संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां श्रीपरमात्मनः ।कैवर्तकस्य भक्तस्य प्रपन्नस्य विमोचिनीम् ॥१॥अस्ति ज्वालालकं नाम नगरं भद्रिकातटे ।तत्राऽऽस्ते निगडभ्रामो नाम्ना कैवर्तजातिजः ॥२॥करोति वासं भद्राया नद्यास्तु सन्निधौ दिवा ।मत्स्यग्राहक्रियासक्तः कुटुम्बभरणोद्यमः ॥३॥जालमादाय भद्राया ह्रदे गत्वा तु मत्स्यकान् ।पाशयित्वा गृहं याति सायं मत्स्यादनः सदा ॥४॥विक्रीय चाधिकान्मत्स्यान् धनं प्राप्नोति यत्तु सः ।तेनाऽन्नं शाकपत्रादि क्रीत्वा भरते बालकान् ॥५॥पुत्रान् पुत्रीस्तथा पत्नीं भरते तेन कर्मणा ।अथैकदा स्त्रिया साकं वस्त्रक्षालनहेतवे ॥६॥भद्रां नदीं ययौ जालयुतो निगडभ्रामकः ।स तु तीरे स्थितो जालं चिक्षेपाऽगाधवारिषु ॥७॥पत्नी तस्याऽम्बरप्रक्षालनोद्यता जलैस्तदा ।क्षालयत्येव वस्त्राणि तत्र निर्मलवारिधौ ॥८॥वस्त्रध्यानपरा यावन्मज्जयत्यम्बरं जले ।तावत् तत्पतिना जाले पाशितं तु तिमिं पतिम् ॥९॥वीक्ष्य द्राक् च तिमेश्चक्रोशनं श्रुत्वा भयावहम् ।तिमिनी पाशबद्धं स्वं पतिं कैवर्त्तरोधितम् ॥१०॥आकृष्यमाणं जालेन बहुमत्स्यसमन्वितम् ।शशाप दुःखमापन्ना रक्षणे शक्तिवर्जिता ॥११॥कैवर्त्तं मानुषीवाण्या भूत्वाऽतिविह्वला तदा ।कैवर्त्त त्वं भवावर्त्तान्मा मुक्ताः कर्हिचिद् भव ॥१२॥मुहुस्तिमिङ्गिलो भूत्वा मर कैवर्तजालगः ।यथाऽहं दुःखिनी त्वत्र भवामि पतिनाशतः ॥१३॥तथा पत्नी तव चापि सदाऽस्तु दुःखिनीति च ।एवं मत्स्यवधूश्चोक्त्वा रुरोदाऽपत्यवारिता ॥१४॥तावत् कैवर्त्तिकाऽऽश्चर्यं श्रुत्वाऽपश्यज्जलान्तरे ।मीनी रौतीति पत्यर्थं पतिर्जालान्तराऽर्दितः ॥१५॥शापं ददौ तु सा मत्स्येत्येवं वेद निजान्तरे ।सहसा चाऽम्बरं त्यक्त्वा पत्युः सन्निधिमेत्य च ॥१६॥विचार्य मत्स्यमोक्षार्थं जालसूत्रं करेऽकरोत् ।पतिहस्तान्मोचयित्वा लब्ध्वा जालं जले शनैः ॥१७॥मुमोचाऽबन्धनायैव मत्स्यानां शापभीयुता ।जालशैथिल्यभावेन मत्स्या जालाद्विनिर्ययुः ॥१८॥सर्वेऽपि त्वक्षता जाले निर्गत्य विविशुर्जलम् ।संवदन्तः प्रसन्नाश्च जीव त्वं लक्षवत्सरान् ॥१९॥सदैव सधवा चापि पतिसेवापरायणा ।दयावती च मत्स्यानां हिंसाकर्मादिवर्जिता ॥२०॥हृष्टा भवतु कैवर्त्ति सदाऽस्मद्रक्षणादिह ।एवं मत्स्यादयश्चोक्त्वा विविशुर्जलमध्यके ॥२१॥अथ श्रुत्वा तु कैवर्त्तो महाश्चर्यपरोऽभवत् ।क्षुधान्वितोऽपि पत्न्यास्तत् कर्म वीक्ष्य दयापरम् ॥२२॥अनुमेने मुमोचापि जालं तीरे वियत्नकः ।पत्नीं पप्रच्छ किमिदं सहसा जालकर्षणम् ॥२३॥पत्नीं तं श्रावयामास शापं मत्स्योदितं तदा ।कैवर्त्तश्च समाश्रुत्य भयं चावाप जन्मनाम् ॥२४॥मत्स्ययोनिजदुःखानां पश्यन्नानन्त्यमन्वहम् ।मत्स्यै तु शापदात्र्यै च मोचयित्र्यै तु योषिते ॥२५॥धन्यवादान् ददौ तत्र यत् पापान्मोचितस्त्विति ।जालं त्यक्त्वा क्षणे तत्र वह्नौ प्रज्वाल्य धीवरः ॥२६॥फलकन्दाऽन्नशाकादस्तत आरभ्य सोऽभवत् ।बद्रिके पुण्यसाधूनां संगमः सद्गतिप्रदः ॥२७॥मत्स्या इमेऽभवत् सर्वे ऋषयो मत्स्यरूपिणः ।भद्रायां तज्जलेऽनादिकृष्णनारायणः प्रभुः ॥२८॥बहुवारं गजे स्थित्वा यत्र स्नानाय गच्छति ।तत्तीर्थलोभवशगा महर्षयोऽभवन् झषाः ॥२९॥यस्तु धृतो महान् मत्स्यो मत्स्या चान्ये च येऽभवन् ।मत्स्यरूपोऽभवत् सोऽत्र महर्षिः पिपठायनः ॥३०॥सर्वज्ञकल्प ऊर्ध्वदृक् सर्वविद्यानिधिर्द्विजः ।मत्स्या पत्नी च नाम्नाऽस्य पाठायनीति साऽभवत् ॥३१॥अन्ये मत्स्यादयो विप्रा वेदज्ञाश्चाऽभवन् जले ।बद्रिके स तु कैवर्त्तः पापो महर्षिदण्डवान् ॥३२॥पत्न्या सदयया कान्तस्तारितः समयज्ञया ।बन्धकृन्निरयं याति बन्धहा याति गौरवम् ॥३३॥जीवाऽभवप्रदाता तु सर्वस्वर्गानि विन्दति ।भयदस्तु पतत्येव स्वर्गादपि सुखालयात् ॥३४॥अथ कैवर्त्तिकी नत्वा पप्रच्छ जलमत्स्यकान् ।के भवन्तः कथं मत्स्याः कथं वागीदृशी शुभा ॥३५॥कथं वा मत्स्यरूपत्वं कथयन्तु दयालयाः ।इत्यभिनोदिता विप्राः प्रत्यूचुर्निगडभ्रमम् ॥३६॥अत्राऽनादिकृष्णनारायणः श्रीभगवान् स्वयम् ।कुंकुमवापिकाक्षेत्राद् विहर्तुं गजमास्थितः ॥३७॥रसालारण्यमायाति विश्राम्यत्यत्र शाद्वले ।स्नाति क्रीडति भद्रायास्तटे सत्सलिले हरिः ॥३८॥बहुधा श्रीरमालक्ष्मीराधाप्रियादिभिः सह ।माधवीललितामुक्ताजयाभिः सह पार्षदैः ॥३९॥रमते वार्षु तैस्ताभिर्भुंक्ते फलानि पाति वाः ।प्रसादं प्रददात्येवोपस्थितेभ्यः कृपापरः ॥४०॥ऋषिभ्यः पार्षदेभ्यश्च यादोभ्यः पशुपक्षिषु ।क्षिपत्येते प्रसादं तं प्राप्य यान्ति कृतादराः ॥४१॥मिष्टान्नानि विचित्राणि भोजयत्यत्र माधवः ।उत्सवान् प्रकरोत्यत्र दानान्यर्पयति प्रभुः ॥४२॥तदर्थं बहुधा चात्र विप्रा दीनाश्च सेवकाः ।वसन्त्यत्र प्रसादानां दानानामिच्छया मुधा ॥४३॥वयं चापि वसामोऽत्र विप्रा हर्यर्थमेव ह ।पिपठायनमूर्धन्याः शतं कुटुम्बिनः शुभाः ॥४४॥आश्रमाः श्रीरसालानामधः सन्ति विलोकय ।अथाप्यत्र समायान्ति जलार्थं वनराक्षसाः ॥४५॥क्वचिद् रात्रौ दिवा वापि बहुक्रूरप्रकर्मिणः ।पीडयन्ति विप्रजनान् प्रहरन्ति क्वचित् खलाः ॥४६॥अपहरन्ति च योषिद्वर्गं हरन्ति वस्तुकम् ।प्रतिकर्तुं वयं शक्ता अपि त्वहिंसया स्थिताः ॥४७॥भगवल्लाभयोगेन चाऽक्लेशेन च वारिषु ।क्वचित् क्वचिद् वसामोऽत्र मत्स्या भूत्वा जलान्तरे ॥४८॥क्वचित्तु मानवाश्चापि मृगा वा सिद्धसाधवः ।भूत्वा भूत्वा विचरामो चूतारण्ये सुराष्ट्रके ॥४९॥वद त्वं वै कथमत्र कोऽसि कस्माच्च हिंससि ।कथं वै क्रूरतां हिंसां वहस्यत्रापि मानवे ॥५०॥दुर्लभो मानवो देहो मोक्षदः स्वर्गदः शुभः ।कथं हिंसया निरयान् व्रजितुं कर्मकृद् भवान् ॥५१॥हिंसा स्तैन्यं पारदार्यं कपटं छलताऽनृतम् ।निन्दा दोषारोपणं च निरयाणां प्रदास्त्विमे ॥५२॥मांसाशनं सुरापानं द्रोहो मालिन्यमार्त्तदा ।परापहरणं क्रोधो निरयाणां प्रदास्त्विमे ॥५३॥सेवा सतां हरौ भक्तिः पराऽभयप्रदानकम् ।अहिंसनं प्रसादानामशनं चाप्यनिन्दनम् ॥५४॥परोपकरणं दानं स्वर्गस्यैते प्रदा मताः ।शुद्धिः पूजा दर्शनं च सत्संगोऽन्नफलाशनम् ॥५५॥स्वत्वमात्रेण निर्वाहः स्वर्गाणां तु प्रदास्त्विमे ।हिंसया जायते दुःखं पापं तन्निरयप्रदम् ॥५६॥उदरार्थं परप्राणविनाशः कर्म निर्घृणम् ।सत्सु फलेषु कन्देषु विविधान्नेषु सत्स्वपि ॥५७॥मांसाशनो भवेद् यस्तु स याति रौरवं परम् ।जीवा नैव तु हन्तव्याः फलं भक्ष्यं पवित्रकृत् ॥५८॥दुग्धं पेयं गवां सम्यक् हन्तव्या गौर्न वै क्वचित् ।फलं पुष्पं च पत्रं च भक्षणीयं द्रुमादिजम् ॥५९॥द्रुमा नैव विहन्तव्या वृथा फलादिनिर्वहे ।दुग्धं पेयं तथा मातुर्मारणीया न जीवतः ॥६०॥मधु ग्राह्यं कुसुमेभ्यो नाशनीयानि नैव ह ।करा ग्राह्या प्रजाभ्यस्तु भक्षणीया न सर्वथा ॥६१॥कस्तूरिका हरिणेभ्यो ग्राह्या घात्या न ते मताः ।एवं भोगमयं सर्वं यदंशे भोगयोगि तत् ॥६२॥भोक्तव्यं न तु हन्तव्यं हननं नरकप्रदम् ।तस्मात्त्वं हिंसको भूत्वा मा याहि नरकान् प्रति ॥६३॥स्वर्गं साधय कैवर्त्त त्यज हिंसा सुखी भव ।इत्युपदिष्टः कैवर्त्तो नत्वा मत्स्यात्मकानृषीन् ॥६४॥अपराधक्षमां तेभ्यो ययाचे शापमोचनीम् ।शापोऽयं मत्स्यिकादेव्या विसर्जितः शरो यथा ॥६५॥लग्नो मे हृदये तूर्णमुद्वेजयति चाधिकम् ।शापमुक्तिर्यथा स्यान्मे तथा ऋषे विधेहि वै ॥६६॥इत्येवं त्वं त्वर्थयामास ययाचे तत्पुनः पुनः ।कृपां कृत्वा ततो बद्रि पिपठायनभूसुरः ॥६७॥उवाच मे वचनात्ते शापो निःसत्त्वतां गतः ।किन्तु मे वचनं लब्ध्वा याहि कुंकुमवापिकाम् ॥६८॥अनादिश्रीकृष्णनारायणो यत्र विराजते ।अश्वपट्टसरोवारिमध्ये स्नानं विधेहि च ॥६९॥दर्शनं श्रीकृष्णनारायणस्याऽपि विधेहि च ।पूजनं पत्रपुष्पाद्यैर्विधेहि कुरुसेवनम् ॥७०॥मन्त्रं गृहाण मत्तोऽत्र पावनं पौरुषोत्तमम् ।'ओं नमः श्रीकृष्णनारायणायस्वामिने स्वाहा' ॥७१॥बद्रिके स समाकर्ण्य मन्त्रं प्राप्य ऋषेर्गुरोः ।सपत्नीकः स कैवर्त्तो जग्राह नियमान् यमान् ॥७२॥अहिंसनं साधुसेवामचौर्यं वन्यवृत्तिताम् ।कन्दमूलफलान्नाद्याहारं तीर्थनिषेवणम् ॥७३॥भजनं 'श्रीकृष्णनारायणेति मालया सदा ।पूजनं च सदा नारायणस्य माधवीपतेः ॥७४॥सत्संगं लोमशादीनां पिपठायनदर्शितम् ।भूतानामभयं चेति व्रतं जग्राह सर्वथा ॥७५॥पूजयित्वा गुरुं चापि गुर्वीं च पिपठायनीम् ।तथाऽन्यान् सर्वब्रह्मर्षीन् जालं त्यक्त्वा नदीतटे ॥७६॥जलं पीत्वा तु भद्रायाः पिपठायनपादजम् ।नत्वा चाशीर्वचो लब्ध्वा सपत्नीको गृहं ययौ ॥७७॥पुत्रादीन् सह नीत्वैव त्यक्त्वा ज्वालालकं पुरम् ।ययावश्वपट्टसरो हर्षितो निगडभ्रमः ॥७८॥तीर्थं चकार देवानां दर्शनं स्नानमर्चनम् ।उपवासं चकारापि लोमशस्यापि दर्शनम् ॥७९॥अनादिश्रीकृष्णनारायणस्याऽर्चनमुत्तमम् ।भावदर्शनयुक्तं स चकार वन्दनं ततः ॥८०॥कृतकृत्योऽस्मि भगवन् भवच्चरणदर्शनात् ।नारायणेन भवता दत्तो मानवविग्रहः ॥८१॥धर्मार्थः स मया नीतोऽधर्मार्थः क्षपितोऽधुना ।पिपठायनसंगेन बोधमाप्तोऽस्मि मुक्तये ॥८२॥अप्यहं मत्स्यशापाच्च मुक्त्यर्थमत्र संगतः ।समुद्धर कृपासिन्धो प्रज्वालयाऽघपर्वतम् ॥८३॥मत्स्यादोऽहं मत्स्यमार एष ते शरणं गतः ।इत्युक्त्वा बद्रिके कृष्णपादयोर्निपपात ह ॥८४॥तद्भार्याऽपि हरेः पादौ धृत्वाङ्गुष्ठं चुचुम्ब ह ।पादजलं पपौ पादौ दधारोरसि शीतलौ ॥८५॥मस्तके च रजश्चापि दधार भावसंभृता ।अनादिश्रीकृष्णनारायणस्तां नैगडीं स्त्रियम् ॥८६॥निगडभ्रामकं चापि दिव्यमूर्तिमदर्शयत् ।कृपयैव च पापानि ज्वालयामास तत्क्षणात् ॥८७॥दिव्यदृष्ट्या निगडोऽपि नैगडी तं परेश्वरम् ।चतुर्भुजं कमलया सहितं सन्ददर्श ह ॥८८॥भद्रानद्यां हरिं तीरे रमन्तमृषिमण्डले ।अपश्यद् विहरन्तं च बालकृष्णं श्रियः पतिम् ॥८९॥अथैनं कुंकुमवापीक्षेत्रे तेजसि भूम्नि वै ।अपश्यत् सन्निधौ चापि मानवं संस्थितं प्रभुम् ॥९०॥एवं प्रदर्श्य रूपं स्वं तमाह निगडभ्रमम् ।पिपठायनयोगेन याम्यक्लेशो गतस्तव ॥९१॥मम योगेन निगडभ्रम याहि मदक्षरम् ।इत्युक्त्वा विररामाऽसौ श्रीहरिकृष्णधर्मजः ॥९२॥निगडभ्रामकश्चाह नम ओम् परमात्मने ।तावत्तत्र समायातं विमानं पारमेश्वरम् ॥९३॥दिव्यं पार्षदसंजुष्टं सर्वसौवर्णभूषणम् ।निगडो नैगडी चोभौ तत्यजतुर्हि भौतिकौ ॥९४॥देहौ प्राप्याऽपरौ दिव्यौ ययतुश्चाऽधिरुह्म तत् ।वैकुण्ठं श्रीहरेर्धाम कल्पपर्यन्तमेव ह ॥९५॥ततोऽक्षरपदं तौ वै प्राप्स्यतः परमात्मनः ।तत्पुत्राद्यास्ततश्चक्रुः पित्रोस्तत्रौर्ध्वदैहिकम् ॥९६॥वैष्णवाः परमा जाता बालकृष्णसमाश्रिताः ।कैंकर्यं ते प्रकुर्वन्ति पञ्च पुत्रा हरेः सदा ॥९६॥पुत्रीत्रयं हरेर्दास्यं चक्रुश्चाजीवनं ततः ।साध्व्यश्च साधवस्ते वै जाता भागवतोत्तमाः ॥९८॥नाम्ना साध्व्यः पुण्डरिकासती निर्वाणिकासती ।आनन्दघनिकासाध्वी तिस्रो नारायणाश्रिताः ॥९९॥पुत्राः पञ्च ज्ञानदर्भिः प्रभादर्भिर्विदर्भिकः ।विष्णुदर्भिः कृष्णदर्भिस्त्वेते भागवतोत्तमाः ॥१००॥अभवन् साधवो दिव्यास्तापसाः सिद्धयोगिनः ।अश्वपट्टसरोभूमौ स्वामिसेवापरायणाः ॥१०१॥बद्रिके तेऽपि कालेन परां मुक्तिं ततो गताः ।अनादिश्रीकृष्णनारायणप्रतापपावनाः ॥१०२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने भद्रानद्यां पिपठायनर्षियोगेन निगडभ्रमादिकैवर्त्तानां श्रीकृष्णनारायणाश्रयो मोक्षणं चेत्यादिनिरूपणनामाऽष्टाविंशोऽध्यायः ॥२८॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP