संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७८ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि समाजोऽनन्तसंख्यकः ।लक्ष्मीनारायणसंहितायाः कथासमापने ॥१॥अभवच्छर्करापुर्या सिन्धुतटे समन्ततः ।महोद्याने विशाले वै दशयोजनविस्तरे ॥२॥भूतले द्रुमसंकीर्णे गन्धिपुष्पादिशोभिते ।स्वागतं भोजनं सर्वसमाजस्य व्यधात् प्रभुः ॥३॥निवासान् पार्षदा दासा दास्यः सेवां प्रचक्रिरे ।आषाढस्य सिते पक्षे त्वेकादश्यां प्रगे हरिः ॥४॥अनादिश्रीकृष्णनारायणः श्रीवल्लभः प्रभुः ।ब्रह्मप्रियाभिः स्नपितः शृंगारितः प्रियाजनैः ॥५॥विभूषितो वेषितश्च पूजितः साधुमण्डलैः ।वन्दितो बन्दिसूताद्यैर्नतोऽर्चितश्च राजभिः ॥६॥वर्धितो वैष्णवीभिश्च स्तुतो भागवतैर्जनैः ।निरीक्षितः स्त्रीसमाजैः प्रसादितोऽङ्गसेवकैः ॥७॥राजाधिराजचिह्नाद्यैर्बृंहितो दिव्यपार्षदैः ।कृतपूजादिसत्कर्मा वाद्यध्वनिं प्रकर्षयन् ॥८॥आययौ राजचिह्नाढ्यः कथामण्डपमच्युतः ।गजासने स्वर्णमणिहाराढ्ये संव्यराजत ॥९॥आययौ भगवान् व्यासः स्वतःप्रकाशकायनः ।सभाजनैः कृतोत्थानैः सत्कृतश्चासनं स्वकम् ॥१०॥अलंचकार पुष्पादिपूजितः श्रावितो जयम् ।लोमशाद्याः ऋषिगणा लालायनादिसाधवः ॥११॥रमाद्याः शक्तयो मणिमाणिक्याद्या हरिप्रियाः ।देव्यश्च देवता ईश्वराण्य ईश्वरकोटयः ॥१२॥विप्रा वेदविदः सर्वे वैष्णवाः पावनाः शुभाः ।सिद्धाश्च भूपशार्दूलाः प्रजा नार्यो नरास्तथा ॥१३॥आययुः संहितास्थाने मण्डपे च यथायथम् ।निषेदुश्च कथारंभो व्यजायत समंगलः ॥१४॥मुहूर्तान्ते संहितायाः समाप्तौ श्रीहरेस्तथा ।न्यासस्य पूजनं चक्रुः कृष्णनारायणादयः ॥१५॥कोटिरायो रायहरिस्तथाऽग्निध्रादयो नृपाः ।सर्वे नृपाः सर्वदेवाः सर्वर्षयश्च साधवः ॥१६॥आनर्चुः श्रीसंहितां च व्यासं स्वतःप्रकाशकम् ।प्रजाजनाः श्रेष्ठिनश्च पत्रपुष्पफलैर्जलैः ॥१७॥स्वर्णरूप्यकमुद्राभिर्हीरकाद्यैः सुमौक्तिकैः ।मणिभिः स्वर्णभूषाभिः पुपूजुश्चन्दनाऽक्षतैः ॥१८॥राजार्हाम्बरवर्यैश्च राजार्हभूषणादिभिः ।मुकुटाद्यैरमूल्यैश्च पुपूजुर्व्यासमच्युतम् ॥१९॥स्वायंभुवः क्षितेः राज्यं प्रियव्रतोऽपि वै तथा ।उत्तानपादः पृथिवीखण्डराज्यं हरे! तव ॥२०॥इत्यार्पयत् तथाऽऽग्निध्रो हिरण्याद्याः समार्पयन् ।विमानानि किंपुरुषाद्या आर्पयन् गजाऽश्वकान् ॥२१॥स्वर्णकोशान्महापद्मान् कच्छपानार्पयन्मुदा ।असंख्यहीरकमौक्तिकादीन् स्वर्णानि चार्पयन् ॥२२॥बहून् दासान् दासिकाश्च राजानोऽपि समार्पयन् ।पार्थिवाः सार्वभौमास्ते स्वस्वखण्डान् समार्पयन् ॥२३॥इन्द्राद्याः कामधेनूश्च दिव्यवेषान् समार्पयन् ।सुधाऽमृतान्यसंख्यानि दिव्यभूतीः समार्पयन् ॥२४॥मानवाश्च यथायोग्यं धनं तत्र समार्पयन् ।यद्यद् विशिष्टं स्वायत्तं तत्तत् तत्र समार्पयन् ॥२५॥अमूल्योपकरणानि देहोपकरणान्यपि ।पर्यंका यत्र तैलोक्यं दृश्यते प्रतिबिम्बितम् ॥२६॥तानार्पयद् वाचकाय तथा श्रीहरये मुदा ।चिन्तामणीन् कल्पलताः कल्पपात्राणि चार्पयन् ॥२७॥कल्पशस्त्राणि दिव्यानि कल्पवेषान् समार्पयन् ।देहभूषाः समस्ताश्चार्पयन् यानानि वै तदा ॥२८॥पृथ्व्यां स्वर्गे च पाताले यद्यच्छ्रेष्ठं तदाऽभवत् ।तत्तदानीय देवाद्यैः स्थानिभिश्चार्पितं तदा ॥२९॥विष्णुना चार्पितो हारः कौस्तुभानैक्यशोभनः ।येन सभा कृता दिव्या तेजोभिः सूर्यवर्चसा ॥३०॥ब्रह्मणा चाऽर्पितं छत्रं यत्र नक्षत्रमण्डलम् ।दिव्यं प्रकाशते नद्धं दिव्यस्वर्गमिवाऽपरम् ॥३१॥शङ्करेणाऽर्पितश्चन्द्रो लोकतिमिरहारकः ।देवीभिश्चापि सर्वाभिः शक्तयश्चार्पिता निजाः ॥३२॥साधुभिः पुष्पमालाद्यैः पूजितो व्याससत्तमः ।मुक्तैरीश्वरकोट्याद्यैः पूजितो निजसम्पदा ॥३३॥जैत्रान् रथान् दिव्यवाहान् प्रददुर्दिक्प्रपालकाः ।आशीर्वादान् ददुर्दिव्या मातरो लोकमातरः ॥३४॥गजस्थां संहितां दाने ददुर्यज्वान उत्सुकाः ।आरार्त्रिकं प्रचक्रुश्च वह्नयो राजभिः सह ॥३५॥नीराजनोत्तरं बद्रि तत्र भूमौ महत्तमाः ।वस्तूनामुपदाख्यानां पर्वता अभवँस्तदा ॥३६॥यद्यद् द्रव्यं ह्यभूद् येषां तत्तत्तत्राऽर्पितं ह्यभूत् ।पृथिव्यां नामवद् रत्नं दिवि पातालकेऽपि च ॥३७॥सृष्टौ श्रेष्ठं च पूजार्हं दानार्हं यत् प्रकीर्त्यते ।तत् सर्वं चार्पितं तत्र सर्वसृष्टिनिवासिभिः ॥३८॥अमुकं तत्र नास्तीति नाऽभूत् सर्वस्य सम्मतम् ।आरार्त्रिकोत्तरं पूजा सतां प्राजायतोत्तमा ॥३९॥विप्रर्षिसुरपूज्यानां लोमशस्य गुरोस्तथा ।अनादिश्रीकृष्णनारायणपूजोत्तराऽभवत् ॥४०॥आकाशादभवँस्तत्र पुष्पादीनां सुवृष्टयः ।चन्दनानां सुधानां च वृष्टयः प्राभवन् दिवः ॥४१॥अप्सरसां नर्तनानि गीतयो ब्रह्मयोषिताम् ।नामधुन्यानि भक्तानामभवंश्च समन्ततः ॥४२॥काव्यानि च तथा व्याख्यानान्यजायन्त वै तदा ।विदुषां देवगुरूणां कवीनां काव्यकान्यपि ॥४३॥दानानि सर्वरत्नानामभवँस्तत्र बद्रिके ।असंख्यवस्तुरूपाणि दीनाऽनाथादिदेहिषु ॥४४॥अन्नदानानि बहूनि स्वर्णदानानि वै तथा ।गवाश्वगजदानानि तदानीमभवन् खलु ॥४५॥कन्यादानानि च श्रेष्ठकुमारदानकान्यपि ।क्षेत्रवाटीगृहसम्पद्दानानि चाभवँस्तदा ॥४६॥यज्ञार्थं द्रव्यदानानि राज्ञां तदाऽभवन् क्षणे ।एवं कथासमाप्तिश्चाऽभवद् बद्रीप्रभे तदा ॥४७॥लक्ष्मीनारायणो देवः श्रीमत्कृष्णनरायणः ।राधाकृष्णस्तथा बद्रि नरनारायणोऽप्यहम् ॥४८॥वासुदेवन्रायणश्च शेषनारायणस्तथा ।आशीर्वादान् ददुस्तत्र लोकेभ्यो मोक्षदानपि ॥४९॥लक्ष्मीनारायणसंहिताकथाश्रवणार्थिनः ।प्राप्स्यन्ति परमं मोक्षं कृपया नोऽक्षरे पदे ॥५०॥संहितेयं वेदपत्नी महाभागवती सती ।वैष्णवीश्रीः सात्त्विकी च कार्ष्णनारायणी कथा ॥५१॥सर्वतीर्थाश्रया सर्वधर्माश्रया प्रवर्तते ।सर्वदानाश्रया सर्वज्ञानाश्रया प्रमुक्तिदा ॥५२॥सर्वपुण्याश्रया सर्वसृष्टिसाध्वाश्रया वरा ।सर्वसाध्व्याश्रया सत्याश्रया कृष्णांगसंगिनी ॥५३॥सर्वनारायणयुक्ता सर्वावतारधारिणी ।सर्वदेवमयी सर्वपूजाध्यानमयी कथा ॥५४॥सर्वस्तोत्रमयी सर्ववेदबीजकथामयी ।सर्वशक्तिमयी सर्वपुमर्थादिपरायणा ॥५५॥सर्वसौभाग्यदा सर्वेषणापूरणिका कथा ।सर्वेष्टसाधिका सर्वरक्षाकरी हितावहा ॥५६॥सर्वैश्वर्यादिसंजुष्टा सर्वसिद्धिनिषेविता ।सर्वविघ्नादिहर्त्रीयं कथा विजयते भुवि ॥५७॥ये श्रोष्यन्ति तदध्यायं ते यास्यन्ति परां गतिम् ।वाचकं ये जलान्नाद्यैस्तोषयिष्यन्ति चाम्बरैः ॥५८॥धनाद्यैश्चोपकरणैस्ते यास्यन्त्यक्षरं हि नः ।इमामाद्यां सृष्टिमूलामाश्रित्य च कथास्ततः ॥५९॥प्रवर्तिष्यन्त आख्यानोपाख्यानग्रन्थकोटयः ।वेदश्चैकः परब्रह्मभाषितः संहिता तथा ॥६०॥परनारायणोक्ता च द्वितीया वेदिनी हि सा ।व्यासा नवनवा भूत्वाऽऽश्रित्य वेदं च संहिताम् ॥६१॥लिखिष्यन्ति ग्रन्थकथा रचयिष्यन्ति वार्त्तिकाः ।तत एषा मोक्षदा वै धृता स्मृता श्रुताऽविता ॥६२॥इत्युक्त्वा श्रीसंहिताया जयमुच्चार्य संगताः ।कथासमाप्तिं कृत्वैव सभाविसर्जनं तथा ॥६३॥कुर्वन् श्रीकृष्णभगवान् बद्रिके पूजनाऽऽगतम् ।यद्यत् सर्वं च तत् तत्रोत्थाय स्वयं परेश्वरः ॥६४॥दातृभ्य एव सर्वं वै प्रात्यार्पयत् प्रसादजम् ।राज्यं भूमिर्गृहक्षेत्रोद्यानवाहनयानकम् ॥६५॥स्वर्णं रौप्यं विभूषाश्च गवाश्ववाजिमण्डलम् ।तत्तद्दातृभ्य एवापि दीनेभ्यश्चापि माधवः ॥६६॥प्रसादं रूपं चाऽऽज्ञयैव प्रात्यर्पयत् प्रदातृषु ।द्विजेषु दीनवर्गेषु दानं च विधिनाऽकरोत् ॥६७॥सर्वे प्रसन्नचित्तास्ते कृष्णाज्ञया प्रजगृहुः ।कृष्णार्थं कृष्णपूजार्थं धर्मार्थं जगृहुश्च ते ॥६८॥विप्रेभ्यश्चापि साधुभ्यः साध्वीभ्यः प्रददौ हरिः ।यथापेक्षं समस्तं च ततोऽवशिष्टमेव यत् ॥६९॥तत्तत्र मन्दिरे नैजे कोटिरायादिनिर्मित्ते ।सौवर्णे माणिकीलक्ष्मीराधाप्रज्ञादिसेविते ॥७०॥आर्पयज्जीविकासिद्ध्यै क्षेत्रवाटीधनादिकम् ।जयकारं ततः सर्वे समुच्चार्य विसर्जनम् ॥७१॥सभायाः सम्प्रचक्रस्ते तदा नार्यो नरा जनाः ।सभाधुलिं पत्रपुष्पाऽक्षतान् जगृहुरुत्सुकाः ॥७२॥पतित्वोपत्य चोत्पत्य प्रसादमृत्तिकां शुभाम् ।जगृहुश्च जयनादानूचिरे मुक्तकण्ठतः ॥७३॥परिहारं विधायैव यज्ञभूमिं हरिर्ययौ ।व्यासश्च लोमशाद्याश्च ययुयज्ञालयं द्विजाः ॥७४॥राजानोऽपि ययुर्यज्ञस्थलीं योजनवर्तुलाम् ।यत्र प्रवर्तते विप्रद्वारा यज्ञक्रियादिकम् ॥७५॥अनादिश्रीकृष्णनारायणः पद्मावतीयुतः ।प्रज्ञया सहितश्चापि पतिः श्रीवल्लभः प्रभुः ॥७६॥यज्ञासने स्वर्णमये ह्युपाविवेश कर्मणे ।संकल्पं लोमशो ब्रह्मा कारयामास वै ततः ॥७७॥प्रायश्चित्तं प्रधानाख्यसंकल्पं च ततः परम् ।दिशां रक्षां कलशाराधनं गणेशपूजनम् ॥७८॥स्वस्तिप्रवाचनं पुण्याहादिप्रवाचनं ततः ।अभिषेचनमेवाथ मातृकापूजनं तथा ॥७९॥नान्दीश्राद्धं तथाऽऽचार्यद्विजादिवरणं ततः ।अर्घदानं वन्दनं च मधुपर्कं चकार च ॥८०॥वर्धिनीकलशस्थापनां च मण्डपप्रोक्षणम् ।वास्तुस्थापनमेवापि वास्तुमण्डपपूजनम् ॥८१॥सर्वतोभद्रदेवानां स्थापनं पूजनादिकम् ।यत्रदेवस्थापनं च पूजाऽग्न्युत्तारणं ततः ॥८२॥पीठपूजां कुण्डपूजामग्निस्थापनमाचरत् ।गृहस्थापनमेवाथ योगिनीस्थापनाऽर्हणे ॥८३॥क्षेत्रपालस्थापनार्हे कुण्डमेखलिकार्चनम् ।अग्नेः प्रपूजनं ग्रहार्हणाऽन्वाधानचिन्तनम् ॥८४॥आघारावाज्यभागादिहोमं चकार विश्वसृट् ।वास्तुमण्डपदेवादिहोमं चकार माधवः ॥८५॥योगिनीहोममेवापि प्रधानहोममित्यपि ।व्याहृतिहोममेवापि बलिदानं ददौ ततः ॥८६॥यूपारोपणमेवापि चक्रेऽधिवासनं ततः ।जलमातृप्रपूजां च जलपूजामकारयत् ॥८७॥शंखघण्टादिपूजां च भूतशुद्धिमकारयत् ।प्राणप्रतिष्ठां कृष्णस्य षोडशादिप्रपूजनम् ॥८८॥बलिदानं तथाऽऽहुतीन् सर्वदेवहवाँस्ततः ।महापूर्णाहुतिहोमं घृतधाराभिराचरत् ॥८९॥श्रीफलैश्च रसैः सर्वविधैश्च पायसादिभिः ।चन्दनैः फलपुष्पाद्यैश्चकार परमेश्वरः ॥९०॥नीराजनं महारार्त्रिकं चकार हरिः स्वयम् ।पुष्पाञ्जलिं ददौ सर्वयजमानाभिषेचनम् ॥९१॥ब्रह्मा व्यधात्ततः श्रेयोदानं च दक्षिणाः शुभाः ।भूयसीः स्वर्णरत्नाढ्या आशीर्वादान् ददौ ततः ॥९२॥परिहारं सवाद्यं च कारयामास विश्वसृट् ।फलानां कन्दमूलानां भोजनान्यभवँस्ततः ॥९३॥पायसादिप्रसादानां भोजनानि शुभानि च ।मुन्यन्नानां चामृतानां शाकानां पयसां तथा ॥९४॥भोजनान्यभवँस्तत्र यथायोगं च देहिनाम् ।व्रतिनां सर्वलोकानां तृप्तिर्यथायथं ह्यभूत् ॥९५॥ततः श्रीबद्रिके चाऽवभृथं सिन्धुजलेऽभवत् ।अवभृथमहातीर्थं ख्यातं तत्तु व्यजायत ॥९६॥अवभृथमहास्नाने महाश्चर्याणि चाभवन् ।बहूनि स्वर्णदिव्यानि विमानानि समाययुः ॥९७॥अनादिश्रीकृष्णनारायणाद्यधिष्ठितानि च ।ये ये त्वासन् शुद्धभावा जना मोक्षाधिकारिणः ॥९८॥नरा नार्यो निजान्देहान् त्यक्त्याऽथ दिव्यविग्रहाः ।भूत्वाऽऽरुह्य विमानानि ययुर्धामाऽक्षरं हरेः ॥९९॥ययुः केचन गोलोकं वैकुण्ठं केचनापि वै ।अव्याकृतं ययुश्चापि ययुः केचन चामृतम् ॥१००॥श्रीपुरं चापरे भक्ताः परे सत्यं दिवं ययुः ।बद्रीनाथं श्वेतधाम क्षीरधाम ययुः परे ॥१०१॥कैलासं ब्रह्मलोकं च यथाशुद्धि ययुस्तदा ।महाश्चर्यमभूत्तद्वै बद्रिके मोक्षदायकम् ॥१०२॥ततः स्वस्वावसथाँश्च ययुः कीर्तनकारिणः ।पत्तने संहितायाश्च भ्रामणं पूजनादिकम् ॥१०३॥देशेषु सार्वभौमेषु ततोऽभूत् बद्रिके बहु ।गृहे गृहे चत्वरादावापणेष्वालयेष्वपि ॥१०४॥राजद्वारे मन्दिरादौ प्रत्यंगणं प्रपूजनम् ।व्यासस्य संहितायाश्च प्रस्थापनमभूच्छुभम् ॥१०५॥आरार्त्रिकानि दानानि पूजनान्युपदास्तथा ।नैवेद्यानि प्रजायन्ते बद्रिके वै स्थले स्थले ॥१०६॥महावाद्यानि वाद्यन्ते कीर्त्यन्ते तद्यशांसि च ।कुमारिकाभिः सौभाग्यवतीभिश्च सतीजनैः ॥१०७॥पूज्यन्ते नागरिकाभिः राज्ञीभिर्गृहिणीजनैः ।शर्करानगरे चैवं राजद्वारे च मन्दिरे ।१०८॥प्रप्रतिष्ठापनं सम्यग् विधाय मण्डपालयम् ।संहिताया आनयनं जातं महोत्सवेन ह ॥१०९॥गजवाजिविमानानां वाहनानां च सर्वथा ।नरयानोत्तमानां च सम्मर्दोऽभूद् दिवं यथा ॥११०॥दर्शनं पुण्यदं तस्य स्मरणं पुण्यदं ह्यपि ।चिन्तनं पुण्यदं बद्रि ध्यानं तस्य तु मोक्षदम् ॥१११॥एवं समुत्सवं सर्वेऽवलम्ब्य भुवि भूमिपाः ।करिष्यन्ति महायज्ञान् दानविधीन् तथोत्तमान् ॥११२॥पठनाच्छ्रवणादस्य मोक्षः स्यान्नात्र संशयः ।सकामानामिष्टलब्धिर्भवेदेव न संशयः ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने आषाढशुक्लैकादश्यां संहितापारायणसमाप्तौ श्रीकृष्णनारायणेन देवै राजभिः प्रजाभिः सर्वसृष्टिदेहिभिः संहिताया व्यासस्य गुरोः साधूनां साध्वीनां द्विजानां महर्षीणां च कृतपूजनोपदार्पण्याऽऽ-रार्त्रिकादिकं स्वस्वगृहालयमन्दिरसौधादौ भ्रामणं प्रप्रतिष्ठानं चेत्यादिनिरूपणनामा ऽष्टसप्ततितमोऽध्यायः ॥७८॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP