संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९७ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि भगवान् भूतभावनः ।कुंकुमवापिकाक्षेत्रे यदागमत् तदा द्रुतम् ॥१॥विमाने यानि रूपाणि पत्नीनां द्वैतवन्ति च ।तानि सर्वाणि तत्रैव तिरोभावयदच्युतः ॥२॥विमानस्थानि रूपाणि भूस्थेष्वाविविशुस्तदा ।दासदासीस्वरूपाणि भूस्थेष्वाविविशुस्तथा ॥३॥लोमशादेः स्वरूपाणि भूस्थेष्वाविविशुस्तदा ।द्वैतभावे विलीने च निजरूपे हरिः स्वयम् ॥४॥एकभावं गतस्तत्र विमानं चाऽणुतां गतम् ।रत्नभूषाम्बरहारा उपदाः स्वर्णशोभनाः ॥५॥सर्वा यथायथं कृष्णो ददौ योग्येभ्य एव च ।विप्रेभ्योऽनाथदीनेभ्यः श्रीभ्यो ददुर्यथायथम् ॥६॥चातुर्मास्यमुवासाऽपि हरिः कुंकुमपत्तने ।त्रयोविंशं हरेर्जन्मदिनं प्राप्तं शुभप्रदम् ॥७॥प्रातरेव कृतस्नानोऽष्टम्यामूर्जस्य चाऽसिते ।कृतशृंगारकः कृष्णोवल्लभोऽयात् स्वसंसदि ॥८॥तदा वाद्यान्यवाद्यन्त गीतयश्चाभवन् शुभाः ।नर्तनानि विचित्राणि देवतानां तदाऽभवन् ॥९॥सर्वोत्कृष्टा सभा पूर्णा सर्वसूष्टिनिवासिभिः ।जाता सा बद्रिके तत्र लोमशः समुपाययौ ॥१०॥पुपूज परमात्मानं चिरं जीवेति चाह तम् ।श्रीमद्गोपालकृष्णाद्याः पुपूजुः परमेश्वरम् ॥११॥अवतारा ईश्वराश्च मुक्ताः सिद्धाः सुरास्तथा ।ऋषयः पितरो देवा मानवाश्च नराः स्त्रियः ॥१२॥पुपूजुः कम्भरालालं चाशीर्वादान् ददुस्तदा ।आरार्त्रिकं व्यधुः सर्वे महोत्सवमकारयन् ॥१३॥प्रज्ञापद्मावतीलक्ष्मीराधाद्याश्चक्रुरुत्सवम् ।अतलादिनिवासाश्च दैत्यदानवराक्षसाः ॥१४॥नागाः सर्पा भोगिनश्चार्थयामासुर्हरिं प्रति ।भगवन् पावयाऽस्मान् स्वान् पातालादीनि दर्शनात् ॥१५॥तथाऽस्त्विति हरिः प्राह भोजयामास तान् हरिः ।महीमानान् समस्ताँश्च विदायं प्रददावपि ॥१६॥ययुः सर्वे निजलोकान् कृष्णः पातालवासिभिः ।सह गन्तुं समियेष सर्वपूर्वानुगैर्युतः ॥१७॥सर्वस्त्रीदासदास्यादियुतश्च लोमशान्वितः ।स्वतःप्रकाशप्रभृतिमुनिभिः साधुभिर्युतः ॥१८॥हेमन्ताद्यैः पार्षदैश्च युतो द्वेधा समस्तकः ।सर्वरूपोऽभवत् कृष्णो द्वेधा वेषादिभूषितः ॥१९॥विमानं यदणु त्वासीन्महत्तत् तत्र संव्यधात् ।सर्वान् संस्थाप्य सर्वाश्च तत्र कुंकुमक्षेत्रके ॥२०॥सर्वान् सर्वाः सह नीत्वा चैकादश्यां विमानके ।आरुरोह ससार्थाढ्यो हरिर्गोपालनन्दनः ॥२१॥सुपर्णवासुकिशंकुकर्णनमुचिभिः सह ।विमानमैरयत्तूर्णं शृण्वन् हर्षजयध्वनीन् ॥२२॥अतले तु सुपर्णस्य सौधवर्ये महाप्रभुम् ।सुपर्णाद्या हरिं तत्र पुपूजुः परमादरात् ॥२३॥महाराज्ये च सर्वत्र भ्रामयित्वोपदा ददुः ।मणिरत्नानि बहूनि भोजनान्युत्तमानि च ॥२४॥यक्षा दैत्या दानवाश्च नामुचेया नरायणम् ।पुपूजुः परया प्रीत्या मनुं हरेश्च जगृहुः ॥२५॥विदायं प्रददुश्चापि मार्गशीर्षे ततो हरिः ।प्रययौ वितलं लोकं विमानेन द्रुतं प्रयुः ॥२६॥जम्भकश्चापि प्रह्लादः कम्बलश्चेति ते तदा ।स्वागतं श्रीहरेश्चक्रुर्बहुमानपुरःसरम् ॥२७॥दैत्या भक्ता भक्तिमन्तो पुपूजुः परमेश्वरम् ।प्रह्लादो रक्षयामास प्रभुं मासान्तमेव ह ॥२८॥स्वगृहे निजराज्ये च भ्रामयामास सर्वशः ।दैत्यानां काटयः कृष्णं निन्युर्निजालयानपि ॥२९॥सस्त्रीकं सर्वसार्थाढ्यं कृष्णं पुपूजुरादरात् ।दैत्यस्त्रियो दीनचित्ता लक्ष्म्यादीरार्चयन्मुदा ॥३०॥ददू रत्नानि बहूनि मणीन् श्रेष्ठाँश्च वै तदा ।भोजनानि ददुश्चापि विदायं प्रददुस्ततः ॥३१॥पौषमासे ययौ कृष्णः सुतलं लोकमुत्तमम् ।विरोचनगृहे तत्रोवास श्रीपतिरीश्वरः ॥२२॥दैत्याः कृष्णं बहुप्रीत्या पुपूजुश्चोपदादिभिः ।भोजयामासुरत्यर्थं सिषेविरेऽर्बुदा जनाः ॥३३॥पुपूज शतसाहस्रो गणो हालाहलाभिधः ।दानवानामर्बुदानि पुपूजुः श्रीपरमेश्वरम् ॥३४॥विप्रचितिप्रधानास्ते हरये चोपदा ददुः ।शंकुकर्णादयश्चापि निन्युर्नारायणं गृहम् ॥३५॥हयग्रीवादयश्चापि पुपूजुर्माधवीपतिम् ।शारभाः शाम्बराश्चापि पुपूजू राधिकेश्वरम् ॥३६॥कालनाभादयो दशसहस्राणि तु भूभृतः ।पुपूजुः कमलाकान्तं हिरण्यपुरवासिनः ॥३७॥कालकेया दानवाश्च निन्युर्नारायणं गृहम् ।पुपूजुश्चापि दानव्यो भोजयामासुरीश्वरम् ॥३८॥ददौ तेभ्यो हरिर्मन्त्रं 'श्रीहरिः शरणं मम' ।विदायं गृह्य सं माघे तलातलमुपाययौ ॥३९॥वैनतेयालये वासं चकार भगवान् स्वयम् ।वैनतेया हरिं सार्थयुतमानर्चुरादरात् ॥४०॥गरुत्मता चतुर्दशसहस्राणि तु भूभृताम् ।हरिं निन्युर्निजराज्येष्वानर्चुर्मणिभूषणैः ॥४१॥कालनेम्यादयश्चापि दैत्येशा ललितापतिम् ।निन्युर्निजप्रदेशेष्वानर्चुः सरस्वतीश्वरम् ॥४२॥कोटिशोऽपि तथा देवराक्षसा निजराष्ट्रके ।निन्युः श्रीभूपतिं कृष्णं पुपूजुः परमादरात् ॥४३॥उपदाश्च प्रददुस्ते तेभ्यो ददौ मनुं हरिः ।नामधुन्यं ददौ चापि विदायं जगृहे ततः ॥४४॥फाल्गुने श्रीहरिर्नैजविमानेन महातलम् ।उपाययौ च तत्रापि मुचुकुन्दादिमन्दिरे ॥४५॥उवास भगवाँस्तस्य सेवां जग्राह भाववित् ।अनन्ताद्या महासर्पाः कामरूपधराः सुराः ॥४६॥पुपूजुः परमेशानं सेवयामासुरादरात् ।उपदाश्च ददुः श्रेष्ठा मणिरत्नात्मिका मुदा ॥४७॥भोजयामासुरत्यन्तं दिव्यान्नानि बहून्यपि ।आरार्त्रिकं प्रचक्रुश्च विदायं प्रददुस्ततः ॥४८॥चैत्रेऽनादिकृष्णनारायणो रसातलं ययौ ।बलेर्गृहे निवासं स्वं चकार तेन पूजितः ॥४९॥वामनेनेडितः कृष्णो रसाराज्यानि सर्वशः ।बभ्राम सर्वदेशेषु भक्तानां मोक्षकांक्षया ॥५०॥राजाधिराजवद् राजा बलिर्नारायणं हरिम् ।पुपूज मानयामास भोजयामास मिष्टकम् ॥५१॥विदायं प्रददौ चापि ततोऽन्ये दैत्यपुंगवाः ।राक्षसास्तारकाद्याश्च हिरण्याक्षास्तथाऽपरे ॥५२॥कोट्यर्बुदाधिका नित्युर्नारेश्वरं निजालयान् ।पूजयामासुरत्यन्तं सर्वस्वदानकैर्हरिम् ॥५३॥तन्मन्त्रं जगृहुश्चापि विदायं प्रददुस्ततः ।वैशाखे श्रीकृष्णस्वामी पातालं समुपाययौ ॥५४॥तत्रत्याः शेषजातीया सर्पा नारायणं गृहे ।ररक्षुर्बहुमानाद्यै पूजयामासुरुत्सुकाः ॥५५॥अन्ये सर्वे महासर्पाः सर्वकामस्वरूपिणः ।नागिन्यश्च महादेव्यो हरिं लक्ष्मीः सिषेविरे ॥१६॥अनन्तः फुलिकश्चापि वासुकिस्तक्षकस्तथा ।कर्कोटको महापद्मः शङ्खपालादयोऽपि च ॥५७॥निन्युर्नारायणं नैजराज्येष्वानर्चुरुत्सुकाः ।पुपूजुर्मणिरत्नाद्यै सेवयामासुरत्यति । ॥५८॥भोजयामासुरीशेशं विदायं प्रददुस्ततः ।हरिर्मन्त्रं ददौ तेभ्यस्ततो विमानमास्थितः ॥५९॥वाद्यघोषादिभिश्चोत्तेजितः सम्मानितो ह्यति ।क्षीरसागरमध्ये वै यत्र शेषासनो हरिः ॥६०॥आययौ तत्र भगवान् महोत्साहभरः प्रभुः ।ज्येष्ठे मासे हरिं शेषासनो विष्णुः पुपूज ह ॥६१॥पायसै रससारैश्च भोजयामास वै मुदा ।लक्ष्मीः समस्तलक्ष्मीनां सेवां चकार भावुकी ॥६२॥मणिरत्नानि विष्णुर्वै नारायणाय संददौ ।विदायं प्राप्य भगवान् श्वेतद्वीपमुपाययौ ॥६३॥आषाढे कमलाकान्तः प्रज्ञानारायणं हरिम् ।ररक्ष पूजयामास भोजयामास चाऽमृतम् ॥६४॥सिषेविरेऽति बहुधा कमलाः कमलादिकाः ।विदायं जगृहे कृष्णो विमानेन ततः परम् ॥६५॥श्वेतमुक्तेभ्य ईशेशो मनु ददौ निजं परम् ।प्रेषयामास वै धामाऽक्षरं निजं च तानथ ॥६६॥विमानेनाऽऽययौ तूर्णं श्रावणे बद्रिकाश्रमम् ।नरनारायणावावां यूयं बद्र्यस्तथर्षयः ॥६७॥तन्वाद्यास्तापसा नद्य हिमाद्रिस्तीर्थमण्डलम् ।अपूपुजाम सर्वेशं बह्वादरसमन्विताः ॥६८॥पादजलं पपुः सर्वे ददुर्महोपदाः शुभाः ।हरिस्तत्र मासमात्रमुषित्वा भाद्रमासि वै ॥६९॥आययौ स्वविमानेन वाराणसीं शुभां पुरीम् ।तीर्थं कृत्वा धेनुपालं नृपं वीक्ष्य ततः परम् ॥७०॥प्रयागराजे संस्नात्वा भारद्वाजं प्रणम्य च ।द्रुतं सौराष्ट्रदेशे स्वमाययौ चाक्षरीं भुवम् ॥७१॥द्वैतरूपणि सर्वाणि तिरोभावयदच्युतः ।एकरूपस्ततो भूत्वाऽऽविवेश निजमन्दिरम् ॥७२॥कुंकुमवापिकाक्षेत्रे विरराम निजालये ।एवं बद्रीप्रिये सर्वपातालानां पवित्रता ॥७३॥विधत्ता हरिणा नैजकृपया मोक्षिता जनाः ।अथोर्जकृष्णपक्षस्याऽष्टमी जन्मजयन्तिका ॥७४॥हरेस्तिथिर्मंगलाढ्या चतुर्विंशा समागता ।प्रातः स्नात्वा कृतसर्वशृंगारः कुंकुमेश्वरः ॥७५॥मण्डपे चाययौ नैजे गजासने सुशोभिते ।उपाविबेश मुनिभिः पूजितः कृतमङ्गलः ॥७६॥लोमशस्तिलकं चन्द्रं कृष्णभालेऽक्षतान्वितम् ।कौंकुमं सुभगं चक्रे पुपूजाऽऽशीःपरायणः ॥७७॥पिता माता भ्रातरश्च महर्षयः सुरेश्वराः ।पुपूजुः परमात्मानं मुक्ता मुक्तानिकास्तथा ॥७८॥ईश्वरा अवताराश्च ह्याशीर्वादपरायणाः ।पितरो यक्षगन्धर्वाः किंपुमांसश्च किन्नराः ॥७६॥देवाश्च दानवाः सिद्धाः साध्व्यः सूताश्च चारणाः ।द्विजा नृपाः श्रेष्ठिनश्च दासाः पुपूजुरच्युतम् ॥८०॥देव्यः सरांसि सरितस्तीर्थानि देवमातरः ।लोकपाला दिशांपालाः पुपूजुः परमेश्वरम् ॥८१॥अतलादिनिवासाश्च भूवासा मानवाः प्रजाः ।नरा नार्यो हरिकृष्णमर्चयामासुरुत्सवे ॥८२॥उपदाश्च न्यधुर्दिव्या हररेग्रे सुवर्णजाः ।मणिरत्नादिरूपाश्च चिरं जीवेति ते जगुः ॥८३॥आरार्त्रिकं प्रचक्रुश्च प्रसादं जगृहुस्ततः ।परिहारं सभायाश्चाकरोच्छ्रीलोमशस्ततः ॥८४॥महीमानान् समस्ताँश्च भोजयामास लोमशः ।दत्वा दानानि बहूनि विदायं प्रददौ ततः ॥८५॥सप्तद्वीपनृपाद्याश्च समागन्तुं निजालयान् ।प्रार्थयामासुरत्यर्थं हरिं सर्वसमन्वितम् ॥८६॥तथाऽस्त्विति प्राह तांश्च ततोऽन्ये प्रययुर्मुदा ।निजलोकान्निजदेशान् सप्तद्वीपेतरस्थिताः ॥८७॥अथ श्रीभगवान् प्राप्ते त्वेकादशीदिने निजान् ।दासीदासान् प्रमदाश्च सज्जीचकार पूर्ववत् ॥८८॥विमाने स्वे विधायैव द्वेधारूपाणि तानि वै ।न्यषादयत् समस्ताँश्च नारीनरात्मकान् हरिः ॥८९॥वाद्यघोषैर्जयनादैरम्बरे स्वविमानके ।अनादिश्रीकृष्णनारायणः समारुरोह च ॥९०॥लोमशाद्याः ऋषयश्च ब्रह्मप्रियादियोषितः ।आरुरुहुविमानं च सप्तद्वीपान् विलोकितुम् ॥९१॥नवद्वीपेश्वराश्चापि स्वस्वविमानमास्थिताः ।स्वागतार्थं ययुस्ते तु पुरतः श्रीहरेस्तदा ॥९२॥स्वस्वदेशान्नगराणि प्रासादान् समशोभयन् ।शृंगारितान् रम्यरूपानकारयन्मुदान्विताः ॥९३॥सेवौपयिकीः सरसाः सामग्रीः प्रत्यपादयन् ।मण्डपान् सुभगाँश्चापि सभास्थानान्यकारयन् ॥९४॥गोपुराणि सप्रभाणि दीपतोरणभाञ्जि च ।अकारयन्नृपास्ते च प्रजाः शोभा अवर्धयन् ॥९५॥जम्बूद्वीपेऽपि च ये ते खण्डेश्वरा हरिं मुदा ।संप्रार्थयन् पुरा नैजान् खण्डान् पावयितुं ततः ॥९६॥हरिस्तथाऽस्त्विति प्राह ते च सर्वे तदाज्ञया ।पुरैव प्रययुर्नैजान् खण्डान् शृंगारहेतवे ॥९७॥पृथ्व्यां सर्वत्र चोद्घोषः सुमहान् समजायत् ।अनादिश्रीकृष्णनारायणश्चायाति सृष्टिपः ॥९८॥दर्शनीयः स भगवान् पापहा दुःखहा प्रभुः ।अर्चनीयो वन्दनीयो हरिर्गोपालनन्दनः ॥९९॥इत्येवं बद्रिके भूमौ प्रतीक्षन्ते समुत्सुकाः ।अद्य वा श्वः परश्वो वाऽऽगमिष्यति नरायणः ॥१००॥बालकृष्णोऽथ भगवान् प्रादक्षिण्येन वर्त्मना ।विमानमैरयत्तूर्णमम्बरे पश्चिमोत्तरम् ॥१०१॥इति श्रीलक्ष्मीनरायणीयसहितायां चतुर्थे तिष्यसन्ताने त्रयोविंशजन्मोत्सवोत्तरम् अतलादिसप्तपातालेषु तत्तद्राजन्यप्रजादि पावयित्वा क्षीरोदधिं श्वेतद्वीपं बद्रिकाश्रमं पावयित्वा च भगवान् कुंकुमवापीमागत्य चतुर्विंशतितमं स्वजन्मदिनोत्सवं चकारेत्यादिनिरूपणनामा सप्तनवतितमोऽध्यायः ॥९७॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP