संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७४ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७४ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये लक्ष्मि कथां सूतस्य मोक्षदाम् ।पञ्चनदे शुभे देशे सिन्धुचीनापगान्तरे ॥१॥संगमे भूतले त्वासीन्नगरी पञ्चनादिनी ।तस्या राजाऽभवन्नाम्ना सप्ताब्धिसिंह उत्तमः ॥२॥महापराक्रमः ख्यातशौर्यः प्रजाप्ररक्षकः ।हस्तिवाजिमहायानविमानादिचमूपतिः ॥३॥प्रजापालो धर्मबुद्धिर्ब्रह्मकर्मपरायणः ।तस्य स्वस्य रथवाहः सूतोऽभवत् सुकेसरी ॥४॥सोऽपि भूपसमो देहे भाने मन्त्रे रणे मतौ ।सूतकार्यकरो नित्यं राज्ञः प्रियतरोऽभवत् ॥५॥स राजा रथमास्थाय सूतनोदितमुत्तमम् ।मृगयार्थमरण्यानीं विचचार नदीतटे ॥६॥तत्र पातुं जलं सिन्धुतटं ययौ रथान्वितः ।विशश्राम पपौ वारि सूतो वारि पपौ ततः ॥७॥अश्वाः पपुर्जलं श्रान्ता मुक्ता रथयुगात् क्षणम् ।वटच्छायातले राजा सूर्यतापेन नोदितः ॥८॥लेभे निद्रां मनाक् तावत् सर्पो वटात् पपात ह ।नृपकण्ठोपरि श्वेतवर्णोऽदशन्नृपं द्रुतम् ॥९॥सूतो ददर्श सर्पं तं दशन्तं दीर्घविग्रहम् ।नेमे दूरात् सूतवर्यो जानन् देवसमं सृपम् ॥१०॥ 'नमस्ते श्वेतवर्णाय शेषरूपाय भोगिने ।दंशते मम राजानं विष्णुरूपाय ते नमः ॥११॥कालरूपाय रुद्राय रौद्राय प्राणहारिणे ।नमस्ते दुःखहाराय रक्षाकर्त्रे मुहुर्नमः ॥१२॥एषोऽहं नृपतेः सूतो भृत्योऽस्मि किंकरस्त्विह ।अपरो न सहायोऽस्ति दयालो मां प्ररक्षय ॥१३॥ईदृशे निर्जने ऽरण्ये जीविते मयि किंकरे ।स्वामिनो मरणं योग्यं नैव नैव च नैव च ॥१४॥ततो मत्स्वामिनं सर्प समुद्धर विषानलात् ।तत्स्थाने मां दश सर्प स्वस्ति मे ते मुहुर्नमः ॥१५॥राजार्थे देवतार्थे च गुवर्थे गोकृते तथा ।पित्रर्थे प्राणदाता यः स स्वर्गं दिव्यमश्नुते ॥१६॥नष्टे नृपे मम मृत्युर्ध्रुवश्चात्र भविष्यति ।तत्पापं ते भवेत् सर्प तस्मादुद्धर मन्नृपम् ॥१७॥नृपोद्धारे मम भृत्यौ पाप ते न भविष्यति ।मृते स्वामिनि भृत्यस्य जीवनं गर्हितं क्षितौ ॥१८॥तस्माद् रक्षय भोगीन्द्र दयां कृत्वा ममोपरि ।विषं वाराय शीघ्रं तु यावन्निर्यान्ति नाऽसवः ॥१९॥त्वं वने विद्यसे स्वामी वटस्थायीति तर्कये ।तवाऽतिथिस्वरूपोऽहं नृपस्तेऽतिथिरस्ति च ॥२०॥आतिथेयो भवान् भूत्वा प्ररक्षतु क्षितीश्वरम् ।विधेहि स्वागतं सर्प जीवदानेन भूपतेः ॥२१॥न चेत् पापं भवेत्तेऽत्र पुण्यनाशो भवेत्तव ।आशाभग्नोऽतिथिर्यस्य गृहात्प्रतिनिवर्तते ॥२२॥पापं दत्वा पुण्यमप्यादायातिथिः स गच्छति ।धन्यास्ते गृहिणः सर्प पूज्यन्तेऽतिथयोऽन्वहम् ॥२३॥येषां गृहेषु पूजान्नवस्त्रवारिप्रदानकैः ।जीवदानसमं दानं परं दानं न विद्यते ॥२४॥सर्वदानकृतं पुण्यमभयस्य प्रदे भवेत् ।सर्वपापानि भयदे तिष्ठन्ति नाऽत्र संशयः ॥२५॥भयं कार्यं न कस्यापि सूक्ष्मस्यापि तु देहिनः ।भयदस्य फलं स्याद्वै प्रतिभयं न संशयः ॥२६॥तस्माद् रक्षय राजानं सर्प त्वं वटसंगृही ।न चेत् प्राणभयं तेऽपि मम बाणेन विद्धि हि ॥२७॥एकस्य पश्चादुभयोर्व्यसुत्वं निश्चितं त्विह ।दत्वा प्राणं तव प्राणान्नीत्वा यास्ये यमालयम् ॥२८॥वदाऽत्र शीघ्रं कर्तव्यं शर एषोऽनुसन्धितः ।इत्युक्त्वा बद्रिके धनुः सगुणं सशरं तथा ॥२९॥विधाय क्रोधमापन्नः प्रतीक्षते हितं वचः ।तावत् सर्पो भीत इव प्रत्युवाच तु सान्त्वयन् ॥३०॥शृण्वतिथे तथ्यमत्र ततो योग्याय चार्हसि ।अविचार्यकृतः शीघ्रं भयमापद्यते ऋतम् ॥३१॥सुकेसरिन् पुरा सृष्टौ ब्रह्मा रुद्राय सृष्टये ।आज्ञां चकार रुद्रोऽसौ न स्वीचकार वै तदा ॥३२॥स्वयं ब्रह्मा तु विविधाः प्रजाः ससर्ज शान्तिमान् ।अथोत्पन्नाः प्रजाश्चासन्नाकल्पस्थायिजीवनाः ॥३३॥नाऽप्यवर्धन्त च नाशं न प्रापुर्वै यदा तदा ।वृद्ध्यर्थं स निजाद्देहात् प्रजाः ससर्ज मैथुनीः ॥३४॥युगलानि सहस्राणि सहस्राणां शतानि च ।बह्व्यः प्रजास्ता उत्पन्ना युगलेभ्योऽर्बुदाऽर्बुदम् ॥३५॥तासामसंख्यसंतत्या प्रपूरितमिदं जगत् ।तासां पुष्टिं चकारैव विष्णुर्लक्ष्मीपतिः प्रभुः ॥३६न नाशोऽस्ति तदा तासां संकुलितं जगद् यदा ।तदा ब्रह्मा तु रुद्राय प्रजानाशकलां ददौ ॥३७॥रुद्रः प्राह न मे हिंसा रोचते भयकारिणी ।हिंसाफलं तु नरकं शापो दुःखं तथोल्बणम् ॥३८॥क्रूरं कर्म दयाहीनं हिंसनं प्राणघातनम् ।न तत् करिष्ये दोषाढ्यं पापाढ्यं वै प्रजापते ॥३९॥तदा ब्रह्मा विचार्यैव रुद्रमुवाच तत्क्षणम् ।कालं मृत्युं जरां व्याधीन् सृजामि पश्य नाशकान् ॥४०॥ते विनाशान् करिष्यन्ति मा ते हिंसा भवेच्छिव ।निमित्तेन विनाशः स्यात् त्वं तन्निरीक्षको भव ॥४१॥इत्युक्तः शङ्करो देवो जगृहे ब्राह्मणो वचः ।संहारकर्मणामाधिदैवत्वं जगृहे हरः ॥४२॥ततो ब्रह्मा ससर्जोक्तान् कालमृत्युजराधिकान् ।क्रूरान् निमित्तभूताँश्च देहिनो नः ससर्ज च ॥४३॥सर्पान् व्याघ्रान् वृश्चिकाँश्च विषाढ्यान् देहिनस्तथा ।ज्वरान् रोगान्मन्दशक्तौः ससर्ज मारकानजः ॥४४॥तेभ्योऽस्मभ्यो ददावाज्ञां येषां मृत्युर्यथा मतः ।येन निमित्तमात्रेण बाधध्वं तान् तथैव ह ॥४५॥एवमाज्ञां प्रदायैव शङ्कराय समर्पिताः ।ते वयं नाशकर्तारो नष्टायुषां न चान्यथा ॥४६॥प्रेर्यन्ते शङ्करेणैव काला रोगा अशक्तयः ।विषाढ्या रूपवन्तश्च भूत्वा भूत्वा प्रजासु च ॥४७॥विचरामो नाशरेखां नाशक्षणं विलोक्य च ।दशामो नान्यथा सूत गतायुर्नृपतिस्त्विह ॥४८॥दृष्टो मया न दोषो मे न वयं भयशालिनः ।ये येऽस्माकं महीमाना भवन्त्यतिथयस्तथा ॥४९॥कुर्मस्तेषां तु सम्मानं विषार्पणैर्हि मृत्यवे ।कृतो मया चातिथेयः सत्कारो योऽस्तिमद्गृहे ॥५०॥राजा गतो हि निधनं न पुनः प्राणमेष्यति ।सूत ते जीवनं चास्ते शवं नय प्रयाहि च ॥५१॥यदि त्वं शरसन्धानैर्मम प्राणान् हरिष्यसि ।नूत्नेन कर्मणा त्वं च प्राणान् त्यक्ष्यसि चात्र वै ॥५२॥मानुषाणां तु शस्त्राणां दैवे प्रवर्तनं नहि ।सर्पोऽहं कालरूपोऽहं तथ्यं वच्मि प्रयाहि च ॥५३॥विरमाऽस्मात् कर्मणश्च मा स्वायुष्यं विनाशय ।विचार्याऽत्र यथायोग्यं यद् विधेयं विधेहि तत् ॥॥५४॥एषोऽस्मि वटशाखायां निर्भीको हृद्गतं कुरु ।कर्तुस्तु साहसस्यैवापद्यन्ते दुःखकोटयः ॥५५॥वयं नियामकाः सृष्टेस्त्वं नियाम्योऽसि सनृपः ।हिंसायां मम पापं न तव पापं तु वै ध्रुवम् ॥५६॥हिंसायां मे न नरकं ते नरकं ध्रुवं भवेत् ।राज्ञा कार्यो विरोधो न जनेन सुखमिच्छता ॥५७॥विरोधो नापि दैवेन भाग्येनापि च नैव ह ।यदापतेत् तद्भोक्तव्यं यथाकर्म ह्युपस्थितम् ॥९८॥सूत नैव हि कर्तव्यो विरोधो वह्निना सह ।न कालेन सह कार्यो विरोधः सुखमिच्छता ॥५९॥न मृत्युना नेश्वरेण न शास्त्रा न स्त्रिया ह्यपि ।न मूर्खेण न क्रुद्धेन न शस्त्रधारिणाऽपि च ॥६०॥न समर्थेन कर्तव्यो विरोधो मृदुना सता ।न शस्त्रेण न भूतैश्च न चमत्कारकारिणा ॥६१॥बलिना न विरोद्धव्यं न मात्रा जनकेन च ।गुरुणा न विरोद्धव्यं तपस्विना न साधुना ॥६२॥बहुभिर्न विरोद्धव्यं क्षेमं कुशलमिच्छता ।पतिना न विरोद्धव्यं न गृहस्वामिना क्वचित् ॥६३॥न पिशाचेन योद्धव्यं रक्षसा दानवेन न ।न सिंहेन गजेनापि न सर्पेण विषेण च ॥६४॥न दुष्टेन च योद्धव्यं न निर्दयेन शत्रुणा ।तत्र धर्मो न वै तिष्ठेच्छठे दुष्टे च निर्दये ॥६५॥शरं संहर राजानं नयोर्द्ध्वदैहिकं कुरु ।यद्वा मुञ्च शरं शीघ्रं मयि यत्फलमाप्नुयाः ॥६६॥विवेकेन विदध्याद्वै तद्धीनस्त्वापदां पदम् ।मनुष्योऽसि च मेधावी यद् योग्यं तत् समाचर ॥६७॥नाऽयं हतो मया सूत राजा हतः स्वकर्मणा ।नाऽहं घातमवाप्स्यामि शरेण तव केसरिन् ॥६८॥प्रत्युत तव घातार्थः शरश्चात्र भविष्यति ।ममाऽहमिति मोहं त्वं मुञ्च मा कुरु मोहनम् ॥६९॥क्व ते राजा क्वाऽस्य सूतः सर्वं वै कर्मबन्धनम्भौतिके पुत्तले बद्धा आत्मानो निजकर्मभिः ॥७०॥भुञ्जते स्वकृतं कर्म यावद् देहे वसन्ति हि ।तत् त्यक्त्वा चापरे देहे पुनः कर्माणि भुञ्जते ॥७१॥मयि सर्पे न विश्वासस्ते यदि मुञ्च मार्गणम् ।कृत्वा परीक्षां च ततो मौढ्यं स्वयं प्रहास्यसि ॥७२॥इत्युक्त्वा बद्रिके सर्पो विरराम कथानकात् ।सूतो विचार्य सहसा त्यक्त्वा धनुः शरं तथा ॥७३॥एषोऽहं शरणे तेऽस्मि सर्पदेव शुचं हर ।देवोऽसि कालकालोऽसि कालोऽसि शंकरोऽसि वा ॥७४॥योऽसि सोऽसि ऋतं मन्ये कृतं त्वया यथातथम् ।तथापि वन्दनां कुर्वे हितं मे स्याद् यथा तथा ॥७५॥नृपतेश्च हितं स्याद् यत् दंशस्ते विफलोऽपि न ।तथा दैवनियोगेन विधेहि सर्पराडिह ॥७६॥इत्युक्त्वा बद्रिके सूतो दण्डवत्प्रचकार तम् ।सर्पोऽपि कालरूपोऽपि हितं व्यचिन्तयत् क्षणम् ॥७७॥उवाच सूत भीं त्यक्त्वोत्तिष्ठ नृपं समाह्वय ।विषं हरामि चाद्याऽत्र नृपो जीवतु चाधुना ॥७८॥किन्तु धारय मन्त्रं त्व नृपं श्रावय सत्वरम् ।पुण्येन तेन कालोऽहं हराम्यस्य न जीवनम् ॥७९॥इत्युक्त्वा बद्रिके कालः सर्पो मन्त्रं ददौ तदा ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८०॥ 'ओं बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।तन्नः श्रीशः प्रचोदयादि'ति मन्त्रं च वै ददौ ॥८१॥कृष्णनारायण कृष्णनारायण नरायण ।बालकृष्णाऽनादिकृष्णनारायण रमायण' ॥८२॥नामधुन्यं ददौ चापि सर्पः सूताय वै तदा ।सूतः श्रीनृपतेः कर्णे श्रावयामास सत्वरम् ॥८३॥तावद् राजा समुत्तस्थौ निर्विषः स्वस्थदेहवान् ।सर्पश्चैनं नृपं प्राह याहि राजन् कथास्थलम् ॥८४॥लक्ष्मीनारायणसंहितायाः शृणु कथां शुभाम् ।कुरु सेवां सतां चापि ततः श्रेयः परं व्रज ॥८५॥सूतादथ विशेषेण वृत्तान्तं नृपतिः स्वकम् ।ज्ञात्वा ददौ धन्यवादान् सूताय भोगिनेऽपि च ॥८६॥नमस्कृत्य द्रुतं नैजरथेन गृहमाययौ ।गृहिणीं दासदासीश्च नीत्वा सह ययौ कथाम् ॥८७॥पुपूज परमात्मानं प्रभुं कृष्णं सुमूर्तिकम् ।व्यासं च लोमशं चापि साधून् पुपूज भूपतिः ॥८८॥ददौ दानान्यनेकानि कथां शुश्राव भावतः ।भोजनानां प्रदानैश्च सेवां सतां चकार सः ।८९॥सूतेन स्मारितो राजा भजनं प्रचकार ह ।प्रसादं पादसलिलं जग्राह नृपतिर्मुहुः ॥९०॥कुटुम्बसहितो बद्रि पावनः सम्बभूव ह ।मृत्युभयात् कृष्णमूर्तौ लीनवद् वर्तते सदा ॥९१॥ज्येष्ठे कृष्णैकादश्यां तु मध्याह्ने भगवान् हरिः ।अनादिश्रीकृष्णनारायणो विमानमास्थितः ॥९२॥आययौ तस्य मोक्षार्थं राजा सज्जो बभूव च ।ददौ दानानि सर्वाणि नमस्कृत्य समस्तकान् ॥९३॥कृष्णनारायणाऽऽहूतो विमानमारुरोह सः ।सूतः सुकेसरी चापि राज्ञी रक्षावती तथा ॥९४॥पुत्राः पुत्र्योः भृत्यवर्गा दासा दास्यो नृपाय वै ।जयवादान्नमोवादान् ददुर्मोक्षप्रगामिने ॥९५॥सर्वेषां पश्यतां राजा सप्ताब्धिसिंहनामकः ।दिव्यो भूत्वा बद्रिके स ययौ धामाऽक्षरं हरेः ॥९६॥राज्ञ्याद्याश्च नृपस्यौर्ध्वदैहिकं प्रव्यधुस्ततः ।सूतः सुकेसरी राज्ञी रक्षावती सुतादयः ॥९७॥वैष्णवाः परमा भूत्वा श्रुत्वा कथां प्रमोक्षिणीम् ।ययुनैंजां हि नगरीं सैन्धवीं पञ्चनादिनीम् ॥९८॥भजित्वा वल्लभं कृष्णं प्रभुं गोपालबालकम् ।अनादिश्रीकृष्णनारायणं पद्मावतीपतिम् ॥९९॥ययुः कालेन सर्वे ते हरेर्धामाऽक्षरं परम् ।एवं बद्रीप्रिये राजा मृतो मन्त्रेण जीवितः ॥१००॥कथां श्रुत्वा हरिं प्राप्य ययौ ब्रह्माऽक्षरं पदम् ।पठनाच्छ्रवणादस्य चिन्तनादपि सर्वथा ॥१०१॥कालमायापापकर्मविमुक्तिः संभवेत्तथा ।भुक्तिर्मुक्तिर्भवेच्छ्रेष्ठा यथेष्टाः स्युः समृद्धयः ॥१०२॥कृष्णकथाबलं बद्रि सर्वबलाधिकं मतम् ।ततोऽधिकं कृष्णकृपाबलं सर्वार्थसाधकम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सर्पदष्टस्य सप्ताब्धिसिंहनृपते सूतदत्तमन्त्रधुन्ययोगेन संजीवनं कथाश्रवणेन च मोक्षणमित्यादिनिरूपणनामा चतुःसप्ततितमोऽध्यायः ॥७४॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP