संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११० Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि नागविक्रमभूभृतः ।भृत्यादीनां प्रार्थनोर्ध्वं यदभूत् तद् वदाम्यहम् ॥१॥अनादिः श्रीकृष्णनारायणाऽऽर्यः कृष्णमाधवः ।प्रत्युवाच तु तद्भृत्यान् यथार्थं वै शुभं वचः ॥२॥नाऽयं राजा प्रमत्तोऽस्ति नोन्मत्तो न विचित्तकः ।नापि भूतपिशाचाभिभववान् नाभिचारवान् ॥३॥मद्भक्तो मत्प्रतापेन समाधौ मां निजाऽक्षरे ।धाम्नि राजाऽधिराजं स व्यलोकयत् प्रियायुतः ॥४॥दिव्यं मां दिव्यधामाऽपि सर्वाश्च दिव्यसम्पदः ।वीक्ष्य दिव्यविभूतीश्च दिव्यतां प्राप्तवान् हि सः ॥५॥दिव्यदृष्टिर्दिव्यकर्मा दिव्यधर्माऽस्ति साम्प्रतम् ।दिव्यभावमयश्चास्ते दिव्याऽन्तःकरणेन्द्रियः ॥६॥न तस्य रोचते मायामयं चेदं सकल्मषम् ।औदासीन्यं गतश्चास्ते पश्यत्येतत्तु नश्वरम् ॥७॥निरयाख्यं समस्तं वै ब्रह्माण्डं स प्रपश्यति ।राज्यं नैजं च भूम्यादि सर्वं पश्यति कर्दमम् ॥८॥अशुद्धं चापि विकृतं क्लेदाढ्यं संप्रपश्यति ।विदेह इव चास्तेऽसौ जीवन्मुक्तो जितेन्द्रियः ॥९॥प्रत्याहृतान्तःकरणः सस्त्रीको मुक्तवत् स्थितः ।ततोऽसौ योगिवद्भूमौ वर्तते हृतवासनः ॥१०॥व्रह्मदशां समारूढो वर्तते मायिकात्परः ।अमायिकोऽयं सञ्जातो मत्समाधेर्मदात्मकः ॥११॥सनकादिसमश्चास्ते शिवतुल्यो विरागवान् ।मा शोचन्तु महाभाग्यं दिव्यं नृपं ततोऽनुगाः ॥१२॥अस्य दिव्यतया सन्ति नावरणानि कानिचित् ।भूमौ जलेऽनले पारं गन्तुं शक्तोऽणुसिद्धिमान् ॥१३॥स्वर्गे सत्ये च वैराजे वैकुण्ठे गन्तुमीश्वरः ।नाऽस्य राज्यं न वै भृत्या बाधितुमीश्वरास्त्विह ॥१४॥ततोऽयं वर्तते योगिस्थित्या योगीश्वरो यतिः ।सती तद्धर्मभार्याऽपि तथैव वर्तते परा ॥१५॥भवतां प्रत्ययार्थं तं प्रेरयामि समक्षगम् ।सान्त्वयितुं भवतश्च कृतयत्नो यथा भवेत् ॥१६॥इत्युक्त्वा बद्रिके कृष्णनारायणमहाप्रभुः ।राजानं प्रेरयामास भृत्यादिशोकनुत्तये ॥१७॥शृणु राजँस्तव भृत्यादयः शोचन्ति ते कृते ।तान् विज्ञापय वृत्तान्तं नैजं यथार्थमुज्ज्वलम् ॥१८॥इत्येवं बद्रिके प्रोक्तो राजा तु नागविक्रमः ।स्बभृत्यादीन् समुवाच विरागिणीं निजां स्थितिम् ॥१९॥शृण्वन्तु भृत्यवर्गाद्याः! कुर्वन्तु च मयोदितम् ।हितं वदामि सर्वेषां प्राप्तं दिव्यं मया धनम् ॥२०॥अयं वै भगवान् साक्षाच्छ्रीपतिः पुरुषोत्तमः ।अक्षरेशोऽवताराणां धर्ता प्राप्तो मया त्विह ॥२१॥मद्योगेन भवद्भिश्च प्राप्तः श्रीपतिवल्लभः ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥२२॥तत्प्रतापेन साम्राज्यं प्राप्तं मया विशालकम् ।तत्प्रतापेन दिव्या च दृष्टिं स्थितिं गतोऽस्मि च ॥२३॥अक्षरं परमं धाम तत्प्रतापेन वै मया ।वीक्षितं च समाधौ वै दिव्यर्द्धयो विलोकिताः ॥२४॥यदग्रे चेश्वराणां वै स्मृद्धयो निरयोपमाः ।ततः किमुत देवानां सुतरां मानवर्द्धयः ॥२५॥मायामय्यः स्मृद्धयस्ता निरया एव सन्ति वै ।न रोचन्ते मम त्वेताः स्मृद्धयो मलिना यतः ॥२-६॥हरेर्दिव्यस्य योगेन प्राप्तोऽहं दिव्यतां पराम् ।भवन्तोऽपि हरेर्योगाद् गृह्णन्तु दिव्यतां पराम् ॥२७॥शाश्वतं परमानन्दं गृह्णन्त्वनादिमाधवात् ।त्यजन्तु वासनासैन्यं निरयं भौतिकं गृहम् ॥२८॥हरेः राज्यं समस्तं वै ब्रह्माण्डानां परं तथा ।समस्तं श्रीहरेः राज्यं न मे राज्यं मनागपि ॥२९॥मुक्तिराज्यं समिच्छामि भुक्तिराज्यं न रोचते ।ततो भवन्तो भृत्याद्याः कृष्णं श्रयन्तु सत्पतिम् ॥३०॥त्यक्तभोगसुखा नित्यानन्दा भवन्तु केशवे ।अध्रुवं मा च वल्गन्तु वल्गन्तु परमेश्वरम् ॥३१॥मृतस्य राजदेहस्य न राज्यं न धनं गृहम् ।आत्मनस्तु प्रमुक्तस्य महाराज्यं पराऽक्षरम् ॥३२॥विचार्येत्थं चार्पयामि समस्तं परमात्मने ।दिलावरीमहाराज्यं चार्पयामि परात्मने ॥३३॥वैराग्यं प्राप्तवानस्मि सपत्नीको न संशयः ।भूत्वा दासो हरेः साधुः सेविष्येऽत्र गुरुं हरिम् ॥३४॥राज्यं ददामि हरये येन दत्तं पुरा तु मे ।स एव सर्वमवतु नाऽहं राज्यं प्ररोचये ॥३५॥इत्युक्त्वा भृत्यवर्गेभ्यो राजा वै नागविक्रमः ।हस्ते जलं समादाय राज्यं कृष्णाय चाऽऽर्पयत् ॥३६॥सर्वेषां पश्यतां कृष्णपादयोर्निपपात सः ।विहाय राजचिह्नानि कृष्णपादरजोऽगिलत् ॥३७॥राज्ञी चापि तथा चक्रे कृष्णपादरजांसि वै ।जिह्वया लेहयामास कृष्णपादतलं तथा ॥३८॥आश्चर्यं परमं प्रापुः भृत्याद्यास्ते नृपाऽनुगाः ।मत्वैव धन्यभाग्यानि ववन्दिरे हरिं तदा ॥३९॥प्रशशंसुर्नृपं चापि मोक्षमार्गप्रयायिनम् ।सर्वे भृत्यादयश्चापि त्यागमार्गं प्रपेदिरे ॥४०॥निपत्य श्रीहरेरग्रे नृपवच्चक्रिरे च ते ।निजार्पणं हरेरग्रे त्यागार्थं प्राकृतस्य वै ॥४१॥अथ श्रीभगवान् राज्ञे ददौ दीक्षां तु साधवीम् ।नाम कृष्णो ददौ तस्य त्रिविक्रमायनो मुनिः ॥४२॥राज्ञ्या नाम चकाराऽपि कृष्णः श्रीमालिकायनी ।त्रिविक्रमायनः साधुः साध्वी श्रीमालिकायनी ॥४३॥पुपूजतुः परात्मानं स्वामिकृष्णनरायणम् ।गुरुं चान्ये बद्रि सर्वे भृत्याः सहस्रसंख्यकाः ॥४४॥साधुदीक्षां जगृहुश्च त्यागाश्रमे स्थितास्तदा ।सर्वे त्यागं समाश्रित्य भेजुः श्रीकान्तवल्लभम् ॥४५॥नार्यो दास्यश्च यास्ता वै साध्वीदीक्षां प्रपेदिरे ।सहस्रसंख्यका नार्यः साध्व्यस्तत्राऽभवँस्तदा ॥४६॥दिव्यभावा दिव्यदेहाः समस्तत्यक्तवासनाः ।अश्वपट्टसरःक्षेत्रे न्यवसँस्ते तथाविधाः ॥४७॥स्वतःप्रकाशो भगवान् स्वाश्रमे तान्न्यवासयत् ।ते भेजुः परमात्मानं सिषेविरे पतिं प्रभुम् ॥४८॥श्रुत्वा पृथ्व्यां जनाः सर्वे महाश्चर्यं प्रपेदिरे ।राजानश्चापि चाश्चर्यं प्रापुर्वै त्यागगोचरम् ॥४९॥इत्येवं बद्रिके तत्र राजा वै नागविक्रमः ।त्यागाश्रमं त्वाविवेश सस्त्रीसैन्यानुगः क्षणात् ॥५०॥तपस्तेपे हरेः क्षेत्रे भेजे श्रीमाधवीपतिम् ।सिषेवे श्रीप्रभुं नाथं ब्रह्मस्थित्या हि वर्तयन् ॥५१॥अथ श्रीभगवान् बद्रि प्राह त्रिविक्रमायनम् ।दिलावरीमहाराज्यं कस्मै देयं वदाऽत्र मे ॥५२॥मुनिः प्राह हरे राज्यं भवता मयि योजितम् ।भवतस्तत्, न मे राज्यं यथेष्टाय निवेदय ॥५३॥पुत्रोऽयं भवतः कृष्ण त्वत्समो राजते प्रभुः ।मुकुन्दविक्रमो नाम्ना चक्रवर्तिगुणान्वितः ॥५४॥दक्षहस्ततले तस्य चक्रचिह्नं विराजते ।राज्ययोग्यो भवत्येषस्तस्मै चेच्छसि देहि वै ॥५५॥एवं त्वभिहिते तत्र साधु साध्विति चाभितः ।वाचोऽभवन् हर्षयुक्ता नारीनराऽभ्युदीरिताः ॥५६॥मुकुन्दविक्रमस्याऽर्थे जयशब्दस्तदाऽभवन् ।श्रीकृष्णस्य सुताः पुत्र्यः पत्न्यश्चापि तथाऽवदन् ॥५७॥मुकुन्दविक्रमो राजा ज्येष्ठपत्न्यग्रजः सुतः ।सर्वज्येष्ठतमस्तस्माद् राज्यमर्हति शोभनम् ॥५८॥एवं वाचोऽभवन् बद्रि मंगलाः सर्वतोदिशः ।ओमित्येवं हरिश्चापि मेने तथ्यां मुनेर्मतिम् ॥५९॥सा वार्ता प्रासरत् तूर्णं कुंकुमपत्तनेऽभितः ।आक्षरे परमे क्षेत्रे सौराष्ट्रेऽपि गृहे गृहे ॥६०॥आजनाभे तथा खण्डे खण्डेष्वन्येष्वपि ध्रुवा ।स्वर्गे सत्ये च पाताले सर्वलोकेषु सत्वरम् ॥६१॥नागविक्रमनृपतिस्त्यागिनां जगृहे भुवि ।मुकुन्दविक्रमो राजा चक्रवर्ती भविष्यति ॥६२॥हरेः पुत्रो हरेरंशो दिलावरीश्वरोऽधुना ।हास्तिनीनगरीस्वामी हैमखण्डे भविष्यति ॥६२॥मुक्तिबालेश्वरी तस्य सहजा यमलोद्भवा ।सम्राज्ञी तत्प्रिया राज्यमाता श्रेष्ठा भविष्यति ॥६४॥इत्येवं भूतलादौ वै प्रावर्तत जने जने ।महामंगलवार्तेयं कृष्णस्मरणकारिणी ॥६५॥उत्सवाश्चाप्यजायन्त वाद्यकीर्तननर्तनैः ।नारीणां वेषशृंगारैर्मानवानां गृहे गृहे ॥६६॥अथ श्रीबद्रीकेऽनादिः कृष्णनारायणः प्रभुः ।चन्द्रं तु सन्मुखं वीक्ष्य मुहूर्ते बलवत्तमे ॥६७॥दिलावरीं प्रति गन्तुमाज्ञां ददौ निजात्मजान् ।मुकुन्दविक्रमो ज्येष्ठपुत्रो राजा भविष्यति ॥६८॥तदुत्सवे विमानैश्च युगलानि प्रयान्तु वै ।मम पत्न्यः समस्ताश्च यावन्ति यमलान्यपि ॥६९॥दासा दास्यो भृत्यवर्गा दिलावरीं प्रयान्तु वै ।लोमशश्च तथा योगी सार्थः प्रकाशकायनः ॥७०॥त्रिविक्रमायनश्चापि तथाऽन्ये साधवो जनाः ।महर्षयश्च ऋषयो मुनयो वेदपारगाः ॥७१॥कर्मठा वैष्णवा विप्रा दिलावरीं प्रयान्तु वै ।एवमाज्ञाप्य भगवान् प्रेषयमास प्राक तु तान् ॥७२॥पार्षदैश्चापि भूखण्डे प्रेषयामास पत्रिकाः ।स्वर्गे सत्ये च पाताले चतुर्दशस्तरेष्वपि ॥७३॥प्रेषयामास विज्ञप्तिपत्रिकां मंगलावहाम् ।ईश्वरान् सिद्धसाध्याँश्च पितॄन् सुराँश्च मानवान् ॥७४॥दिक्पालान् लोकपालांश्च यक्षराक्षसकिन्नरान् ।किम्पुरुषाँश्चारणाँश्च विद्याध्रान् दैत्यदानवान् ॥७५॥अप्सरसो ब्रह्मसरसश्च साध्वीः सतीस्तथा ।योगिनीः शक्तिदेवीश्च देवताश्च तथेश्वरीः ॥७६॥विज्ञप्तिपत्रिकाः कृष्णः प्रेषयामास सर्वशः ।धामधामादिमुक्ताँश्च मुक्तानिकास्तथा प्रभून् ॥७७॥आह्वयामास भगवान् कुंकुमपत्रिकादिभिः ।भक्तान्नृपान् समस्ताँश्चाऽपरान् खण्डान्तरेश्वरान् ॥७८॥द्वीपेश्वरान् भूभृतश्चाह्वयामास हरिस्तदा ।श्वशुरान् निजपुत्राँश्च तत्तद्धामगृहस्थितान् ॥७९॥आह्वयामास भगवान् दिलावरीपुरीं प्रति ।अथ श्रीभगवान् मात्रापित्रा पुत्रादिभिः सह ॥८०॥पत्न्यादिभिश्च सहितो विमानेन हि सत्वरम् ।ययौ दिलावरीं राजधानीं हैमभुवां शुभाम् ॥८१॥मण्डपं कारयामास दशयोजनमुत्तमम् ।सौवर्णं चाऽनुयमुनं दिव्यरत्नादिराजितम् ॥८२॥दिव्यादिव्यनृपवर्गसिंहासनादिसंयुतम् ।मुनिमहर्षिमुक्ताद्यासनपंक्त्याद्यलंकृतम् ॥८३॥सर्वसिद्धिमयं सर्वराजस्मृद्धिप्रपूरितम् ।सर्वदृश्यमहादृश्यशस्त्रास्त्रपुत्तलाऽन्वितम् ॥८४॥सर्वरंगावलिशोभं कल्पलताद्रुवेषितम् ।विद्युत्प्रकाशभाव्याप्तं दिव्याऽऽदर्शादिशोभनम् ॥८५॥दिव्यपरीदेवताभिः करमालाभिवर्धितम् ।दिव्यास्तरणभूभागं दिव्यतोरणराजितम् ॥८६॥बहुव्योमान्तरकक्षानारीवृन्दविलासितम् ।गन्धसुगन्धसुरभिव्याप्तं सुस्पर्शवातिनम् ॥८७॥सर्वपानादिसंक्लृप्तं सर्वसेवकवेत्रिणम् ।सर्वमंगलपद्मादिस्वस्तिकादिसुशोभितम् ॥८८॥रंगवल्लीवितानाद्यैर्मालाहारालिराजितम् ।दिव्ययन्त्रध्वनिरम्यं गीतिगायनहर्षितम् ॥८९॥वाद्यसुवाद्यगान्धर्वगणनृत्यादिहृद्धरम् ।मनोहरं समस्ताभिर्विश्वकर्मकलादिभिः ॥९०॥वह्निकुण्डादिभिर्देवासनोत्तमैर्विराजितम् ।आभिषेकोपकरणैः पूजाद्रव्यैः समन्वितम् ॥९१॥हव्यैर्विविधैर्दानाद्यैः सम्पूर्णं साधनादिभिः ।राजविधिमहाद्रव्यैर्युक्तं वेषादिभिस्तथा ॥९२॥राज्याभिषेकोपकरणाद्यैः समन्वितं शुभम् ।स्वर्णरत्नविभूषाद्यैर्नृपयोग्यसुवस्तुभिः ॥९३॥छत्रचामरवेत्राद्यैः पादपीठादिसंकुलम् ।सौवर्णकलशैस्तीर्थजलभृतैर्विराजितम् ॥९४॥मिष्टान्नफलपत्राद्यैः समित्कुशादिभिर्युतम् ।दिव्यचन्दनवर्यैश्च गन्धसारैः सुगन्धितम् ॥९५॥राजाधिराजशोभाढ्यं संकल्पसिद्धवस्तुदम् ।चैत्यचेतनधिष्ण्यैश्च लक्ष्यसंख्यैर्विराजितम् ॥९६॥महासिंहासनराजन्मध्यपश्चिमपीठकम् ।एतादृशं सुवैकुण्ठप्रभं दिव्यं हि मण्डपम् ॥९७॥कारयामास भगवान् धामयुक्तकलाकरैः ।तथैव भोजनानां च पर्वतान् मिष्टसद्रसान् ॥९८॥पयोऽमृतादिपानानां सरांसि चाप्यकारयत् ।आवासान् क्लृप्तयामास सुखशय्यादिशोभनान् ॥९९॥पानभोजनवेषाणां क्लृप्तीः सुखकरीस्तथा ।दासदासीभृत्यसेवाकरान् ररक्ष तत्र च ॥१००॥इत्येवं सर्वथा स्वामीकृष्णनारायणः प्रभुः ।रचयामास योग्यानि विधेयानि तदाऽभितः ॥१०१॥बद्रिके च तदा सर्वप्राणिनां सुप्रमोदनम् ।उत्सवाश्चाऽभवन् हृत्सु महानन्दा निसर्गजाः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरिः स्वपुत्रस्य मुकुन्दविक्रमस्य राज्याभिषेकं कर्तुं दिलावरीराजधानीं ययौ, मण्डपादीन् कारयामास, चेत्यादिनिरूपणनामा दशाऽधिकशततमोऽध्यायः ॥११०॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP