः ॥२८॥दुःखनाशो मद्यपस्य मोक्षश्च हरिणा कृतः ।चक्रिणो यास्कवादस्य बहूनां मोक्ष ईरितः ॥२९॥निन्दकयोर्द्विवदन्तीर्द्विर्गर्जनाभिधानयोः ।यमदूतदर्शनं च मोक्षस्तत उदीरितः ॥३०॥सुरप्रसादविप्रस्य गुरुहन्तुः कथाश्रवात् ।सतां प्रसेवया मोक्षस्तत उक्तो हि बद्रिके ॥३१॥काराग्रहे पतितानां देवद्रोहवतां सदा ।नागविक्रमादीनां च रक्षामोक्ष उदीरितौ ॥३२॥शालमित्रनृपतेश्च राज्ञ्याश्चायुर्विनाशनम् ।मोक्षणं संहिताकथाश्रवणात् समुदीरितम् ॥३३॥युद्धराजस्य च विषप्रदस्य कन्यकादिषु ।यमदूतागमो मृत्युः साधुकृतं च रक्षणम् ॥३४॥व्यवायिन्या गर्भहन्त्र्या अनंगवल्लरीस्त्रियाः ।पापनाशो मोक्षणं च कथाश्रयादुदीरितम् ॥३५॥षण्ढवज्रादिषण्ढानां कथाश्रवात् प्रमोक्षणम् ।नपुंसकानामन्येषां पुंस्त्रीव्यञ्जकतोदिता ॥३६॥घातकिनो यवसन्ध्याख्यस्य मुक्तिरुदीरिता ।भण्डशीलाख्यभाण्डस्य भवायनस्य मोक्षणम् ॥३७॥हर्षवीर्यादिमल्लानां मृगयूणां च बद्रिके ।वार्धूषिकाणां मोक्षश्च कथाश्रवादुदीरितः ॥२८॥नागादस्य वादिटस्य सारहासे च खेलिनाम् ।कथासाधुप्रसंगेन मोक्षस्ततः उदीरितः ॥३९॥विलासदेवविप्रस्य लुञ्चादस्य च दीक्षणम् ।दुरितघोषसंज्ञस्य दीक्षणं कीर्तितं ततः ॥४०॥शीलयान्याः स्वामिनश्च धर्मभटस्य मोक्षणम् ।न्यायाक्षिण्याः स्वामिनश्च न्यायाधीशस्य मोक्षणम् ॥४१॥विशालरेखकायस्थादीनां चोक्तं च मोक्षणम् ।शाहविलापनक्षत्रियस्योक्तं मोक्षणं ततः ॥४२॥दण्डारणिकौलिकस्य गृध्रजन्मनि मोक्षणम् ।गोवारस्य बिडालजन्मनश्चोक्तं प्रमोक्षणम् ॥४३॥ठट्ठोलवणिजो मोक्षः प्रोक्तः शृगालजन्मनः ।स्वर्णाञ्जनानिभृत्यानां सेवयोक्तं प्रमोक्षणम् ॥४४॥अजापालस्यापि मुक्तिरुक्ता च श्येनजन्मनः ।अजानां मोक्षणं चोक्तं चटकाजन्मनां ततः ॥४५॥कपोतानां पुरा सार्थवाहानां मोक्षणं तथा ।पुरा तु कंकजातीनां मोक्षणं काकपक्षिणाम् ॥४६॥नाणकिन्याः खवासिन्या गृहगोधाख्यजन्मनि ।मोक्षणं संघवाटादिशूद्राणामाखुजन्मनाम् ॥४७॥सागरदानवारुटकीरताराख्यभाटयोः ।पुण्यवत्याः स्वामिनश्च देवगतीश्वरस्य च ॥४८॥जयमानबन्दिनश्च वज्रविक्रमभूभृतः ।कथाश्रवणतः प्रोक्तं मोक्षणं बद्रिके ततः ॥४९॥सप्ताब्धिसिंहनृपतेः सर्पदष्टस्य मोक्षणम् ।हर्षनयनसंज्ञस्य मागधस्यापि मोक्षणम् ॥५०॥योगिदासस्य मोक्षश्च कथितो बद्रिके ततः ।सौरभसावित्रनाम्नस्ताम्चूलिनश्च मोक्षणम् ॥५१॥रगिलाख्यरंगकर्तुर्मोक्ष उक्तस्ततः परम् ।डमरूकाभिधवाद्यकारस्योक्तं च मोक्षणम् ॥५२॥चिह्नरायाभिधभावसारस्योक्तं च मोक्षणम् ।स्वर्णास्तरणादीनां च विद्याध्राणां प्रमोक्षणम् ॥५३॥चित्रबर्हादिगन्धर्वोत्तमानां मोक्षणं ततः ।किन्नराणां चारणानां सिद्धानां मोक्षणं ततः ॥५४॥संहितायाः कथायास्तु समाप्तौ पूजनादिकम् ।नगरे भ्रमणं सर्वराजराष्ट्रादिषु प्रभोः ॥५५॥कुंकुमवापिकायां श्रीहरेश्च गमनं ततः ।उक्तः सर्वमेधयज्ञो नागविक्रमभूपतेः ॥५६॥दिलावरीश्वरनन्दिभिल्लस्य योधनं ततः ।नागविक्रमभूपेन सह सैन्योभयोरपि ॥५७॥नागविक्रमविजयो नन्दिभिल्लस्य संक्षयः ।दिलावर्याः सतीत्वं च कथितं बद्रिके ततः ॥५८॥प्रभुणा निजकान्ताभ्यः कृष्णनारायणेन तु ।गृहगीता शुभा प्रोक्ता गृहिणां मोक्षसाधनम् ॥९९॥विध्यर्थाऽऽज्ञावतां मोक्षः कथितो गृहिणोरपि ।द्वाविंशः श्रीहरेर्जन्मजयन्त्युत्सव ईरितः ॥६०॥पुरञ्जयशितीपस्य स्वप्ने नरकभोगिता ।मोक्षणं कथितं चापि सत्यलोकं ययौ हरिः ॥६१॥सप्तलोकेषु भगवान् गत्वाऽश्वसारसं ययौ ।अतलादिषु गत्वापि हरिर्जन्मदिनं निजम् ॥६२॥चतुर्विंशं प्रचक्रे कुंकुमवाप्यां कथोदिता ।सप्तद्वीपेषु गत्वापि पञ्चविंशं निजोत्सवम् ॥६३॥कुंकुमवापिकायां च चकार परमेश्वरः ।वैराजेश्वरप्रभृतिलोकेषु धामसूर्ध्वगः ॥६४॥हरिः प्रदर्श्य पत्नीभ्यो धामानि चाययौ ततः ।कुंकुमवापिकाक्षेत्रं सिंहारण्यादिभूमिषु ॥६५॥विचचार विहारार्थं पत्नीभिः सहितः प्रभुः ।तत्र सर्वाभिरिष्टानि ह्यपत्यानि हरेस्तदा ॥६६॥सर्वाभ्यः प्रददौ तत्र युगलापत्यकानि सः ।मानसानि हि दिव्यानि न गर्भजानि बद्रिके ॥६७॥तेषां संस्कारविधयः कथिताश्च ततः परम् ।तिष्यस्वभावकथनं तिष्यगुणप्रवर्णनम् ॥६८॥मायापालनृपतेश्च याम्यदण्डात् प्ररक्षणम् ।सनत्कुमारमुनिना कृतं च मोक्षणं ततः ॥६९॥कलौ मोक्षसाधनानि प्राविर्भावा हरेस्ततः ।नागविक्रमभूपस्य तीर्थयात्रा च दिव्यता ॥७०॥श्रीहरिर्निजपुत्राय मुकुन्दविक्रमाय तु ।दिलावरीराजधान्यामभिषेकं चकार ह ॥७१॥श्रीकृष्णो निजपत्नीनामक्षरेक्षणवाञ्च्छनाम् ।गत्वा कोटिविमानैः प्रदर्श्य पूरितवान् प्रभुः ॥७२॥पत्नीनां मुक्तपुंरूपत्वं च व्रह्मह्रदाप्लवः ।कोटिशृंगाद्रिवीक्षा च नृत्यमण्डपवीक्षणम् ॥७३॥रासमण्डपवीक्षा च विहारमण्डलेक्षणम् ।राष्ट्रमण्डलवीक्षा चाऽक्षरधामपुरेक्षणम् ॥७४॥ब्रह्ममहोलवीक्षा चाऽवतारालयवीक्षणम् ।वर्णितं सर्वमेवैतत् ततः परमधामनि ॥७५॥गमनं तद्रहस्योपनिषदादिविवेचनम् ।अष्टदुर्गवर्णनं च परब्रह्मपुरस्य च ॥७६॥परब्रह्मात्मुक्तादिवसतीनां प्रवर्णनम् ।रहस्यमुक्तकोटीनां द्वेधात्वमैक्यमित्यपि ॥७७॥षोडशानां महोलानां दर्शनं वर्णितं ततः ।मूर्तिगर्भगताऽनादितादात्म्यमुक्तकेक्षणम् ॥७८॥स्वपत्नीनां समस्तानां तादात्म्यमुक्ततार्पणम् ।श्रीहरेः सप्तायतनसमष्टिरूपतोदिता ॥७९॥श्रीहरेः कुंकुमवाप्यामागमनमुदाहृतम् ।असंख्यानां निजर्द्धीनां दानानि कथितानि च ॥८०॥वानप्रस्थोत्तरं साधुदीक्षा हरेश्च कीर्तिता ।लक्ष्मीकृतं स्तवनं च ततस्तीर्थाऽभियात्रिका ॥८१॥हरेर्लक्ष्म्या सहितस्य पुनः कुंकुमवापिकाम् ।प्रत्यागमनमुक्तं श्रीस्वामिनीभिश्च कोटिभिः ॥८२॥संहिताध्यायसंख्या च श्लोकसंख्या ह्युदीरिता ।संहितादानमाहात्म्यं पुरश्चरणमित्यपि ॥८३॥सार्वभौममहादानविधिस्तत उदीरितः ।पुनः कथानां स्मरणं बद्रिकेऽभिहितं च ते ॥८४॥इत्येवं विषया बद्रि कथितास्ते मयाऽखिलाः ।येषां श्रवणात्स्मरणान्मुक्तिं विन्दति देहवान् ॥८५॥विषयाः प्रतिखण्डस्य खण्डान्ते तत्र तत्र च ।कथिता बद्रिके तस्मात् ज्ञातव्यास्तत्तदन्ततः ॥८६॥तत्तत्खण्डस्य माहात्म्यं तदन्ते चोपपादितम् ।पठनाच्छ्रवणाद्ध्यानाद् भुक्तिर्मुक्तिर्मिलेद् ध्रुवा ॥८७॥विरमामि क्षणं बद्रि! कृष्णनारायणेऽधुना ।त्वं विरामं कृष्णनारायणे याहि सुनन्ददम् ॥८८॥एह्यागच्छ महानन्दपयोधौ स्याव तन्मयौ ।श्रीकृष्णस्वामिजाऽऽनन्दं भुज्यास्वाऽति यथेष्टकम् ॥८९॥श्रीश्वेतकृष्णायनो व्यास उवाच-एवं वै वर्तमानायां कथायां प्राह बद्रिका ।धन्याऽस्मि तापसी चाहं महाभाग्याऽन्विताऽस्मि च ॥९०॥याऽहं शक्तिश्चार्धमूर्तिः पुरुषोत्तमरूपिणी ।अवैमि मां माणिकीं च माधवीं च प्रमात्मिकाम् ॥९१॥अवैमि मां च लक्ष्मीं श्रीकृष्णनारायणीं स्वयम् ।स्वामी कान्तोऽनादिकृष्णोनारायणोऽस्ति मे पतिः ॥९२॥अवैमि तं सकलावतारिणं परमेश्वरम् ।स भवानिह बद्रीनारायणोऽस्ति नरान्वितः ॥९३॥साहं नारायणीबद्री सर्वेशी पुरुषोत्तमी ।नरनारायणस्वामिन् ते सत्संगात् कथाश्रवात् ॥९४॥मन्निमित्तेन लोकानां परं श्रेयो भविष्यति ।धन्येयं पृथिवी सर्वा धन्याश्च मानवा इमे ॥९५॥येषां नारायणो भर्ता धर्ता कर्ताऽविता सदा ।धन्या नार्यः सर्वविधाः कृपा यासु हरेः शुभा ॥९६॥सर्वाभ्योऽपि विशेषेण कृपा षट्सु हि चक्रिणः ।कृष्णरूपस्य राधायां लक्ष्म्यां नारायणस्य च ॥९७॥प्रज्ञायां पाशवत्यां श्रीकृष्णनारायणस्य च ।नारायणीश्रियां चापि पुरुषोत्तमरूपिणः ॥९८॥नरनारायणस्याऽपि बदर्या मयि शाश्वती ।लक्ष्म्यै नारायणेनात्र श्रावितः कृतखण्डकः ॥९९॥राधायै कृष्णरूपेण श्रावितस्त्रीतखण्डकः ।पुरुषोत्तमरूपेण नारायणीश्रियै तथा ॥१००॥श्रावितो द्वापरसन्तानको मह्यं त्वयाऽन्तिमः ।प्रज्ञायै पाशवत्यै च गृहगीताद्युदीरितम् ॥१०१॥एषाऽहं भगवन्नस्मि पतिता पादयोस्तव ।मामन्तर्भाव्य मूर्तौ त्वं कृष्णनारायणे प्रभौ ॥१०२॥विरामं लभ मे स्वामिन्नैषा ध्यायामि तं हरिम् ।इत्युक्त्वा बदरी तूर्णं ध्यानमग्ना यतोऽभवत् ॥१०३॥तावत्तत्राऽभवत्तूर्णं महाश्चर्यं महाद्भुतम् ।महातेजोऽभवद् व्याप्तं शीतलं मधुरं सुखम् ॥१०४॥तत्राऽश्रयन्त सन्नादाः किंकिणीनां मनोहराः ।बिभूषाणां पादयोश्च करयोः कटिवक्षसोः ॥१०५॥किंकिणीनां मिष्टनादाः अश्रूयन्त सुखावहाः ।तत्र तेजसि कन्यैका व्यदृश्यत सुसुन्दरी ॥१०६॥प्रोद्भिन्नयौवनाकोटिचन्द्रकान्तिध्रविगृहा ।चतुर्हस्तेषु रम्येषु चतुर्धा पुस्तकानि सा ॥१०७॥स्मितहासा धृतवती सर्वाभरणभूषिता ।दिव्यस्वर्णकटकादिदिव्यमुकुटशोभना ॥१०८॥दिव्यगन्धसुगन्धाढ्या दिव्याम्बरसुशोभना ।रमणीनां समस्तानां मोहिनी चातिसुन्दरी ॥१०९॥पुष्टा सर्वांगरम्या च भरपूरबलान्विता ।चतुर्षु संहितावत्सु करेषु वरमालिकाः ॥११०॥चतस्रो धृतमाना च प्रसन्नवदनेक्षणा ।लक्ष्मीर्यद्वा राधिका माणिकी बद्री प्रमाऽथवा ॥१११॥माधवीं वाऽथतां नारायणोऽन्तरे तु संहिताम् ।बद्री मूर्तिमतीं ज्ञात्वेमां लक्ष्मीसंहितां तथा ॥११२॥नेमाते कुशलं पप्रच्छतुश्चक्रतुः स्वागतम् ।नारायणोऽस्यै प्रददौ मधुपर्कं शुभासनम् ॥११३॥का ? कुतश्च? कथं? पृष्टा सा प्रोवाच निजां कथाम् ।लक्ष्मीनारायणसंहिताऽस्मि श्रीपुरुषोत्तमी ॥११४॥अनादिश्रीकृष्णनारायणांगाद् दिव्यरूपिणी ।प्राविर्भूताऽहमेवाऽस्मि राघालक्ष्मीस्वरूपिणी ॥११५॥नारायणीश्रीस्वरूपा बद्रीरूपा प्रभात्मिका ।पद्मावतीरूपिणी च चतुर्हस्तवती सदा ॥११६॥चतुःपुस्तकधर्त्री च चतुःसन्तानविग्रहा ।चतुर्वेदोद्भवमाता चतुर्धामस्वरूपिणी ॥११७॥चतुर्नारायणवाणी चतुर्युगेषु वर्तिनी ।चतुराश्रमवर्णानां चतुःसाधनसंभृता ॥११८॥चतुष्पादवती चाष्मि चतुर्नारायणश्रिता ।चतुर्नारायणमूर्तिश्चतुर्मुक्तिसुविग्रहा ॥११९॥चतूरूपा चतुर्मालाधरा च भगवन्मयी ।सम्पूर्णाऽद्य भवाम्येव चतुर्नारायणात्मिका ॥१२०॥साऽहं नारायणं कृष्णं बद्रीपं पुरुषोत्तमम् ।अर्चितुं कामये कृष्णनारायणार्यवल्लभम् ॥१२१॥इत्युक्त्वा सा चतुर्हस्तैः समालैः श्रीनरायणम् ।अर्चितुं त्वाजगामाऽग्रे तावत्तु भगवान् पतिः ॥१२२॥राधया सह कृष्णोऽभूद् द्विभुजो मुरलीधरः ।चतुर्भुजधरो नारायणो लक्ष्म्या सहाऽभवत् ॥१२३॥ नारायणीश्रिया युक्तः श्रीपुरुषोत्तमोऽभवत् ।बद्रीनारायणश्चापि प्रादुरासीत् पुरःस्थले ॥१२४॥प्रज्ञाबदरिकास्वामी चतुर्ष्वपि सुदृश्यते ।पूजां नेतुं कृपां कर्तुमाशिऽर्पयितुं हरिः ॥१२५॥तादृशो दृश्यते तस्मै चतस्रः पद्ममालिकाः ।आर्पयच्चन्द्रकं भालेऽक्षतकुंकुमचन्दनैः ॥१२६॥कृत्वा प्रपूज्य युग्मानि चाऽस्तौत् तद्गतमानसा ।विह्वला स्नेहिहृदया पूर्णकामाऽपि संहिता ॥१२७॥विचरति योऽक्षरे परतरे निजधाम्निहरिर्वहुविधिसेवितश्च पुरुषोत्तम इष्टपतिः ।निजतनुरूपिणीभिरनुगाभिरमाभिरयंपरतम एव सोऽस्तु मम सर्ववरार्थकरः ॥१२८॥बहुविधगोपिकाभिरभिसेवित एव च योविलसति राधया च सहितोऽत्र स कृष्णपतिः ।निजजनमानसानि समपूरयितुं पुरतःस भवतु मे मनोऽभिलषितं सुविधातुमिह ॥१२९॥प्रसरति यः प्रभुर्मुहुरसंख्यतनुर्वसतौस हि कमलापतिर्मयि नरायणरूपधरः ।बहुकरुणाकरस्त्विह सुगोचरतां तु गतोवितरतु हृद्गतं मम समस्ततनुध्रहितम् ॥१३०॥विधविधलोकिनां सुखदशान्तिकृते तपसाह्युरुकमनीयरूपमपि शुष्कवसे सततम् ।अगणितबोधदः स इह मे बदरीशमुनिःपतिरभिलाषगोचरमतीव ददातु च मे ॥१३१॥नमनमनन्तकं मुहुरिहाऽस्मि च दत्तवतीचरणतले चतुःप्रतिमधारिहरेरिह वै ।अयुगलरूपिणी युगलमानमवाप्तुमतिःप्रकटवचोमयौ कमनुयामि चतुष्षु रता ॥१३२॥इत्येवं सहितादेवी तुष्टाव चतुरः प्रभून् ।लज्जानम्रा प्रतस्थौ च मौनमास्थाय कामिनी ॥१३३॥चत्वारो हरयस्तस्यै वरदानानि सन्ददुः ।संहिते सुभगे देवि नो मुखेभ्यो विनिर्गता ॥१३४॥राधायां च श्रियां चापि बद्र्यां लक्ष्म्यां कृतस्थितिः ।विराजसे यतो नित्या नित्याऽस्मद्रूपधारिणी ॥१३५॥अस्मदभिप्रायगर्भा वर्तसे वेदसत्प्रसूः ।पात्रं त्वं वर्तसे श्रेष्ठं वरदानाऽयुतस्य वै ॥१३६॥दद्मस्ते बरदानानि चतुःस्वरूपरूपिणी ।संहिते! शाश्वती पत्नी चतुर्ण्णामद्यतोऽसि च ॥१३७॥चतुष्पत्नीसमा चैका प्रज्ञापाशवतीसमा ।ता देव्यो मुक्तिदा यद्वत् तथा त्वं मुक्तिदा सदा ॥१३८॥सर्वधामाधिदेवी च महती पुरुषोत्तमी ।सर्वदा वस नो धामालयेषु दिव्यभामिनी ॥१३९॥द्वितीयेन स्वरूपेण वाणी वस विमुक्तिदा ।आश्रितानां पूजकानां श्रोतॄणां तव संहिते! ॥१४०॥तथा वाचनशीलानां परं श्रेयोऽस्तु धामनि ।धर्मोऽस्तु धर्मकामानामर्थोऽस्तु चाऽर्थकामिनाम् ॥१४१॥कामः कामवतां चाऽस्तु मोक्षोऽस्तु मोक्षकांक्षिणाम् ।न चैवाऽस्त्वशुभं तेषां सदा स्वस्त्यस्तु सेविनाम् ॥१४२॥प्रजार्थिनां प्रजाः सन्तु यशश्चाऽस्तु यशोऽर्थिनाम् ।प्रजाप्राधान्यमेवाऽपि राजधिष्ण्याधिपालनम् ॥१४३॥श्रीश्च तेषां विपुलाऽस्तु श्रेयश्चाऽस्तु परात्परम् ।वीर्यं तेजो बलं चाऽस्तु निर्भयत्वं सदाऽस्त्वपि ॥१४४॥अस्त्वारोग्यं च सौन्दर्यं गुणित्वं बहुमान्यता ।अबन्धनत्वं सर्वापन्मोचनं पुत्रपौत्रकाः ॥१४५॥वंशशाखाः स्वर्गराज्यं भूपतित्वं सुरेशता ।ईशिता भोगसामर्थ्यं चर्द्धयः सन्तु सर्वदा ॥१४६॥यद्यद्धामाभिमुक्तत्वं वाञ्छितं तद् भवत्वपि ।विद्वत्त्वं च कलावित्त्वं भाविवित्त्वं भवत्वपि ॥१४७॥जातिस्मरत्वं सार्वज्ञ्यं निरावरणताऽस्त्वपि ।योगित्वं कोविदत्वं च गान्धर्वत्वं भवत्वपि ॥१४८॥सिद्धता यतिता ब्रह्मविष्णुमहेशताऽस्त्वपि ।संहितासेविका नारी लक्ष्मी राधाऽस्त्वितीश्वरी ॥१४९॥नरो नारायणश्चाऽस्तु दद्मस्ते सद्वरानिमान् ।संहिते! वेदधात्रीत्वं ख्यातिं लोके गमिष्यसि ॥१५०॥वेदाधानस्वरूपा त्वं वेदगर्भा च वैदिकी ।एवमुक्त्वा विरेमुस्ते कृष्णनारायणादयः ॥१५१॥राधिकाद्यास्ततः प्राहुः प्रसन्नवदनास्तदा ।भव त्वखण्डसौभाग्यवती मोक्षप्रदा ध्रुवा ॥१५२॥इत्युक्त्वा संहितां पत्नीं निन्युः सह तिरोहिताः ।वाणीरूपां पृथिव्यां तां ररक्षुः शाश्वतीः समाः ॥१५३॥सेयं विजयते लोके कृष्णनारायणप्रिया ।ईशलोके ब्रह्मलोके सदाधारा हरिप्रिया ॥१५४॥प्रपूजिता समस्तैर्वै सर्वमाता परेश्वरी ।वैष्णवानां कुटुम्बेषूवासेयं संवसत्यपि ॥१५५॥निवत्स्यति सदा कालं व्यासेषु सत्सु साधुषु ।भाववत्सु प्रभक्तेषु भक्तासु जयमेष्यति ॥१५६॥जयतु सकलकल्पद्रुमस्वरूपाऽऽत्मवल्लीनिगमरससुपात्री ब्रह्मसम्बन्धदात्री ।शरणरणितभर्त्री संहिता मोक्षकर्त्रीनयतु निजगुणाढ्यान् स्वाभिधामाऽक्षरं नः ॥१५७॥जयत्वनादिश्रीकृष्णनारायणोऽखिलेशिता ।माता श्रीकम्भरालक्ष्मीः पिता गोपालकृष्णकः ॥१५८॥कुंकुमवापी जयतु चाश्वपट्टसरोवरम् ।सौराष्ट्रमण्डलं जयत्वजस्रं लोमशो मुनिः ॥१५९॥स्वतःप्रकाशो जयतु लक्ष्मीर्जयतु शाश्वती ।मुक्तिर्जयतु भक्तिश्च जयत्वाशु सुखप्रदा ॥१६०॥विजयोऽस्तु च कल्याणं स्वस्तिरस्तु सुखं शुभम् ।मंगलं सर्वदा चाऽस्तु परब्रह्माभियोगिता ॥१६१॥ इति स्मृत्वा परं कान्तं दद्मश्चाशीर्वचांसि वै ।ओं नमोऽनादिशास्तृश्रीकृष्णनारायणाय ओम् ॥१६२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने तिष्यसन्तानविषयाः, बद्रिकानारायणसन्निधौ संहितायाः कुमारीरूपेणाऽऽविर्भावः, श्रीनारायणश्रीकृष्णनारायणश्रीपुरुषोत्तमनारायणश्रीनरनारायणानां स्वस्वशक्तिभिः साकं तत्रैव आविर्भावः, संहितायै वरदानानि, कथाश्रवणफलं चेत्यादिनिरूपणनामा त्रयोविंशत्यधिक-शततमोऽध्यायः ॥१२३॥इति श्रीतिष्यसन्तानखण्डः॥सम्पूर्णेयं चतुःखण्डात्मिका श्रीलक्ष्मीनारायणसंहिता विजयते ॥हरिः ओम्तिष्यसन्तानस्याऽध्यायाः-१२३श्लोकाः-१३०३८ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP