संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ३५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३५ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि शवहर्त्र्याः कथां शुभाम् ।सौराष्ट्रे मालवग्रामे शवदाहकरी सदा ॥१॥आसीदेका श्वपची वै श्मशानाऽऽवासकारिणी ।पतिपुत्रसुतायुक्ता सम्बन्धिबान्धवान्विता ॥२॥करोति नित्यमेवेयं श्मशाने शवदाहनम् ।करं लब्ध्वा करोत्येव निजकर्म स्वभावजम् ॥३॥नित्यं शवानां दाहेन वैराग्यं जायते शुभम् ।क्षणं वापि चिरं वापि मृतस्य दर्शनात् खलु ॥४॥श्वपच्या मालवान्यास्तु वैराग्यं वर्तते तथा ।नित्यं शोचति फेरूणां विषये मरणं स्वकम् ॥५॥अहो नित्यं व्यसव्यो वै बाला युवति वृद्धिगा ।जायन्ते च नरश्चापि बाला युवान ऊद्धर्वगाः॥६॥तथाऽहं मरणं लप्स्येऽकस्मादेव न संशयः ।पितरौ मे मृतौ चापि श्वशुरौ मे मृतौ तथा ॥७॥राजा वृद्धो मृतश्चापि म्रियन्ते देहिनोऽनिशम् ।विजेतारो मृताश्चापि वैमानिका मरन्ति च ॥८॥सर्वे नाशं समायान्ति नाशमेष्याम्यहं तथा ।मृत्युकाले न कान्तोऽपि साहाय्यार्थं बली तदा ॥९॥अन्येषां का कथा तत्र ततः साध्यः सहायदः ।धर्मः सहायकृल्लोके परलोकेऽपि पार्श्वदः ॥१०॥सुखं धर्मात् प्रभवति यत्र प्राणी प्रजायते ।तत्र धर्मः समं याति पुण्याख्यः परमो गुरुः ॥११॥पुण्यं त्वात्मसहायं स्याद् दानजं सेवनादिकम् ।गोदानं पृथिवीदानं वस्त्रान्नजलदानकम् ॥१२॥छत्रोपानच्चामरादिप्रदानं प्रसहायदम् ।पुष्पपत्रफलदानं भक्ष्यभोज्यप्रदानकम् ॥१३॥गृहदानं वस्तुदानं चोपकरणदानकम् ।देहदानं पुत्रदानं पुत्रीदानं सुखार्पणम् ॥१४॥व्रतदानं चात्मदानं कटिदानं प्रमोददम् ।धनदानं भूषणाद्यर्पणं क्षेत्रप्रदानकम् ॥१५॥एवंविधानि दानानि सर्वाण्येव महापथे ।परलोके चाग्रगाणि चोपतिष्ठन्ति सर्वथा ॥१६॥दत्तं तत् प्राप्यते स्वग्रे नाऽदत्तं प्राप्यते क्वचित् ।तस्मान्मया श्वपच्या वै दातव्यं दानमुत्तमम् ॥१७॥सत्पात्रं लभ्यते तस्मै दातव्यं श्रेयसे मम ।विचार्येत्थं श्वपची सा फलान्याहृत्य वै वनात् ॥१८॥बदराणि चामृतानि कदलानि यथर्तु च ।कर्मदानि जम्बूफलान्याहृत्य सा ददाति वै ॥१९॥कन्दान् पत्राणि पुष्पाणि मधु मिष्टेक्षुदण्डकान् ।तथाऽन्यानि पवित्राणि योग्यानि प्रददाति सा ॥२०॥दानं मार्गागतेभ्यो वै यतिभ्यः सद्भ्य इत्यपि ।उपयुञ्जन्ति सन्तश्च प्रक्षाल्य तत्फलादिकम् ॥२१॥काष्ठानि मूत्तिकाश्चापि समाहृत्य ददाति सा ।एवं करोति दानानि वृक्षत्वचां तथा तु सा ॥२२॥कटानामासनानां च पाषाणानां प्रमर्दिनाम् ।ओषधीनां च वल्लीनां करोति दानमित्यपि ॥२३॥अथैवं दानधर्मेण विख्याता मालवानिका ।अभवन्मालवे ग्रामे दात्रीतिमालवानिका ॥२४॥दानपुण्यप्रतापेन त्वेकदा धर्मदेवता ।नारी साध्वी स्वयं भूत्वाऽऽययौ श्वपचीमन्दिम् ॥२५॥अस्नाताऽभून्मालवानी रजस्वला श्मशानगा ।शवार्धदाहसम्पन्ना प्रातरेव मलान्विता ॥२६॥मलिनाया गृहे साध्वी यात्रामार्गेण वै प्रगे ।समायातैकला काचित् त्यागधर्मवती सती ॥२७॥वीक्ष्य तां त्यागिनीं साध्वीं त्वेकलां श्रमयोजिताम् ।सहसोत्थाय चण्डाली ननाम पादयोर्द्रुतम् ॥२८॥उवाच स्वागतं देवि मातर्नमामि चादरात् ।यथार्हे समये सेवां करिष्ये रोचते यथा ॥२९॥अस्म्यहं श्वपची जात्या तत्राप्यस्मि रजस्वला ।अस्नाता च मलस्यापि विसर्गोत्तरसंस्थिता ॥३०॥शवार्धदाहसम्पन्ना श्मशानस्था भवामि च ।किं करोमि पवित्रायाः सत्या अर्थे वदाऽत्र मे ॥३१॥अत्रागतायास्ते सेवा साध्वि यथा भवेन्मया ।स्वागतार्थं कृपया ते यदहं तन्निवेदय ॥३२॥प्रसन्ना भव मे साध्वि योग्यं करोमि सन्दिशभक्ताऽस्मि भावयुक्ताऽस्मि सेविकाऽस्मि करोमि ते ॥३३॥सेवनं योग्यमेवाऽत्र मतं तव करोमि तत्॥धन्यं भाग्यं मम मातर्दिनं मे सफलं त्विह ॥३४॥दर्शनादपि सञ्जात सेवनात्तु विशेषतः ।भवेदेव तथा मातर्ब्रूहि शीघ्रं करो्मि ते ॥३५॥इत्येवं प्रार्थितवती भावशुद्धा तु सा तदा ।धर्मा धर्ममतिं वीक्ष्य प्रसन्नोऽभूत्तदा द्रुतम् ॥३६॥उवाच तां तदा धर्मदेवता साध्विका सती ।देहि मे त्वासनं तूर्णं पवित्रं तत्सदा मतम् ॥३७॥देहि मे चापि पत्राणि तुलस्याः सन्ति ते यदि ।देहि मे फलपुष्पाणि गृहे ते सन्ति वै यदि ॥३८॥देहि मे काष्ठपत्राणि सन्ति ते यदि मन्दिरे ।नैत त्यशुद्धभावानि कदाचित् सन्ति भूतले ॥३९॥पावनानि सदा सन्ति देहि मे यदि सन्ति ते ।तिलान् वै सन्ति चेद् देहि तण्डुलकान् प्रदेहि च ॥४०॥सम्प्रोक्ष्याऽहं ग्रहीष्यामि पावनान् वै सदा भुवि ।इत्युक्ता ता भावभिन्ना गत्वा निजं तु मन्दिरम् ॥४१॥आनाय्य प्रददौ साध्व्यै साध्वी संप्रोक्ष्य जगृहे ।वृक्षलये ययौ तत्राऽऽसनं निक्षिप्य चुल्लिकाम् ॥४२॥कृत्वा संपच्य देवेभ्यो वैश्वदेवं बलिं ददौ ।गवे बलिं ददौ भूतवलिं ददौ ततः परम् ॥४३॥पितृबलिं ददौ चापि नारायणबलिं ददौ ।ततो यावत् प्रभोक्तुं वै पत्रावलीप्रपूरणम् ॥४४॥करोति तावदेवाऽत्र कश्चिदभ्यागतः शुभः ।आययौ श्वपचो भूत्वाऽर्थयामास तु भोजनम् ॥४५॥साध्वी तस्मै ददौ तृप्तिप्रदं भुक्त्वा ययौ स हि ।ततश्चान्या जरठा चाभ्यागता तत्र चागता ॥४६॥तस्यै साध्वी ददौ ऽ तृप्तिप्रदं सा बुभुजे सती ।भुक्तवती निषसाद तरोश्छायाश्रये तले ॥४७॥जपं विदधती कृष्णनारायणेति मालया ।'ओ नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥४८॥उच्चारणं करोत्येष मालाकरा तु साध्यिका ।श्रुत्वा तु पाचिका साध्वी तामपृच्छत् तदा द्रुतम् ॥४९॥का त्वं किं जपसि श्रीमन्नारायणं हि मालया ।किं तेन जायते पुण्यं फलं वाऽन्यद् वदाऽत्र मे ॥५०॥अभ्यागता तदोवाच शृणु त्वं पाचिके सति' ।मन्त्रेणाऽनेन भगवान् कृष्णनारायणो मिलेत् ॥५१॥श्वपच्यपि च चाण्डाली द्विजतुल्या प्रजायते ।पावनी सर्ववर्णानां मन्त्रेणाऽनेन चक्रिणः ॥५२॥मांसादाश्चापि मद्यादाः क्रव्यादाः कुणपाशनाः ।पूयन्ते मनुना कृष्णदैवतेन न संशयः ॥५३॥यः साक्षात् परमात्माऽस्ति धामेशः पुरुषोत्तमः ।मलमासोऽपि यद्योगान्निर्मलः पावनोऽभवत् ॥५४॥मलिना सर्वदा माया निर्मला राधिका तु सा ।अजायत हि तद्योगात् तन्मन्त्रं प्रजपाम्यहम् ॥५५॥प्रभोकृष्ण वालकृष्णाऽनादिकृष्णनरायण ।माणिकीमाधवीलक्ष्मीराधारमापते प्रभो ॥५६॥शुनि क्रोडे खले काके शवे चाण्डालके यमे ।राक्षसे ध्वजिनि द्रोहिण्यपि यो वर्तते प्रभुः ॥५७॥गवि मृगे सति हंसे जीवे द्विजे गुरौ सुरे ।नृपे देवालये मित्रे वर्तते यो नरायणः ॥५८॥पवित्रः पावकः कृष्णस्तमहं प्रजपामि वै ।भक्ताऽस्मि पावनी जाता प्रसादभक्षणादिना ॥५९॥नाम्नाऽस्मि शबलायोनिश्चाण्डाली वैष्णवी सदा ।इत्युक्त्वा सा दिव्यरूपा दिव्यविमानगाऽभवत् ॥६०॥पाचिका द्रुतमेवाऽस्याः सकाशान्मनुमार्थयत् ।सापि विमानगा मन्त्रं श्रावयामास भावतः ॥६१॥पाचिका तत्परं मन्त्रं जग्राह सत्वरं तदा ।तावत् तत्राऽभवत् साक्षात् पूर्वभोक्ता नरस्तु यः ॥६२॥सोऽप्ययाचत मन्त्रं तं विमानस्था ददौ मनुम् ।तस्मै कृष्णस्य नामाऽपि दत्वा स्वर्गं गताऽभवत् ॥६३॥अहो भाग्यं शबलाया धर्मद्रव्यर्पिताऽदनात् ।स्वर्गं लेभे ततो धर्मदेवताऽपि ततो मनुम् ॥६४॥लेभे लब्ध्वा ददौ तत्र चाण्डाल्यै श्रेयसे द्रुतम् ।चाण्डाली तन्मनुं प्राप्य दिव्यतेजोमयी ह्यभूत्। ॥६५॥धर्मदेवीकराद् यस्तु जग्राह मानवः फलम् ।भोज्यं स तु मनुश्चासीत् वैष्णवो मूर्तिमाँरतदा ॥६६॥धर्मदेव्याः पावनीत्वं प्रादर्शयन्मनुः स्वयम् ।षोडशार्णः कृष्णनारायणस्वामिस्वदैवतः ॥६७॥एवं वै कृपया तत्र पावनी धर्मदेवता ।मन्त्रोऽपि पावनश्चापि चाण्डाली पावनी तधा ॥६८॥कृष्णाऽर्पिताऽपि शबदायोनिर्वै पावनी तथा ।कृष्णनारायणयोगान्निकृष्टयोनिजाऽपि यत् ॥६९॥पावनी जायते यत्र कृष्णोऽस्ति पावनं तु तत्॥यद्रिके धर्मदेष्याः सा संश्रुत्वा दासिका ततः ॥७०॥आत्मनिवेदिनी जाता धर्मदेवी तिरोऽभवत् ।एवंविधां धर्मदेवीं वीक्ष्य चण्डालनी द्रुतम् ॥७१॥स्तुतिं चक्रे दर्शनार्थं पुनस्तत्राऽतिमोहिनी ।'नमो धर्मदेवतायै नारायण्यै नमो नमः ॥७२॥नमश्चाण्डालिकाभक्त्या प्रसन्नायै च ते नमः ।नमः शबलिकायोनिस्वरूपायै च ते नमः ॥७३॥नमो मन्त्रस्वरूपायै महाधात्र्यै च ते नमः ।नमोऽनादिकृष्णनारायणवाण्यै च ते नमः ॥७४॥नमः शक्त्यै महाशक्त्यै पावयित्र्यै च ते नमः ।नमः कल्याणकर्त्र्यै ते दिव्यमात्रे च ते नमः ॥७५॥मालवान्या मेलदात्र्यै धर्मदायै च ते नमः ।पुनर्मे दर्शनं देहि मातर्निःसंशयाय मे ॥७६॥याऽहं पृष्ट्वा भवपारं यास्याम्येव न संशयः ।इत्यर्थिता धर्मदेवी प्रादृश्यते तदा पुनः ॥७७॥मालवानी नमश्चक्रे पप्रच्छ मोक्षणं प्रे ।कथं मोक्षं प्रपद्येऽहं कथं पारं प्रयामि च ॥७८॥का त्वं मे वद कान्तेऽत्र किं कृत्वा त्वं प्रयास्यपि ।किमर्थं त्वं समायाता का मे भक्तिरनुत्तमा ॥७९॥कथं वा भावि मे .भाग्यं वद मे गुरुयोगिनि ।इत्येवं बद्रिके शिष्या पप्रच्छ धर्मदेवताम् ॥८०॥धर्मदेवी समुवाच सर्वं तस्यै यथातथम् ।आयाताऽहं परीक्षार्थं स्वीगतार्थेऽतिभावुकीम् ॥८१॥कीदृशी त्वां तु तां ज्ञातुं त्वया भावोऽति दशितः ।धर्मदेवोऽस्म्यहं देवीस्वरूपोऽत्र समागतः ॥८२॥भावं हार्दं च ते भावं धर्मं ज्ञात्वाऽतिहर्षितः ।स्वागतं भजन ज्ञात्वा दास्यं ज्ञात्वाऽतिहर्षितः ॥८३॥संप्राप्तं पाचितं त्वन्नं मया ते श्रेयसे त्विह ।प्रसादस्य प्रदानाय तुष्टये ते तथा त्विह ॥८४॥अथाऽहं ते मनुं दातुमिच्छां चकार शोभनाम् ।तावान्मन्त्राः स्वयं कृष्णनारायणस्य पावनः ॥८५॥षोडशार्णो नरो भूत्वा त्वत्कृपार्थं समागतः ।पावनोऽपि मनुर्धर्मात् पावनतर इष्यते ॥८६॥इत्येवं स मनुर्भिक्षां भुक्त्वा त्वत्राऽभ्यदर्शयत् ।चाण्डाली शबलायोनिर्या सा माया प्रमादिनी ॥८७॥सर्वजन्तुखनिरूपा चायाता कारणात्मिका ।सर्वयोनिमयी माया सर्वथा मलिना ह्यति ॥८८॥सापि धर्माच्छुद्धरूपा कृणायोगात्तु सर्वथा ।शुद्धैव जायते नारायणार्पिता हि मुक्तिदा ॥८९॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तथाऽन्त्यजा अपि ।चाण्डालाश्चेति सर्वा या भूताना योनयो भुवि ॥९०॥ताः सर्वाः श्रीकृष्णनारायणयोगेन दिव्यताम् ।यान्ति सर्वार्पणभक्त्या चाण्डाली शुद्धिमेति च ॥९१॥त्वं भक्ता संवीक्ष्य सर्वं जग्रहिथ मनूत्तमम् ।मत्तोऽत्र तेन सहसा जातासि पावनी शुभा ॥९२॥तव योगेन चान्यासां चाण्डालीनां प्रमोक्षणम् ।भविष्यति न सन्देहस्त्वं जाताऽद्य नरायणी ॥९३॥भक्त्या पूतासि चाण्डालि कृपया पाविता मया ।मनुना पाविता सम्यग् विप्राण्यसि त्वितः परम् ॥९४॥महामुक्तानिका चासि ब्रह्मधामनिवासिनी ।तव सर्वं कुटुम्बं वै पावनं ब्रह्मगोत्रकम् ॥९५॥अद्यतः खलु सञ्जातं भज श्रीवल्लभम्प्रभुम् ।त्यज वै तामसं कर्म प्रसेवय तु सात्त्विकम् ॥९६॥प्रभुंनारायणं कान्तं लब्ध्वा याह्यक्षरं पदम् ।कुंकुमवापिकाक्षेत्रं प्रयाहि सकुटुम्बिनी ॥९७॥साक्षात्कृष्णं बालकृष्णं लब्ध्वा याहि परं पदम् ।इत्युक्त्वा बद्रिके धर्मदेवश्चादृश्यतां गतः ॥९८॥मालवानी प्रसादं तु भुक्त्वा त्यक्त्वा निजक्रियाम् ।कुटुम्बसहिता प्राप्ता क्षेत्रं कुंकुमवापिकाम् ॥९९॥अश्वपट्टसरस्तीरे जले स्नात्वा पपौ जलम् ।अनादिश्रीकृष्णनारायणं तत्र व्यलोकयत् ॥१००॥कान्तं सुसुन्दरं विष्णुं चतुर्भुजं सुभूषणम् ।सुतेजसं हरिं वीक्ष्य कुटुम्बेन समं द्रुतम् ॥१०१॥मूर्छामवाप तत्रैव चाण्डाली मालवानिका ।दिव्यं विमानं सुभगं त्वायातं तत्र शोभनम् ॥१०२॥बालकृष्णं प्रभुं दृष्ट्वा विमानं चाऽप्यरूरुहत् ।कुटुम्बसहिता दिव्या दिव्यदेहातिसुन्दरी ॥१०३॥अनादिश्रीहरिं ध्यात्वा ययौ धामाऽक्षरं परम् ।एवं बद्रीप्रिये! भक्ता मालवानि हरिप्रिया ॥१०४॥कुटुम्बेन सहिता साऽभूत् धर्मकृपया तदा ।महाभागवतं धर्मं लब्धवती प्रभुम्पतिम् ॥१०५॥काम्यधर्मेणापि साध्यधर्मः संप्राप्यते क्वचित् ।पठनाच्छ्रवणादस्याऽवाप्यते धर्मजो वृषः ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने मालवान्याश्चाण्डाल्या धर्मबलेन सेवाबलेन धर्मदेवतादर्शनं मूर्तिमत्षोडशोक्षरमनुदर्शनं शबलिकायोनिपावनतादर्शनं ततः कुंकुमवापिकागमनोत्तरं सकुटुम्बाया मोक्षणं चेत्यादिनिरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP