संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११ Translation - भाषांतर श्रीनरनारायण उवाच-बद्रीप्रिये शृणु त्वं च ततो देवी सुरेश्वरी ।पप्रच्छ दास्यं कन्यायै किंविधं तद् वदामि ते ॥१॥दास्यं दानमयं सर्वमात्मदानं महत्तरम् ।सुखदानं मनोदानं बुद्धिदानं तु शार्ङ्गिणे ॥२॥चित्तदानं मानदानं सर्वेन्द्रियप्रदानकम् ।प्राणदानं देहदानं दास्यं सर्वप्रदानकम् ॥३॥मातस्त्वेवं दासिका या ब्रह्मप्रिया तु सा मता ।एतादृशीं परां दासीं मानवश्चाऽमरोऽपि वा ॥४॥चालयितुं समर्थो न कृष्णकान्तात् पथान्तरे ।दास्याश्चैवंविधायास्तु भयं मनाङ् न विद्यते ॥५॥दासी सा देवदेवस्य श्रीपतेः पद्मिनीपतेः ।यथा तथा सतां दासी प्रज्ञावद् बालयोगिनी ॥६॥धन्येयं या सतां योगं हरेर्योगं च विन्दते ।नरं कान्तं बालकृष्णं सेवते बालयोगिनी ॥७॥सिद्धं कार्य भवेत्। तस्या मातर्दास्यं चिदम्बरे ।यदत्रानुभूयमानं विकासतेऽक्षरे पदे ॥८॥तद्रूपं चैतदेवापि स्वसिद्धं परमात्मनः ।श्रेयसे चोभयं रूपं तथाऽनन्तानि यान्यपि ॥९॥सच्चिदानन्दरूपाणि लावण्यसंभृतान्यपि ।दिव्यैश्वर्यपूरितानि सर्वालंकारवन्ति च ॥१०॥कोटिकामसुरूपाणि चानन्ततैजसानि हि ।नैकशक्तिकलावन्ति सर्वान्तर्यमनानि च ॥११॥अनन्तकोटिराधाश्रीलक्ष्मीक्षासुखमुत्तमम् ।अनादिश्रीकृष्णनारायणस्य दर्शनेस्ति वे ॥१२॥स कार्यार्थं बहून्येव धत्ते रूपाणि माधवः ।यथोपयोगं योजयित्वा तिरोधापयति प्रभुः ॥१३॥इन्द्रियात्मा च देवात्मा विषयात्मा समीक्ष्यते ।मायिकैर्न तु दिव्यैर्वै दास्यं प्राप्तैर्हि देहिभिः ॥१४॥मायामयीच्छया लीला नारायणस्य साऽस्ति हि ।सर्वा कल्याणरूपा सा दिव्यधामप्रदा हि सा ॥१५॥नराकारे भावना सा दिव्या दासीत्वबोधिनी ।नराकारेषु या सत्सु दिव्या सा भावनोत्तमा ॥१६॥कृष्णवत् सर्वथा कार्या कृष्णदासित्वबोधिका ।नारीष्वपि च साध्वीषु दिव्या सा भावनोत्तमा ॥१७॥कर्तव्या सर्वदा मातर्दासित्वबोधिका तथा ।ब्रह्मप्रियात्वं चाप्येत तया सर्वोर्ध्वया ततः ॥१८॥एवं भावनया युक्तं दास्यं पूर्णं प्रकाशते ।संसाध्यैवं परं कान्तं कृष्णं लभते नाऽन्यथा ॥१९॥दास्याः कृष्ण इन्द्रियाणि दिव्यानि विदधाति वै ।कृष्णयोगेन सौगन्ध्यं दिव्यं देहे प्रजायते ॥२०॥कृष्णयोगेन च नित्यं निरावरणता भवेत् ।कृष्णयोगेन चाऽऽनन्दपूर्णताऽहर्निशं भवेत् ॥२१॥उत्तमाः सर्वविषयाः कृष्णयोगेन कृष्णवत् ।जायन्ते शान्तये मातर्निरत्ययास्तथाऽव्ययाः ॥२२॥असंख्यसृष्टिनाथस्य सुखोर्ध्वं त्वाक्षरं सुखम् ।ततोऽनन्तगुणं कृष्णकान्तस्य सुखमुत्तमम् ॥२३॥ब्रह्माद्या ईश्वरास्तस्याऽन्तिके रंकजना इव ।भवन्ति सर्वथा मातस्तं कृष्णं हृदि धारयेत् ॥२४॥पूर्णानन्दनिधेस्त्वेके सुखं सर्वं समाप्यते ।न दूरे तादृशं चास्ते तस्मात् कृष्णेऽर्पिता भवेत् ॥२५॥एवं श्रीमत्कृष्णमूर्तिभूर्यानन्दपरिप्लुता ।जाताऽस्मि ते कृपयाऽत्र मातर्दास्यं भजामि च ॥२६॥तादात्म्यानुभवेनैव कृष्णकान्तोऽधिभुज्यते ।नैर्गुण्यभावमापन्ना सेवते या तु दासिका ॥२७॥सेविनं कृष्णकान्तं तं लभते सा निजान्वितम् ।महानन्दप्रदं सर्वभोगतृप्तिप्रदं प्रभुम् ॥२८॥अल्पापि कृष्णकान्तार्था यस्या बुद्धिः क्रियाऽपि च ।सा दिव्या ब्रह्मशक्त्याख्या सर्वसिद्धिप्रवर्षिणी ॥२९॥निर्गुणा कृष्णसम्बन्धाद् दिव्याऽक्षयाऽक्षराऽभिधा ।दर्शनं स्पर्शनं घ्राणं रसनं श्रवणादि च ॥३०॥स्वपनं रमणं दास्यमाश्लेषणं हरेः प्रभोः ।कृष्णस्यैव सदा मातः कार्यं दास्या न चेतरत् ॥३१॥नान्यत्र प्रेरणीयानि देहेन्द्रियाणि सर्वथा ।विश्वस्तानि कृष्णयोगात् पातयन्ति हि योगिनीम् ॥३२॥हरे कृष्ण प्रियाकृष्ण माधवीकृष्ण सेविकाम् ।दासीं मां रक्षय चान्यात् प्रार्थयेत् परमेश्वरम् ॥३३॥एवं सम्प्रार्थितः कृष्णकान्तो रक्षति दासिकाम् ।ब्रह्माण्डे तादृशो नास्ति यादृशः कृष्णसद्वरः ॥३४॥अक्षरे ब्रह्मणि स्वीये राजते योऽत्र विद्यते ।दिव्याभिः शक्तिभिर्दिव्यपार्षदैः सेवितः प्रभुः ॥३५॥राधारमादिभिर्भक्त्या सेव्यते पुरुषोत्तमः ।ब्रह्माण्डाधिस्वामिभिश्च प्रार्थ्यतेऽण्डागमाय सः ॥३६॥कृपया स बालकृष्णस्त्वाविर्भवति तत्र तु ।देवमानवपश्वादौ करोति तन्मयीं क्रियाम् ॥३७॥युगानुरूपं स्वाऽऽयुष्यं दधाति परमेश्वरः ।बलं सामर्थ्यमेवापि देहं चापि यथायुगम् ॥३८॥गुणा दोषाश्च दृश्यन्ते दिव्या एव हरौ तु ते ।हितं भवेन्नृणां यद्वद् वर्तते स तथा भुवि ॥३९॥सजातीयप्रसंगं स ददात्येव तथाभवन् ।तेजः संकोचयित्वैव मानवः सन् प्रवर्तते ॥४०॥दिव्ये तत्र नातिप्रीतिर्मानवानां यतो भवेत् ।तेजसां चाऽसहा लोकाः सौमनस्यं न यन्ति हि ॥४१॥क्वचित् कार्यवशान्मातर्महैश्वर्यं दधाति सः ।प्रदर्शयति भक्तेभ्यः पुनर्लीनं करोति तत् ॥४२॥अनादिश्रीकृष्णनारायणार्यः पुरुषोत्तमः ।गोपालनन्दनो मातः सर्वावतारधृक् स हि ॥४३॥तस्याश्रये भवेद् भक्तानिका सदाऽकुतोभया ।शर्करारसमूर्तिर्वै यथैकतात्त्विकी भवेत् ॥४४॥तथैकतत्त्वे श्रीकान्ते सच्चिदानन्दधामनि ।परब्रह्मणि मे मातस्तादात्म्यं विद्यतेऽधुना ॥४५॥यथा वह्निः प्रविष्टो वै त्वयोगोले विलोक्यते ।न लोक्यतेऽयोगोलस्तु तथा मातर्मयि प्रभुः ॥४६॥लोक्यते पश्य सर्वेशं नाऽहं दृष्टिपथाऽस्मि हि ।ऐतदात्म्यमिदं सर्वं चाऽहं व्याप्ता महात्मना ॥४७॥चिदानन्देन कृष्णेन यत्र त्याज्यं न विद्यते ।एवंवेत्त्री पराब्राह्मी ज्ञेया सा ब्रह्मवित्तमा ॥४८॥प्राप्ता निर्विकल्पभावं स्थितप्रज्ञाऽतिनिर्भया ।ऐकान्तिकीं स्थितिं प्राप्ता कृष्णे निरोधितां गता ॥४९॥नराकृतौ हरौ जाता दृढस्नेहानुबन्धिनी ।स्नेहमयी सदा भक्ता निर्विकल्पा मता सखी ॥५०॥मतिः कृष्णे दृढा यस्याः कार्ष्णी सा कृतमोक्षणा ।विकल्पैः सह योद्धव्यं निर्विकल्पेच्छया सदा ॥५१॥अयुध्यमाना विषयैराकृष्यते पतत्यपि ।सर्वेश्वरं विदित्वापि येश्वरेशं त्यजत्यपि ॥५२॥सा भवेद् द्रोहिणी पत्यौ कृष्णे कान्ते प्रभेश्वरे ।एवं द्रोहविधात्र्यां वै कृष्णो नैव प्रसीदति ॥५३॥कालं कर्म स्वभावं वा मायां वेत्ति तुकारणम् ।कृष्णनारायणं हित्वा सा भवेद् द्रोहिणी हरेः ॥५४॥कृष्णनारायणे मुक्ता ब्रह्म कृष्णनरायणे ।कृष्णनारायणे सन्ति ह्यवतारा असंख्यकाः ॥५५॥कृष्णनारायणे सर्वाः शक्तयश्च तपांसि च ।ऐश्वर्याणि मखाश्चमत्काराः कृष्णनरायणे ॥५६॥देवा लोकाश्च गतयः सन्ति कृष्णनरायणे ।सृष्टयश्च समस्ता वै सन्ति कृष्णनरायणे ॥५७॥परं तत्त्वं प्रियं कान्तं विदुर्या ज्ञानसागरा ।सा वेत्त्री श्रीकृष्णदासौ ब्रह्मी सा ब्रह्मवित्तमा ॥५८॥एवंविधायां भक्तायां भवेत् कृष्णप्रसन्नता ।स्नेहातिशयमाप्तायां गुणाः सर्वे वसन्ति हि ॥५९॥माहात्म्यज्ञानयुग्भक्ता भवेदेकान्तिनी प्रभौ ।सतां सेवाप्रसंगेन कृष्णे भक्तिः प्रजायते ॥६०॥मनोवाक्तनुभिः सेव्याः सन्तः कृष्णस्वरूपिणः ।सेवात्मकेन धर्मेण साधनेन कृतेन वै ॥६१॥सर्वं कृतं भवेदत्र कर्तव्यं शिष्यते नहि ।सतां योगेन भगवान् बहिश्चान्तः प्रकाशते ॥६२॥पतंगवत् स्वयं कृष्णस्तस्या वृत्तिमयो भवेत् ।आनन्दं परमं तेन याति मातर्हरेर्हि सा ॥६३॥धृतस्य शुद्धकान्तस्य हृदि चात्मनि चाऽक्षरे ।हरेर्माया स्नेहरूपा सुखयत्येव तां सतीम् ॥६४॥प्रत्यक्षे भगवत्कान्ते रसलीना प्रजायते ।कान्ता कान्तं समाश्लिष्य ब्रह्मानन्दे प्रमोदते ॥६५॥निमज्जति महानन्दे परे ब्रह्मणि स्वामिनि ।गुणातीते महानन्दे प्रेमरसं पिबत्यपि ॥६६॥मायातीतं पतिं प्राप्य मायातीता प्रजायते ।हरौ लग्ना हरिं याति मोचयत्येव तां हरिः ॥६७॥एवं कृष्णं प्रपन्नायाः कमलात्वं प्रजायते ।यद्यत् सुखमभीष्टं स्यादस्याः सर्वं प्रवर्षति ॥६८॥प्रपन्नाया प्रपत्तिर्वै हरेर्मिथः प्रजायते ।मिथश्चैकान्तिकताऽपि भक्तायाश्चाऽच्युतस्य च ॥६९॥मुक्तवत् सर्वकर्माणि मिथस्तयोर्भवन्ति हि ।एवंविधायां भक्तायां मातः सत्ययुगस्य तु ॥७०॥सर्वे धर्माः प्रवर्तन्ते संकल्पाः सत्यसंभृताः ।मानस्यस्तत्र सर्वा वै सृष्टयश्चेष्टदायिकाः ॥७१॥भवन्ति कृतकृत्यायां कृष्णयोगेन कृष्णवत् ।कृपालुर्भगवान् कृष्णश्चौदार्यं वितरत्यपि ॥७२॥मया सर्ववर्ष्मवतां कर्तव्यं श्रेय उत्तमम् ।एवं कृपां परां कृत्वा नरान्नारीर्नपुंसकान् ॥७३॥पशून् द्रुमान् पक्षिणश्चोद्धारयत्येव योगदः ।अपि शत्रून् राक्षसाँश्च दैत्यानुद्धारयत्यपि ॥७४॥पापस्थान् स्त्रीसमुदायान् भोगेनोद्धारयत्यपि ।पापाः प्रसंगमासाद्य दिव्या मुक्ता भवन्ति हि ॥७५॥सर्वतत्त्वानि कृष्णस्य चानुप्रवेशतो द्रुतम् ।ब्रह्मतां यान्ति मायाऽपि प्रयात्यक्षरभावताम् ॥७६॥नेत्रवृत्तिः स्थूलभावा रश्मिरूपाऽपि तैजसी ।भौतिक्यपि हरौ लग्ना ब्रह्मभावमुपैति सा ॥७७॥अतः सा निर्गुणा भूत्वा ब्रह्मप्रकाशिका भवेत् ।कृष्णाकारा महानन्दसुखमोदपरिप्लुता ॥७८॥कृष्णे सा लीयते दिव्ये त्वात्माऽश्नुते सुखं तु तत् ।एवं भूत्वा कृष्णरूपा कृष्णानन्दं समश्नुते ॥७९॥महाभागवतं मातः सुखं कृष्णात् प्रपद्यते ।समाधौ दिव्यनेत्राप्तं कृष्णस्य दर्शनं शुभम् ॥८०॥क्षणं लब्धमपि स्यात्तत् सहस्राब्दकृतं यथा ।अखण्डं निर्गुणं पूर्णब्रह्मानन्दभृतं सुखम् ॥८१॥भक्ताभिः शाश्वतं व्यवस्थासु कृष्णेऽनुभूयते ।नराकारे प्रभौ कृष्णे नृपे वा साधुरूपिणि ॥८२॥अन्तःस्थे दिव्यरूपे वा तत् सुखं त्वनुभूयते ।तस्य कृपालयाः सन्तो मिलेयुस्तेषु चान्वहम् ॥८३॥स्नेहवृत्त्या सेवयापि तादृशं सुखमाप्यते ।गुरोर्मूर्तेः परं दिव्यं सुखं तु सेवयाऽप्यते ॥८४॥गुरोर्द्रोहः सतां द्रोहः कृष्णद्रोहो विनाशकृत् ।गुरोः सेवा सतां सेवा कृष्णसेवाऽक्षरप्रदा ॥८५॥द्रोग्धुर्भवेत् कृमिकीटशिलाकाष्ठाऽद्रिलोकता ।यत्र मोक्षार्थयोगो न तस्माद् द्रोहं विवर्जयेत् ॥८६॥मानं विवर्जयेच्चापि भक्ताग्रे कृष्णसन्निधौ ।मानं हि कारणं चास्ति महाऽसुरपदस्य वै ॥८७॥आसुरत्वं निरयाय जायते द्वेषकारितम् ।तेन मानं नयत्येव निरयाध्वनि सर्वथा ॥८८॥मानिनस्तु हरौ साधौ कल्पयन्त्यगुणान् मुहुः ।आपकार्ष्ट्यख्यापनार्थं ततो यान्त्यधमां गतिम् ॥८९॥मानद्वेषादिनाशार्थं सेवनीया हि साधवः ।कृष्णाऽभिन्नाः साधवस्ते पावयन्त्यपि दूषितान् ॥९०॥साधौ स्नेहः परः कार्यो येन दोषो न चोद्भवेत् ।स्निग्धे दोषो भवेन्नैव गुणग्राहो भवेत् सदा ॥९१॥सतां गुणग्रहेणैव कृष्णगुणग्रहो भवेत् ।ब्रह्मात्मदर्शनं तेन साक्षाद्धरेश्च दर्शनम् ॥९२॥सर्वदा यौगलं भावं हरिणा सह विन्दते ।नाऽस्या न्यूनं भवेत् सख्याः सख्युः पत्युः समर्जनात् ॥९३॥अनन्तकोटिसूर्येन्दुवह्निविद्युत्समप्रभम् ।अक्षरस्थं कृष्णनारायणं सा लभते सखी ॥९४॥पृथ्व्यां स्थितं बालकृष्णं कान्तं सा लभते सखी ।महावीर्यं महारूपं महाशक्तिप्रपूरितम् ॥९५॥आनन्दानां महावार्धि कान्तं सा लभते सखी ।मुक्तिबीजानि सर्वाणि लभते कृष्णकान्ततः ॥९६॥दिव्योन्मत्ता वर्तते सा मनुते स्वकृतार्थताम् ।तस्या दर्शनकर्तॄणां श्रोतॄणां वचसामपि ॥९७॥मुक्तिर्दिव्याऽक्षरधाम्नि भवेद् यान्त्यक्षरं हि ते ।मातश्चैवं बालकृष्णं कृष्णनारायणं पतिम् ॥९८॥प्राप्ताऽस्मि सर्वहृदयं कृतकृत्याऽस्मि सर्वथा ।न मे कृष्णादृते कश्चित् संसारो मानमर्हति ॥९९॥मद्विधा श्रीपतिं नारायणं श्रीबदरीश्वरम् ।या भजिष्यति भक्तानी मुक्तानी सा भविष्यति ॥१००॥एवमुक्त्वा विरराम क्षणं सा बालयोगिनी ।बद्रीप्रिये पुनः सा च मातरं प्राह वच्मि तत् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां दास्येन नारायणीस्वरूपताप्राप्त्यादिनिरूपणनामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP