संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९२ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९२ Translation - भाषांतर श्रीमाधवीप्रज्ञे प्रोचतुः-भगवन् करुणासिन्धो कृष्णनारायणप्रभो ।स्वः सञ्जाते कृतकृत्ये माहात्म्यश्रवणात् सताम् ॥१॥अथाऽनादिकृष्णनारायणश्रीकृष्णमाधव! ।कर्तुमीहामहे सर्वा भवज्जन्यजयन्तिकाम् ॥२॥आज्ञां देहि पते स्वामिन् सर्वाः कुर्मो महोत्सवम् ।अपूर्वमुत्सवं वीक्ष्य जीवानां मोक्षणं भवेत्। ॥३॥श्रीश्वेतायनव्यास उवाच-मुनयोऽनादिकृष्णाश्रीनारायणस्तदर्थनाम् ।गृहीत्वाऽऽज्ञां ददौ कर्तुं ताभ्यः स्वाऽऽविर्दिनोत्सवम् ॥४॥द्वाविंशतितमे जन्मवत्सरे कार्तिकेऽसिते ।आद्ये दलेऽष्टमी प्राप्ता तज्जयोत्सवसिद्धये ॥५॥श्रीमद्गोपालकृष्णस्तु पिता मण्डपमुत्तमम् ।क्लृप्तयामास सहसा सौवर्णं राजतं शुभम् ॥६॥विशालं योजनायामं पटमण्डपमित्यपि ।गजासनं च सौवर्णमण्डपे सन्न्यधाद्धरेः ॥७॥लोमशो हवनार्थं वै कुण्डं चाकारयत्तथा ।समग्रोपकरणादि साधयामास लोमशः ॥८॥ब्रह्मप्रियाद्याः प्रमदाः पक्वान्नानि प्रचक्रिरे ।पद्मावतीप्रियायाश्च हरिप्रियास्तथाऽपराः ॥९॥मण्डपेऽथ समाजस्योपवेशनानि सर्वशः ।क्लृप्तयामास भगवान् ज्येष्ठो भ्राता हरेस्तदा ॥१०॥शुको भ्राता द्वितीयश्च स्वागतार्थं स्थितोऽभवत् ।सन्तुष्टाद्याः कुमार्यश्च देवीनां स्वागतं व्यधुः ॥।१॥आययुः सर्वलोकेभ्यो धिष्ण्यपाः स्वविमानकैः ।ऊर्जकृष्णाष्टमीप्रातः कृष्णाशीर्वादहेतवे ॥१२॥योगेशा! ब्राह्मसमयेऽवाद्यन्त वाद्यकोटयः ।संगृह्णाति च नारीणां कीर्तनान्यभवन् प्रगे ॥१३॥विप्राणां वेदघोषाश्चाऽभवन्नाशीःपरायणाः ।गीतयश्चाप्सरसां च सनृत्याः परितोऽभवन् ॥१४॥गन्धर्वाणां किन्नराणां किंपुंसां गायनानि च ।सूतमागधबन्दीनां वन्दनानि शुभानि च ॥१९॥काव्योत्तमानि च कविवर्याणामभवँस्तदा ।विद्याध्राणां चारणानामासन् कथानकानि च ॥१६॥पण्डितानां नाटकानि सतानां कीर्तनानि च ।नामधून्यानि साध्वीनां चासन् जयन्तिकोत्सवे ॥१७॥नैष्ठिकाः! श्रीहरिः प्रातर्योगनिद्रां विहाय च ।दिव्यवाद्यादिघोषादीन् शृण्वन् सस्नौ सरोजलैः ॥१८॥दधार वेषं सुभगं भूषाः शृंगारकाणि च ।सुगन्धानि सर्वस्वस्तिचन्द्रकः शुशुभे हरिः ॥१९॥माताश्रीकम्भरालक्ष्मीः पुत्रस्य तिलकं व्यधात् ।चन्द्रकं कौंकुमं चापि चान्दनं केसरान्वितम् ॥२०॥सन्तुष्टा भगिनी भालेऽक्षतबिन्दुं व्यधाद्धरेः ।पिता मालां ददौ पुत्रकण्ठे स्वर्णमणिस्रजम् ॥२१॥अथैवं शोभितः कृष्णो मण्डपं समुपाययौ ।लोमशश्चाययौ तत्र पूजोपकरणान्वितः ॥२२॥सर्वैर्नमस्कृतस्तूर्णं वाचयामास मंगलम् ।पुण्याहं स्वस्ति चैवापि गणेशपूजनं ततः ॥२३॥देहशुद्धिं प्रोक्षणं च तिलकं चन्द्रकं हरेः ।भाले चकार ऋषिराडाशीर्वादान् ददौ ततः ॥९४॥पुष्पहारं गले रम्यं ददौ कृष्णस्य लोमशः ।ततो माता पिता भाले बान्धवाश्च कुटुम्बिनः ॥२५॥तिलकं साक्षतं चक्रुर्यवांकुराणि कर्णयोः ।ददुश्चाशीर्वादवाणीं ततो ब्रह्मा ह्युपाययौ ॥२६॥कृत्वा तु तिलकं हारं गले दत्वा स्तुतिं व्यधात् ।नमस्कृत्याऽऽसनं प्राप विष्णुस्तत उपाययौ ॥२७॥हारं च मुकुटं दिव्यं कुण्डले कौस्तुभं मणिम् ।दत्वा ननाम च ततः शंभुरुपाययौ हरिम् ॥२८॥नत्वा दत्वा पुष्पमालां चक्रे भाले सुचन्द्रकम् ।इन्द्रादयस्ततो देवाः सिद्धाश्च साधवो ऽमलाः ॥२९॥सनकाद्या भवन्तः श्रीहरिं पुपूजुरादरात् ।नारदाद्याः ऋषयश्च सूर्याद्यास्तिलकं व्यधुः ॥३०॥लोकपालाश्च पितरो गन्धर्वाः किन्नरास्तथा ।किंपुमांसो मानवाश्च विप्राः सन्तो जलेशयाः ॥३१॥तीर्थानि सागरा नद्यो वृक्षाश्च विरुधोऽपि च ।देवा दैत्या दानवाश्च भक्ताः सूताश्च मागधाः ॥३२॥चारणा वैष्णवाश्चान्ये शैवा गणाश्च पार्षदाः ।अप्सरसो देवताश्च देव्यः साध्व्यश्च योगिनः ॥३३॥योगिन्यो गणिकावृन्दा भक्तानिकाश्च योषितः ।वर्णाश्रमा नरा नार्यो यक्षा रक्षांसि वन्दिनः ॥३४॥विद्याधराश्च विद्वांसो कृष्णमानर्चुरुत्सुकाः ।नागा यादांसि च जरायूजाश्च स्वेदजाश्च ये ॥३५॥दिव्या दिव्यवपुष्मन्तः पुपूजुः परमेश्वरम् ।आरार्त्रिकं महामुक्ताश्चक्रुर्मुक्तानिकास्तदा ॥३६॥अभिषेकं ततो नद्यः पादयोश्चक्रुरुत्सवे ।उपदाश्च ददुः सर्वे महीमानोत्तमाः सुराः ॥३७॥चिरं जीवाऽव नः कृष्ण क्षेमं च कुशलं तव ।आरोग्यं च धनं सम्पन्महैश्वर्याणि सन्तु ते ॥३८॥शरण्यत्वं दयालुत्वं मोक्षदत्वं सदास्तु तै ।वंशविस्तारवत्त्वं च देवाधिदेवराजता ॥३९॥सौख्यं सर्वविधं तेऽस्तु सर्वानन्दादिशेवधेः ।एवमाशीर्वादवाणीश्चाहुः सुरादयस्तथा ॥४०॥लोमशः स्वागतं मानं धन्यवादान् ददौ तदा ।ब्रह्मप्रियाः समस्ताश्च हरिप्रियाश्च योषितः ॥४१॥राधारमाश्रीकमलावृन्दापाशंवतीप्रियाः ।माणिकीसुखदालक्ष्मीभूलीलाभूतिशारदाः ॥४२॥सावित्रीपार्वतीसंज्ञागायत्रीभगवत्प्रियाः ।देव्यस्तथेश्वरपत्न्याऽवतारिण्योऽपराः स्त्रियः ॥४३॥पुपूजुः परमात्मानं भालेऽस्य तिलकं व्यधुः ।वृद्ध्यञ्जलिं दुःखनाशाञ्जलिं जगृहुरादरात् ॥४४॥पुष्पाऽक्षताऽञ्जलीन् कृष्णे निदधुर्जगदुर्हरिम् ।चिरं जीव सतीसाध्वीशक्तीशानन्ददो भव ॥४॥सम्पत्प्रदो मोक्षदश्च नो हृत्स्वविचलो वस ।एवमाशीर्ददुस्तस्मै कृष्णनारायणाय ताः ॥४६॥आरार्त्रिकं च ताश्चक्रुर्जलं पपुश्च पादयोः ।हरिस्ततो नरान्नारीर्नमश्चक्रे समुत्थितः ॥४७॥वर्धितोऽहं महाभाग्यैर्नमामि परमेश्वरान् ।गुरून् वृद्धान् मातृकाश्च देवीर्देवादिकान्मुहुः ॥४८॥समागतान् कृपयाऽत्र मेऽर्थं तान्प्रणमाम्यहम् ।सर्वे भवन्तु सुखिनो धिष्ण्यपाः सम्पदन्विताः ॥४९॥वंशविस्तारवन्तश्च लोकधामाधिपास्तथा ।निर्भया विमलानन्दभोगसम्पत्सुखोच्छ्रयाः ॥५०॥इत्युक्त्वा श्रीकृष्णनारायणो राजन्निजासने ।आहूय पूज्यवर्गांश्च प्रददौ बहुदानकम् ॥५१॥सर्वसृष्ट्यधिपान् पूर्वं ददौ रत्नानि सर्वशः ।ततः साधून् भूसुराँश्च सूतमागधबन्दिनः ॥५२॥भिक्षुकान् बालिका बालान् योगिनश्च सतीजनान् ।दासीर्दासांश्च भृत्याँश्च नरान्नारीः समस्तकान् ॥५३॥नत्वा नत्वा महामूल्यं धनं तेभ्यो ददौ हरिः ।यथायोग्यप्रसादाँश्च भूषापात्राऽम्बराणि च ॥५४॥ददौ चक्रे ततः कृष्णः सभाविसर्जनं द्रुतम् ।अथ तेभ्यो भोजनानि विचित्राण्युत्तमानि च ॥५५॥कारयामास भगवान् पिता माता च बान्धवाः ।तर्पयामासुरीशाद्यान् मिष्टान्नजलपानकैः ॥५६॥मुखवासप्रदानैश्च विश्रामासनदानकैः ।सेवाभिर्विविधाभिश्च सत्कारैर्योग्यवर्तनैः ॥५७॥बुभूजुर्देहिनस्तत्र जन्मजयन्तिकादिने ।द्वाविंशतिवर्षसंख्येऽष्टम्यां त्रिलोकवासिनः ॥५८॥मध्याह्नोत्तरवेलायां प्रार्थयामासुरच्युतम् ।निजलोकान् पावयितुं समागन्तुं हरिं तु ते ॥५९॥तथाऽस्त्वेवं हरिः प्राह विससर्ज समाजकम् ।विदाय प्राप्य ते सर्वे ययुर्लोकानजं विना ॥६०॥ब्रह्मा तस्थौ गृहे तत्र कृष्णाज्ञया सुखेन वै ।विमानैस्ते ययुः सर्वे मुदा स्वस्वालयान् प्रति ॥६१॥अथाऽऽश्चर्यमभूत्तत्र शृणुतेदं मुनीश्वराः! ।वर्धमाननगरस्य राजा नाम्ना पुरञ्जनः ॥६२॥आगतोऽभूज्जन्ममहोत्सवे चान्ये नृपा यथा ।पुरञ्जनस्य वै रात्रौ स्वप्नमभूच्चिरायितम् ॥६३॥कुंकुमवापिकाक्षेत्रे मुहूर्ते ब्राह्मपूर्वके ।स्वप्ने ददर्श राजा स्वं पतितं ज्वलितानले ॥६४॥निन्युस्तं विकराला वै दूता यमस्य दक्षिणाम् ।याम्यपुरीं सर्वकर्मफलभोगार्थसंस्थिताम् ॥६५॥धर्मराजो ददौ दण्डं वीक्ष्य पापानि भूभृतः ।परवित्ताऽपत्यनारीहर्ता त्वं कालपाशकम् ॥६६॥तामिस्रं घोरनरकं भुंक्ष्वेत्याह यमाधिपः ।नरनारीवञ्चकस्त्वमन्धतामिस्रगो भव ॥६७॥भूतद्रोहकरस्त्वं च हिंसको रौरवं व्रज ।देहंभरो न दाता त्वं महारौरवगो भव ॥६८॥पशुपक्षिप्राणहा त्वं कुम्भीपाकगतो भव ।पितृविप्रब्रह्मध्रुक् त्वं कालसूत्रगतो भव ॥६९॥पाषण्डपोषकस्त्वं वै संविशाऽसिदलं वनम् ।अदण्ड्यदण्डकर्ता त्वं सूकराननके पत ॥७०॥प्राणिव्यथाप्रदाता त्वमन्धकूपगतो भव ।पञ्चयज्ञविहीनस्त्वं कृमिकुण्डगतो भव ॥७१॥हिरण्यरत्नहर्ता त्वं सन्दशे नरके पत ।अगम्यागमकस्त्वं वै तिग्मसूर्म्यागतो भव ॥७२॥पाषण्डपोषकस्त्वं वैतरण्यां पत सर्वथा ।शौचाचारविहीनस्त्वं पूयकर्दमगो भव ॥७३॥मृगयाव्यसनी त्वं वै याहि वैशसमुल्बणम् ।अनृतार्थप्रवादी त्वं याह्यवीचिमधःशिराः ॥७४॥मद्यपस्त्वं रक्तमद्याऽनलपानकरो भव ।गुर्ववज्ञाविधाता त्वं क्षारकर्दमके पत ॥७५॥सर्वोद्वेगकरस्त्वं वै दन्दशूकगतो भव ।साध्वभ्यागतपूजाघ्नो वज्रतुण्डगतो भव ॥७६॥एवमुक्त्वा यमो याम्यान्नृपं नेतुमुवाच ह ।यमदूता ददौ दुःखं ताडनैश्छेदनैस्तथा ॥७७॥घातनैर्वह्निदाहैश्च पेषणैः कर्तनैस्तथा ।वह्निपानैर्विषदानैः क्षारपातनकैस्तथा ॥७८॥गलरोधैश्चान्त्रकर्षैर्वज्रघातैर्मुहुर्मुहुः ।कण्टकादौ गमनैश्चाकर्षणैः शस्त्रिभूतले ॥७९॥ताम्रबन्धैर्ज्वालनैश्च पाशलम्बनकैस्तथा ।खङ्गपत्रप्रवासैश्च पूयशोणितपातनैः ॥८०॥एवंविधानि दुःखानि भुक्त्वा स्वप्ने नृपश्चिरम् ।निष्कासितो बहिश्चापि प्रवासितो विदायवान् ॥८१॥आययौ स्वनिवासे वै वर्धमानपुरे हि सः ।सम्मानितो नृपो लोकैर्महोत्साहैः प्रजादिभिः ॥८२॥राज्यासने स्थितः पश्चाद् विश्रम्य च दिनान्तरे ।यात्रार्थं प्रययौ कुंकुमवापीं कृष्णसन्निधौ ॥८३॥जन्मजयन्तिकाहे वै तत्र कृत्वा महोत्सवम् ।विदायं स ललाभापि तावन्निद्रोत्थितोऽभवत् ॥८४॥शुशोच बहुधा राजा किमिदं स्वप्नमुल्बणम् ।पृच्छामि परमात्मानं दृष्टं यत् तत् समस्तकम् ॥८५॥राजा पुरञ्जयः शीघ्रं कृष्णनारायणाय वै ।श्रावयामास वृत्तान्तं शोकं चकार वै क्षणम् ॥८६॥अनादिश्रीहरिः प्राह राजत्वं पापकृत् पुरा ।पश्चाद् भक्तोऽसि जातोऽत्र महापापी पुराऽभवः ॥८७॥सहस्रयुगपर्यन्तं पापफलं तवाऽभवत् ।भोगाय यमलोके वै तत्सर्वं विलयं गतम् ॥८८॥ममाश्रयेण वै राजन् यदंशः स्वप्नके त्वया ।भुक्तः सर्वोऽपि रात्रौ वै न शेषं तव विद्यते ॥८९॥अथाऽधुना मम मन्त्रं गृहाण शुद्धभावनः ।मुक्तो भूत्वा प्रयाह्येवाऽक्षरं धाम परं पदम् ॥९०॥त्वमग्नौ पतितो राजन् नाऽऽयुष्यं तव विद्यते ।अश्वपट्टसरःक्षेत्रे याहि धामाऽक्षरं मम ॥९१॥इत्युक्त्या श्रीकृष्णनारायणो मन्त्रं तु भूभते ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९२॥ददौ वारि ददौ नैजं पादप्रक्षालनोद्भवम् ।पपौ राजा पादजलं दिव्यदृष्टिर्बभूव ह ॥९३॥मायापाराऽऽचारवाँश्चाऽभवत् करुणया हरेः ।आचकर्ष समस्ता वै वृत्तिश्चेन्द्रियवाजिनाम् ॥९४॥तूर्णं ब्रह्मस्थितौ तिष्ठन् पुपूज परमेश्वरम् ।ऋषीन् साधून् वैष्णवाँश्च नेमे परमभाववान् ॥९५॥स्वभृत्यान् शिक्षणं दत्वा स्वस्त्या तत्र कलेवरम् ।आगतेन विमानेन दिव्येन मुक्तशोभिना ॥९६॥ययौ धामाऽक्षरं शीघ्रं पश्यतां सर्वदेहिनाम् ।श्रुत्वा याम्यप्रदत्तान् वै दण्डान् सर्वेऽनुयायिनः ॥९७॥तत्यजुर्भृत्यवर्गास्ते दूषणानि ह्यघानि च ।जयकारोऽभवद् राज्ञश्चौर्ध्वकृत्यं ततोऽभवत् ॥९८॥भूपस्याऽनुचराः सर्वे मन्त्रं जगृहुरच्युतात् ।नामधुन्यं जगृहुश्च कृष्णनारायणप्रभो ॥९९॥बालकृष्णस्वामिकृष्णाऽनादिकृष्णप्रभो विभो ।एवं धुन्यं प्रचक्रुस्ते ययुर्नैजं पुरं प्रति ॥१००॥जगदुर्नृपमोक्षं च भेजुस्ततो हरिं प्रभुम् ।इत्येवं वर्चुलं तत्राऽऽश्चर्यमभून्मयोदितम् ॥१०१॥पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग् भवेत् ।मायां विहाय पापानि ब्रह्मलोकगतोऽभवत् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरेर्द्वाविंशतितमो जन्मजयन्तीदिनोत्सवः, वर्धमानपुरेशितुः पुरञ्जयनृपतेः स्वप्ने सर्वनरकभोगस्ततः शीघ्रं श्रीकृष्णनारायणस्वामि-सन्निधौ मोक्षणं चेत्यादिनिरूपणनामा द्वानवतितमोऽध्यायः ॥९२॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP