संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ८४ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ८४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८४ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि शैलवज्रश्चमूपतिः ।रथस्थः सर्वशस्त्रास्त्रसम्पन्नः पुरतोऽभवत् ॥१॥नन्दिभिल्लमहासैन्येऽभवन् घोषाः सहर्षकाः ।जयार्थं तूर्यनिनदा भेरीशंखादिनिःस्वनाः ॥२॥तावन्मुमोच बाणान् स तीक्ष्णान् विदारकान् मृधे ।शतं शतं चैकवारमाच्छादयद् रथं हरेः ॥३॥कुबरस्य रथं चापि नागस्यापि रथं तथा ।चिच्छेद भगवान् सर्वान् समायातान् प्रवाहिणः ॥४॥सहस्रबाणैर्भगवान् मुक्तैर्युगपद्वेगिभिः ।शरान् शैलव्रजस्यापि नन्दिभिल्लस्य वै शरान् ॥५॥कुबरो भल्लकान् धृत्वा सायकांश्च शिलीमुखान् ।शतं शतं तु युगपज्जघान भिल्लसैन्यपौ ॥६॥व्यदृश्यन्त रिपुरथा मेघछन्नाद्रयो यथा ।कालवज्रादयश्चान्ये चमूनां पतयस्तदा ॥७॥शरमेघान् प्रसंजह्रुर्बह्वीभिः शरकोटिभिः ।नन्दिभिल्लः शरं तीक्ष्णं वाह्नेयं समवासृजत् ॥८॥तदुत्पन्ना अनलास्तु प्राज्वालयन् हि कूबरम् ।नागविक्रमणं चापि तस्य सैन्यानि चाभितः ॥९॥कृष्णनारायणस्तत्र धृत्वा रूपाणि सर्वशः ।ययौ सैन्यानलं सर्वं महाश्चर्यमभूद्धि तत् ॥१०॥अथ शैलव्रजस्तत्र शरं पार्वतमन्त्रवत् ।मुमोच नागसैन्येषु पर्वतास्तेऽभवन् हि खे ॥११॥निपेतुश्चूर्णयामासुर्नागसैन्यानि सर्वतः ।कुबरः पार्थिवैर्मन्त्रैर्वज्रान् मुमोच दारुणान् ॥१२॥वज्रहताः पर्वतास्ते निलीयुर्वै क्षणान्तरे ।पृथ्वी महाद्रीन् सहसाऽगिलत् सर्वान् समन्ततः ॥१३॥तदाश्चर्यं महज्जातं सर्वेषां स्तब्धताकरम् ।हरिश्चूर्णितताप्राप्तान् स्वस्थान् चकार वीक्षणात् ॥१४॥पशून् वाहनसंस्थाँश्च योजितानप्यजीवयत् ।अथ बद्रीप्रिये तत्र कुबरो गर्त्तमन्त्रवित् ॥१५॥गर्तमन्त्रशरं साऽस्त्रं मुमोच शैलवज्रकम् ।शैलवज्ररथाऽधस्ताच्छरास्त्रं गर्तमाकरोत् ॥१६॥यद्गर्त्ते तु रथोऽश्वाश्च शैलवज्रः सशस्त्रकः ।अवातरद् द्रुतं यस्य रक्षा केनापि न कृता ॥१७॥पृथ्वी जग्रास गर्भे स्वे शैलवज्रं तु बद्रिके ।पृथ्वीगर्भे मृतः पृथ्वी पुनर्यथा तथाऽभवत् ॥१८॥भूकम्पस्तु महान् जातस्तदा चम्वोर्द्वयोरपि ।त्रस्ता योद्धार एवापि क्षणं मोहमुपागताः ॥१९॥शैलवज्रो इतश्चेति शुशुचुर्नन्दिभिल्लिनः ।जयनादान् प्रचक्रुश्च नागविक्रमयोधिनः ॥२०॥अथाऽऽययौ कालवज्रनामा पञ्चमसैन्यपः ।महाकालसमः क्रूरोऽन्तकतुल्यपराक्रमः ॥२१॥तदा वाद्यान्यवाद्यन्त सेनयोरुभयोर्द्रुतम् ।अस्त्रं हैमं महामन्त्राधिष्ठितं स मुमोच ह ॥२२॥उपला हिमजास्तत्राऽभवन् व्योम्नि जलस्रवाः ।अतिशैत्योपला व्योम्नो निपेतुः प्राणघातिकाः ॥२३॥कोटिशो लक्षशश्चापि ज्ञात्वाऽस्त्रं हिममन्त्रितम् ।मुमोच कुबरस्तूर्णं सौर्यास्त्रं हिमनाशनम् ॥२४॥वाडवास्त्रं द्रुतं चापि जलभक्षणकारकम् ।तेनोपला विलीना वै हैम्यः सर्वा जलात्मिकाः ॥२५॥जलं तूर्णं चाम्बरे तु लयं प्राप्तं तु वाडवात् ।कुबरस्तु ततः कालवज्राय वज्रमुत्तमम् ॥२६॥मुमोच कालवज्रस्तद् व्यनाशयत् स्ववज्रकैः ।कुबरस्य विनाशार्थं प्रेषयद् भैरवास्त्रकम् ॥२७॥भैरवो भयदः क्रूरः कुबरे वीक्ष्य शंकरम् ।नत्वा लीनोऽभवत्तूर्णं महाश्चर्यमिदं त्वभूत् ॥२८॥कुबरः स्वशरं सांकर्षणास्त्राढ्यं व्यमूमुचत् ।कालवज्राय कालोऽपि यदधीनो विलुण्ठति ॥२९॥संकर्षणो महावीरो महागदादिशस्त्रवान् ।जघान बाणरूपेण कालवज्रं तु सैन्यपम् ॥३०॥चूर्णयामास सरथं शतेनैकेन भूतले ।कालवज्रे हते भिल्लसैन्यान्यासन् द्रवन्ति च ॥३१॥हाहाकारो महान् जातो हते वै कालवज्रके ।वह्निवज्रस्ततस्तूर्णमाययौ पृतनापतिः ॥३२॥सैन्याग्रेऽयोधयद् बाणैर्भल्लैश्च स्वर्णपुंखकैः ।शतं सहस्रं बाणानां विससर्ज स मेघवत्। ॥३३॥एकस्मात् तु सहस्राणि मन्त्रास्त्रयोजिताः शराः ।विनिर्ययुर्व्योममार्गे पतन्ति सैन्यमस्तके ॥३४॥शराणां वृष्टयश्चाऽधोमुखानां परितोऽभवन् ।नागविक्रमसैन्यानि चाऽऽन्ध्यमुग्धानि वै क्षणम् ॥३५॥अभवँश्च तदा रुद्रो व्योमाऽस्त्रं समवासृजत् ।कुबरस्थेन रुद्रेण व्योम्ना वृष्टिर्लयीकृता ॥३६॥उत्पादिताश्च राक्षस्यो वज्रदेह्योऽतिदारुणाः ।बाणभक्षणकारिण्योऽन्तरीक्षे वज्रनाशिकाः ॥३७॥उत्पद्यन्ते सहस्राणि त्वेकस्या राक्षसीस्त्रियाः ।ता निगिल्य शरवृष्टिं व्योम्ना पेतुर्हि सैन्यके ॥३८॥नन्दिभिल्लस्य सर्वस्मिन् तदाऽऽक्रोशास्ततोऽभवन् ।मारयन्तु खादयन्तु चर्वयन्तु विशन्तु च ॥३९॥त्रोटयन्तु स्फोटयन्तु मानवान् भिल्लसैन्यगान् ।इत्येवं वदमानास्ता निगिलुश्चखदुश्च तान् ॥४०॥हाहाकारः पुनश्चासीद् भिल्लिसैन्येषु सर्वतः ।मरणं शरणं चेति नान्यत्तत्र व्यदृश्यत ॥४१॥अथ राजा नन्दिभिल्लो ज्ञात्वाऽऽपदं विनाशिनीम् ।जगाम शरणं चाग्निरातर्षेः स्वस्य सद्गुरोः ॥४२॥अग्निरातस्तदा रक्षोहनं मन्त्रं शरासनम् ।कृत्वा मुमोच सहसा सायकं राक्षसान्तकम् ॥४३॥एकशरात्सहस्राणि जायन्ते सायकास्ततः ।यां यां स्पृशति बाणोऽसौ सा सा तिरोभवत्तदा ॥४४॥एवं निवारिताः सर्वा राक्षस्यो गुरुणा तदा ।बह्निवज्रो ततोऽमुञ्चद् वैष्णवास्त्रं सुदारुणम् ॥४५॥विष्णवः शस्त्रवन्तो वै समुत्पन्नाः सहस्रशः ।उत्पत्योत्पत्य सहसा लीनाः कृष्णनरायणे ॥४६॥तदद्भुतं परं जातं वह्निवज्रस्ततः पुनः ।नारायणास्त्रं विपुलं सर्वप्राणहरं क्षणात् ॥४७॥मुमोच सर्वनाशार्थं तदपि श्रीनरायणे ।बालकृष्णेऽभवल्लीनं महाश्चर्यमिदं ह्यभूत् ॥४८॥वह्निवज्रस्ततो निद्रामहास्त्रं प्रसमैरयत् ।निद्रा नारायणाक्षिप्ता विलीना कृष्णनेत्रके ॥४९॥एवं व्यर्थानि चास्त्राणि विदित्वा क्रोधमाप्तवान् ।मुमोच कालकवलं महास्त्रं सर्वभक्षकम् ॥५०॥मुक्ताद् बाणान्महाकालो विकरालो विनिर्ययौ ।नैकयोजनविस्तीर्णो नैकयोजनकोच्छ्रयः ॥५१॥सर्वग्रासकरं वीक्ष्य कालं कृष्णनरायणः ।नागस्थं तु महाकालमैरयत् तल्लयाय ह ॥५२॥नागविक्रमराजस्थो महाकालो द्रुतं तदा ।कालकवलसंज्ञं स्वं रूपं समजहार ह ॥५३॥लीनं वीक्ष्य तु कालास्त्रं भयं चापाऽग्निवज्रकः ।गतं चास्त्रं महन्मे वै निःशस्त्रोऽस्मि च निर्बलः ॥५४॥तथापि गदया योत्स्ये मुद्गरेण तथाऽसिना ।विचार्येत्थं महाशक्तिं जग्राह च मुमोच च ॥५५॥कुबरस्तां स्वगदया विहतां प्रचकार ह ।पतिता सा गदा चापि भूतले ग्राहवत्तदा ॥५६॥कुबरश्च द्रुतं शक्तिं चिक्षेप वह्निवज्रके ।सा वह्निवज्रकं भित्त्वा क्षितावर्धंगताऽभवत् ॥५७॥वह्निवज्रोऽद्रिबलवान् समुत्थाय सशक्तिकं ।उत्थाय खड्गहस्तश्च दुद्राव शक्तिलग्नितः ॥९८॥कुबर तु व्यसुं कर्तुं तावन् कुबरसैन्यपः ।शक्तिं मुमोच सहसा द्वितीयां गलकूपके ॥५९॥तृतीयामुदरे चास्य गदां मुमोच मस्तके ।अर्धचन्द्राँस्तीक्ष्णशरान् पादाग्रयोर्मुमोच ह ॥६०॥कर्त्तपादो भग्नकण्ठो भिन्नोदरः पपात ह ।गदया चूर्णितांगश्च भिन्नमूर्धा ममार च ॥६१॥वह्निवज्रोऽगमन्मृत्युं बद्रिके गहने रणे ।त्रिंशत्साहस्रसैन्यानि नन्दिभिल्लस्य बद्रिके ॥६२॥नागविक्रमसैन्यानां मारैर्मृत्युमगुर्मृधे ।अथ प्रालेयवज्राख्यः सप्तमः सैन्यपस्ततः ॥६३॥नन्दिभिल्लादेशकरः सैन्याग्रे संस्थितोऽभवत् ।शरान् मुमोच शतधा गर्जयन् परितो दिशः ॥६४॥सैन्यानि तस्य मुमुचुर्बाणान्नागचमूषु वै ।स्फोटकैर्गोलकैश्चापि शतघ्नीभिश्च सायकैः ॥६५॥भूशुण्डीभिर्वह्निशस्त्रैरर्दयामासुरुत्कटान् ।योद्धॄन् समन्ततस्तत्र प्रालेयवज्रदेशतः ॥६६॥कुबरस्यापि सैन्यानि बद्रिके वह्निगोलकैः ।शतघ्नीभिर्भूशुण्डीभिर्जघ्नुर्भिल्लचमूस्ततः ॥६७॥प्रालेयवज्रहस्तेन बाणाः शतसहस्रशः ।कार्मुकान्निःसरन्त्यूर्ध्वमुत्पतन्ति चमूपरि ॥६८॥कुबरस्य धनुर्ज्यां सचिच्छेदापि च कार्मुकम् ।कुबरोऽन्यत् समादाय व्यसर्जयच्छरान् बहून् ॥६९॥तरुज्यां व्यनाशयच्छीघ्रं प्रालेयवज्रको यदा ।कुबरश्चार्धचन्द्राभ्यां चिच्छेद कार्मुकं करम् ॥७०॥प्रकोष्ठहस्तशून्यो वै प्रालेयोऽस्त्रमवासृजत् ।प्रालेयास्त्रं विषतापात्मकमन्त्राभिमन्त्रिम् ॥७१॥यत्र द्वादशसूर्याणां विषतेजांसि चापतन् ।सैन्यमूर्छां व्यधात्तूर्णं तद्धि प्रलयसदृशीम् ॥७२॥कृष्णोनारायणःस्वामी विदित्वा तु विषानलम् ।आमृतीं पीयूषमयीमाक्षरीं ब्रह्मसंभवाम् ॥७३॥ब्राह्मीं शक्तिं निजां सर्वविषादां समवासृजत् ।सा तु मूर्ता क्षणमात्रान्मनोवेगेन सर्वतः ॥७४॥भ्वामम्बरे सैन्यभागे प्रासरद् विषशान्तिदा ।आमृती सा विषं पीत्वाऽमृतदानेन तान् भटान् ॥७५॥पोषयामास बहुधा सैन्यानि सर्वतोदिशः ।प्रालेऽयाऽस्त्रं समस्तं सा संजहार हि बद्रिके ॥७६॥कुबरस्तु तदा धृत्वा सर्वधारं सुचक्रकम् ।फलाग्रसुभ्रमच्चक्रं दीर्घशरमिवाऽसृजत् ॥७७॥प्रालेयवज्रकं प्राप्य चक्रं तच्छरसंयुतम् ।गले पपात यावद्वै तावद् द्वेधा बभूव तत् ॥७८॥शरं विवेश हृद्ये चक्रं विवेश वै गले ।प्रालेयवज्रको द्वेधा छिन्नो ममार वै रथे ॥७९॥हाहाकारो महान् जातो मृतः प्रालेयवज्रकः ।शोकं चकार भिल्लोऽपि वह्निरात्रं न्यवेदयत् ॥८०॥गुरो नष्टा मम सप्त सेनेशाः सप्ततिस्तथा ।सहस्राणि तु योद्धारो मानवा रणदुर्मदाः ॥८१॥दिवारात्रं युद्धमेतत्प्रवर्तते दिनद्वयात् ।रात्रिद्वयात्तथा विप्र सैन्यनाशो महानपि ॥८८२॥त्रिंशत्साहस्रमात्रं मे वर्तते मानवं दलम् ।त्रयश्चमूपतयश्च शिष्यन्ते मे जयप्रदाः ॥८३॥गुरो त्वं सैन्यपो भूत्वा मज्जयाय समाचर।पराजयो हि संसारे सर्वथा नरकप्रदः ॥८४॥इत्येवं बद्रिके श्रुत्वा गुरुश्चाह तु भिल्लकम् ।इन्द्रघातहरिच्छैलकालाग्निलयवज्रकाः ॥॥५॥हतास्तथापि सबला जयाशा गुरुगामिनी ।यत्र नारायणश्चास्ते महाकालो नृपेऽस्ति च ॥८६॥रुद्रः कुबरे संविष्टः सैन्येषु सर्वशक्तयः ।तत्र जयाशा विफला राजन् युद्धं विरामय ॥८७॥श्रुत्वैतत् सहसा क्रुद्धो नन्दिभिल्लोऽतिवेगवान् ।प्रैरयद् रणवज्रं वै सैन्यपं चाष्टमं तदा ॥८८॥रणवज्रो रणं चक्रे नाराचैर्भिन्दिपालकै ।शरैर्बाणैः सायकैश्च शिलीमुखैश्च मार्गणैः ॥८९॥स्वर्णपुंखै रुक्मपुंखैश्चान्द्र्यन्द्रैश्च खड्गकैः ।छुरिकैर्भल्लकैश्चापि कुन्तलैः शक्तिभिश्च ह ॥९०॥मन्त्रास्त्रयोजितैः सर्वैर्वर्धमानैः समन्ततः ।आच्छादयद् व्योममार्गं शरजालै रणव्रजः ॥९१॥कुबरस्य महासैन्यं छन्नं बाणप्रवर्षणैः ।नाकाशो दृश्यते तत्र नोर्ध्वं चक्षुः प्रवर्तते ॥९२॥अन्धकारमयं बाणैर्जातं सर्वं क्षणान्तरे ।तदाश्चर्यमभूत्तत्र रणवज्रस्य कर्मणा ॥९३॥अथ राजा नागदेवः स्वयमस्त्रं दधे तदा ।महातेजोऽभिधं सर्वबाणानां भस्मताकरम् ॥९४॥व्याप्तं भूत्वाऽम्बरे भस्मीचकार बाणवर्षणम् ।सन्दधे च महाशक्तिं दुर्गामन्त्रप्रवर्धिताम् ॥९५॥रणवज्रं मारयितुं मुमोच रुद्रदेवताम् ।जगाम सहसा देवी रणवज्रस्य वक्षसि ॥९६॥निपपात यया वज्रं पर्वते प्रपतेत्तथा ।विभिद्य हृदयं तस्य जगाम सरथा भुवम् ॥९७॥रणवज्रो हतस्तत्र हाहाकारोऽभवन्महान् ।अहो कष्टं रुरोदाऽपि श्रुत्वा भिल्लो विमूर्छितः ॥९८॥स्वस्थो भूत्वा तथा युद्धे युद्धवज्रं तु सैन्यपम् ।विजयार्थं त्वादिदेश युद्धवज्रोऽपि चाऽऽययौ ॥९९॥रणाग्रे कुबरस्यापि नाशार्थं श्रीहरेस्तथा ।राज्ञश्चापि विनाशार्थं रणाग्रे समुपाययौ ॥१००॥रथं स्त्रीसूतनोद्यं वै समास्थाय समाययौ ।धर्मयुद्धं परित्यज्य स्त्रीं कृत्वा चाऽग्रतो रथे ॥१०१॥आययौ रणधूर्तः सशस्त्रास्त्रबलसंयुतः ।यत्र स्त्री दृश्यते तत्र शस्त्रपातो न सम्मतः ॥१०२॥स्त्रीकृताऽवन एवासौ रणे चावाततार ह ।बद्रिके सर्वसैन्यानां तदा हास्यमभून्महत् ॥१०३॥स्त्रीभूतः स्त्रीवचःकर्ता स्त्रीसहायः स्त्रीधर्मवान् ।स्त्रीनोदितो विनाशं वै यात्येव नात्र संशयः ॥१०४॥अथ कृष्णः प्रभुर्दृष्ट्वा स्त्रीसूतं युद्धवज्रकम् ।दुर्गायै स्त्रीस्वरूपेण योद्धुमाज्ञां चकार ह ॥१०५॥अनन्ताश्च तदा दुर्गा रथस्थाः सिंहपृष्ठगाः ।शरभस्था व्याघ्रसंस्था गवयस्था वृषस्थिताः ॥१०६॥अभवँस्तत्र चाग्रस्था योद्धुं स्त्रीसूतसन्निधौ ।आश्चर्यं परमं प्राप युद्धवज्रः प्रवीक्ष्य ताः ॥१०७॥सहस्रशस्तदा दुर्गाः सन्देहमाप जीवने ।बाणवर्षणमेवाऽऽदौ चकार स्त्रीजनेषु सः ॥१०८॥दुर्गासु सर्वतस्ताश्च सर्वानगिलन् सायकान् ।खड्गहस्ताश्च ताः सर्वा उत्पत्योत्पत्य तद्रथे ॥१०९॥निपेतुर्युद्धवज्रस्य नाशनार्थं रथोपरि ।प्रविश्य ता रथे युद्धवज्रं च सारथिं स्त्रियम् ॥११०॥चिच्छिदुः खण्डशः सर्वास्ततः सैन्यान्यनाशयन् ।मृतश्च नवमो युद्धवज्रः सैन्यप आहवे ॥१११॥हाहाकारो महानासीत्तदा भिल्लिचमूषु वै ।सैन्यानि निहतान्येव सहस्राणि तु विंशतिः ॥११२॥दुर्गाभिस्तत्र सैन्यैश्च सर्वशक्तिबलान्वितैः ।बद्रिके नन्दिभिल्लस्तु तदा मूर्छामवाप ह ॥११३।नागविक्रमसैन्यानां महोत्सवस्तदाऽभवत् ।वह्निरातो भिल्लगुरुः शुशोचाऽवनमुत्तमम् ॥११४॥शरणं रक्षणं चात्र नान्य उपाय उत्तमः ।एवं राज्ञे उपादेष्टुं समारभत सद्गुरुः ॥११५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने संग्रामे नन्दिभिल्लस्याऽन्यषट्सेऽनापतीनां षष्टिसाहस्रसैन्यसहितानां विनाशनमित्यादिनिरूपणनामा चतुरशीतितमोऽध्यायः ॥८४॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP