संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये त्वं यत्प्राह श्रीबालयोगिनी ।नर्मकर्त्रीसमाख्यानं मातरं ब्रह्मरासनम् ॥१॥तत्ते वक्ष्यामि कृष्णस्य ब्रह्मरसाशनप्रदम् ।यच्छ्रुत्वाऽपि नरा नार्यस्तद्रीत्या यान्ति मोक्षणम् ॥२॥आसीद् ग्रामे कामयाने नाम्ना देवलको जनः ।तस्य भार्याऽभवत् साध्वी नर्मकार्यविचक्षणा ॥३॥औदासीन्यगतस्याऽपि महादुःखगतस्य च ।हास्यविनोदशून्यस्य हास्यं जनयते तु सा ॥४॥तत्कालोचितलावण्यपूर्णवाक्यैस्तथेतरैः ।यावद्रसप्रयोगैश्च नर्म जनयते द्रुतम् ॥५॥गृहे समागता लोकाः प्रसन्नमानसा ह्यति ।जायन्ते वार्तया तस्याः समर्पयन्ति चोपदाः ॥६॥धनं भूषा अम्बराणि मिष्टान्नानि शुभानि च ।धान्यानि चोपकरणान्यपि सर्वेऽर्पयन्ति च ॥७॥राजा राजसभायां च महोत्सवे निजोत्सवे ।सूरिकाव्योत्तरं तस्या हास्यरसं युनक्त्यपि ॥८॥सभा प्रसन्ना भवति मोदन्ते मानवा ह्यति ।राजा तस्यै महापारितोषिकं प्रददात्यपि ॥९॥एवं सा देवलभार्या नाम्ना विनोदिनी सती ।सौराष्ट्रे सुभगे देशे प्रसिद्धा संव्यजायत ॥१०॥हास्यकलाभ्यसनार्थं त्वायान्ति योषितो नराः ।तान् सा यथायथं सर्वान् शिक्षयत्यपि सर्वथा ॥११॥अथैकदाऽगमत्तस्या गृहे सतां सुमण्डलम् ।साध्वीनां मण्डलं चापि भगवद्भक्तिकारकम् ॥१२॥भोजिता वन्दिताः सर्वे गृहे स्वागतकर्मभिः ।तया प्रसेविताश्चापि रात्रौ चक्रुः सुकीर्तनम् ॥१३॥साधूनां कीर्तनं श्रुत्वा साध्वीनां गीतिकास्तथा ।परमेशमतिर्जाता भक्तिधर्मपरायणा ॥१४॥विनोदिन्या विचारोऽभूद् विनोदेन हरिः स्वयम् ।यथा सतां च साध्वीनां कीतनैः सुप्रसादवान् ॥१५॥सन्तुष्टो जायते कृष्णनारायणः परप्रभुः ।तथा भवेत् सुसन्तुष्टो नित्यं तथा करोम्यहम् ॥१६॥विचार्येत्थं ब्रह्मरसायनाख्यसाधुतस्तु सा ।जग्राह वैष्णवं मन्त्रं मोक्षदं तूलसीस्रजम् ॥१७॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।जजाप परमं मन्त्रं मूर्तिं जग्राह चित्रजाम् ॥१८॥पुपूज तां हरेर्मूर्तिं नित्यं प्रसेवते मुदा ।भक्ता जाता हरेः शुद्धा विनोदिनी विलासिनी ॥१९॥सा पप्रच्छ गुरुं साधुं ब्रह्मरसायनाऽभिधम् ।ब्रह्मानन्दमहामिष्टानन्दरसाप्तिसाधनम् ॥२०॥अत्यादरेण तां शिष्यां प्राह ब्रह्मरसायनः ।सर्वे रसा यत्र चैकीभवन्ति परमे रसे ॥२१॥श्रीमत्स्वामिबालकृष्णनारायणाऽवतारिणि ।तदाप्तिस्तद्रसाप्तेस्तु साधनं भगवान् स्वयम् ॥२२॥प्रेमभक्त्यात्मसर्वस्वनिवेदिता हरेःप्रिया ।आत्मनिवेदनेनाऽयं श्रीकृष्णः समवाप्यते ॥२३॥आत्मनिवेदनं स्नेहप्रेमानुरागसंभृतम् ।प्रातिकूल्याऽलसत्वाऽश्रद्धादिदोषविवर्जितम् ॥२४॥अन्यवृत्त्यप्रतिहतं सततस्फूर्तिगोचरम् ।दिव्याऽपरोक्षभानाढ्यश्रीकृष्णकान्तसंश्रितम् ॥२५॥पञ्चभूतशरीरेऽस्याऽऽवेशः कृष्णस्य सर्वथा ।इन्द्रियाणां गोचरेषु मूर्तिस्तस्यैव तद्गुणाः ॥२६॥तद्विषयास्तन्माधुर्यं तत्सुखं तत्प्रमोदिता ॥तद्रसस्तस्य संस्पर्शस्तद्रूपं तच्छ्रवस्तथा ॥२७॥तद्गन्धस्तस्य चादानं तद्विहारस्तत्सर्जनम् ।तदानन्दश्च मननं तस्य सञ्चिन्तनं मतिः ॥२८॥तन्मानं तन्निर्णयश्च तत्प्रमा तत्स्मृतिस्तथा ।तत्संस्कारास्तदिच्छा च स ज्ञेयो ज्ञप्तिसंग्रहे ॥२९॥स्फूर्तौ भाने विरामे च स एव गोचरः सदा ।अन्तर्बहिश्च स एव कृष्णनारायणः प्रभुः ॥३०॥गुप्ते प्रकाशे हृदये निर्जने सजनेऽपि सः ।क्रियायां निजचेष्टायां हास्ये प्रमोदने च सः ॥३१॥सर्वथाऽऽभूषणादौ च शृंगारेऽपि हरिर्हि सः ।स्नाने स्वपने धूल्यादौ विनोदे च व्रतेऽपि सः ॥३२॥स्वत्वे पारक्यरूपे च समर्पणे ग्रहेऽपि च ।आदाने च प्रतिदाने विनिमयेऽपि मापतिः ॥३३॥परितः सन्मुखे पृष्ठे मध्येऽधश्चार्धकेऽपि सः ।अनुयोगी प्रतियोगी संसर्गेऽपि हरिर्हि सः ॥३४॥आस्वाद्ये रस्यविकृतौ तृप्तौ पेयेऽतिशीतले ।काम्ये चाकर्षणे गोष्ठौ विनोदेऽपि च माधवः ॥३५॥गृहे वने चत्वरे च वितर्दौ मंचकेऽपि सः ।दोलायां च विमाने च याने च वाहनेऽपि सः ॥३६॥इष्यमाणे च तद्भिन्ने महानन्दात्मको हरिः ।आनुकूल्यप्रवाहे च प्रच्छाद्येऽपि प्रभुर्हि सः ॥३७॥एवं सर्वत्र भगवान् यस्याः श्रीकृष्ण एव हि ।तस्या भक्तिः प्रेमपूर्णा साधनं कृष्णलब्धिकृत् ॥३८॥कृष्णाप्तौ तद्रसाप्तिश्च शाश्वती चाऽनिवर्तिनी ।तद्योगजा भवेद् दिव्या चात्मार्पणरसादिजा ॥३९॥अन्यथा नाऽऽप्यते कृष्णो नाऽऽप्यते तद्रसोऽपि च ।नाप्यते शाश्वतानन्दो विनोदिनि! कृपां विना ॥४०॥सेवया त्वर्जयेत्तस्य कृपां स्नेहेन तन्मनः ।अर्पणेनाऽर्जयेत् कृष्णं कृष्णेन तन्महारसम् ॥४१॥फलं ब्रह्मरसं प्राप्य प्राप्तव्यं नाऽवशिष्यते ।इत्युक्ता गुरुणा साध्वी विनोदिनी तु देवली ॥४२॥गुरोः सेवां तथा चक्रे यथा शिक्षा समर्जिता ।नारायणः स्वयं कृष्णो गुरुर्नारायणः स्वयम् ॥४३॥प्रत्यक्षः सर्वफलदो यथाभक्तानुवर्तनः ।गुरुर्ब्रह्म गुरुः कृष्णो गुरुर्जीवहरिः प्रभुः ॥४४॥स एव तोषितः सम्यक् सर्वमानुषनाटनः ।तया प्रतोषितो देवेश्वराधिपनरायणः ॥४५॥मत्वैवं सा गुरुं भक्त्या तोषयामास सुन्दरी ।ब्रह्मचर्यपरा धर्मपरा सेवापरायणा ॥४६॥गुरुस्तस्या गृहे वासं चिरं चकार शान्तिमान् ।अथैकदा दधाराऽसौ रूपं देवलकस्य वै ॥४७॥अथ तं सुन्दरं कान्तं पतिं गुरुं विबुध्य सा ।उवाच परया प्रीत्या धन्याऽस्म्यनुग्रहाऽर्थिनी ॥४८॥यथेष्टं गुरुदेव त्वं मम स्वामिस्वरूपधृक् ।प्रसेवस्व निजां मत्वा ब्रह्मरसं प्रपायय ॥४९॥पातिव्रत्यं स्वाम्यधीनं स्वामी त्वं वर्तसेऽधुना ।नारायणस्वरूपस्त्वं स्वामिरूपोऽसि गृह्ण माम् ॥५०॥अथ प्रसन्नो गुरुराड् वीक्ष्य सर्वां सुभावनाम् ।अगृह्य तां ततश्चाशीर्वादं ददौ हृदा मुदा ॥५१॥भव दासी हरेः पत्नी भक्ता चैकान्तिनी परा ।दिव्यलक्ष्मीसमा शिष्या नारायणी नरोत्तमी ॥५२॥अहं त्वत्सेवया तुष्टो ददामि तेऽतिवैभवम् ।चमत्कारं दिव्यरूपधारिणी सुखिनी भव ॥५३॥इत्युक्त्वा श्रीगुरुर्ब्रह्मरसायनो विनोदिनीम् ।पस्पर्श करमात्रेण पाययामास वारि च ॥५४॥तावद् दिव्या पररूपा राधालक्ष्मीसमा सती ।निरावरणदेहा च सम्बभूव विनोदिनी ॥५५॥एवं जाता दिव्यदेवी दिव्यक्रियाऽतिमानुषी ।गुरुः पूजां गृहीत्वा च कृष्णपूजां समर्प्य च ॥५६॥तिरोबभूव सहसा विद्युल्लतेव चाम्बरे ।वीक्ष्यैवं परमं श्रेष्ठं चमत्कारं गुरावपि ॥५७॥विनोदिनी महाश्चर्यपरा स्तब्धाऽभवत् क्षणम् ।तर्कयामास बहुधा कोऽयं गुरुस्वरूपधृक् ॥५८॥साक्षान्नारायणः किंवा नरो नारायणाऽनुजः ।ईश्वरो वाऽन्तरात्मा वा परब्रह्म प्रभुश्च वा ॥५९॥दिव्यतां संगता यस्य कृपया स्पर्शनेन च ।तथापि दिव्यदृष्ट्याऽयं गुरुर्मया न वीक्ष्यते ॥६०॥अतोऽतिदिव्यलोकस्थो भवेन्नारायणो गुरुः ।मायालोकास्तु मे दृष्टेर्गोचराः सन्ति चाऽधुना ॥६१॥दृश्यते न गुरुस्तत्र ततो ब्रह्म भवेदयम् ।अहो प्राप्तो विनोदिन्या विनोदेन विनोदकृत् ॥६२॥अथापि धन्यभाग्याऽस्मि गुर्वर्पिताममायिकीम् ।कृष्णमूर्तिं भजिष्येऽहं यतिष्ये लब्धये पुनः ॥६३॥इत्येवं सा महाशान्तिं मत्वा ध्यायति चाच्युतम् ।तावदन्ये साधवश्च साध्व्यश्चापि तिरोऽभवन् ॥६४॥सर्वे ते श्रीकृष्णनारायणमूर्तौ लयं गताः ।अथ प्राप्ता निश्चयं सा गुरुर्मूर्तिरियं यतः ॥६५॥साक्षान्नारायणे कृष्णे सर्वेऽत्र विलयं गताः ।गुरुर्मूर्तिं च मे दत्वा तिरोऽभवन्न लोक्यते ॥६६॥ततः सोऽयं वर्ततेऽद्य स्वामिकृष्णनरायणः ।एवं त्वतिप्रसन्तुष्टा प्राह देवलकं पतिम् ॥६७॥मूर्तिश्चाऽयं स्वयं साधुर्ब्रह्मरसायनात्मकः ।चेतनोऽपि प्रतिमाऽऽस्ते धन्यः स्वामिन् भवस्यपि ॥६८॥आवयोः परमं भाग्यं विनोदेन च देहिनाम् ।अन्तरात्मा प्रतुष्टः सन्नस्मद्गृहमपाययौ ॥६९॥विनोदयिष्ये सततं तं साक्षात्पुरुषोत्तमम् ।सेवां करोतु भगवन् भवान् स्वामिन् सदाऽस्य वै ॥७०॥अथ मूर्तिं सजीवां तां सेवेते तौ मुदान्वितौ ।यथोक्तरीत्या देवेशं यथासत्कारमाननम् ॥७१॥देवलको नित्यमेवाऽर्चयत्यच्युतमुत्सुकः ।किन्तु विनोदिनी भेजे प्रभुं प्रत्यक्षवत् पतिम् ॥७२॥तथापि श्रीकृष्णनारायणश्चेतनरूपवान् ।नाऽऽविर्भवति मूर्तेस्तु भावाभिज्ञश्चिरं क्वचित् ॥७३॥अस्थैर्यं तु विनोदिन्याः परीक्षितुं समिच्छति ।विनोदिनी गते वर्षे मूर्तेः सेवनतस्ततः ॥७४॥व्रतं जग्राह मूर्त्यग्रेऽनशनं दर्शनेच्छया ।मासं व्रतं चकारैव मूर्त्यग्रे कमलासने ॥७५॥सन्निषक्ता करे मालां धृत्वा जजाप केशवम् ।नेत्राभ्यां तन्मूर्तिरूपं मनसा मननं हरेः ॥७६॥आत्मना स्फुरणं तस्य स्वप्नादौ प्रतिमां हरेः ।आलोचयति नान्यद्वै पूजायां स्पर्शनं व्यधात् ॥७७॥यावदिन्द्रियवृत्तीः सा नियुयोजान्तरे हरौ ।बाह्ये हरौ नियुयोज बाह्यभानाऽपि सुन्दरी ॥७८॥बाह्यान्तरैक्यमापन्ना चैकतानपरायणा ।अभवत् सा सती भक्ता विनोदिनी वरेऽच्युते ॥७९॥अथ श्रीभगवानस्या हास्यरसाभिलालसः ।नाविर्भवति व्यक्तात्मा प्रतीक्षते विनोदनम् ॥८०॥मासोत्तरो व्यतीयाय समयस्त्वेककाऽऽसने ।ततो मूर्तेर्विनोदं सा कर्तुमारब्धवत्यपि ॥८१॥दृश्यसे त्वं चैकमुखो तथापि विमुखो ह्यसि ।द्विमुख्याः पञ्जरे न्यस्तो भविष्यस्यमुखोऽन्तरे ॥८२॥प्रस्रवणप्रशून्यस्त्वं चाऽव्यक्तस्रवणे धृतः ।भविष्यस्यस्रवो नित्यं सस्रवो भव मत्कृते ॥८३॥एवं विनोदवाक्यानि मूर्तेर्हास्याय मानिनी ।मुक्तकण्ठेन सततं जगाद कृष्णसन्निधौ ॥८४॥अथाऽप्याह हरिं सा च नर्मवाक्यं ततः परम् ।महद्रूपोऽसि सततं वितस्तिमूर्तितां गतः ॥८५॥प्रवेष्टुं च हिरण्गर्भं किमिच्छसि तथा कुरु ।एवमाभाष्यासनात् सा समुत्थाय ननर्त ह ॥८६॥तावत्प्रसन्नतां प्राप्तः स्वामिकृष्णनरायणः ।मूर्तिं विवृत्य सहसा तेजसा व्याप्तविग्रहः ॥८७॥युवा किशोरः समभूद्धास्यं कृत्वा पुरःस्थितः ।समाश्लिष्यत् सतीं भक्तामपाययद् रसं निजम् ॥८८॥मूर्तेः सुखं ददौ तस्यै सर्वेन्द्रियादिगोचरम् ।ततो विनोदिनीं मूर्तौ लीनीभूतां चकार सः ॥८९॥यावत् स्वस्य सुखं दिव्यं सर्वं तस्यै ददौ प्रभुः ।तृप्ताऽभवत्तु सा दिव्या दिव्यमुक्तानिका द्रुतम् ॥९०॥अभवन्मायया हीना ब्रह्मलोके स्थिता यथा ।तावत् तत्र महापुण्यैर्देवलोऽपि समाययौ ॥९१॥वीक्ष्य कान्तेन कृष्णेन कार्ष्णीं विनोदिनीं सतीम् ।निजं चापि तथैच्छत् सः कृष्णे द्रवमवाप्तवान् ॥९२॥श्रीकृष्णोऽपि परं भावं ज्ञात्वा देवलकान्तरे ।सखीरूपं विनोदिन्या इव तं योषितं व्यधात् ॥९३॥नररूपं विहायैव सखी देवलिकाऽभवत् ।विनोदिनीसमा रूपे सर्वथा कृपया हरेः ॥९४॥यथा लक्ष्मीःप्रिया राधा तथा देवलिकाऽभवत् ।उभे मुक्तानिके जाते दिव्ये दिव्यविभूषिते ॥९५॥दिव्यब्रह्मरसाढ्ये च दिव्यकृष्णस्वरूपिके ।लीने जाते कृष्णनारायणे तद्देहसंस्थिते ॥९६॥एवं श्रीकृष्णकान्तस्ते ह्युभे धाम निनाय वै ।शाश्वते ब्रह्मपरमानन्दसुखे ममज्जतुः ॥९७॥मातश्चैवं ब्रह्ममहारसपानाशनं सदा ।जायते कृष्णभक्तायास्तथा मे विद्यतेऽधुना ॥९८॥न मेऽन्यत्राऽस्ति भवनं भावना श्रीहरिं विना ।ब्रह्मरसो हरावस्तीत्युक्त्वा मौनं समादधत् ॥९९॥इत्येवं बदरीदेवि परब्रह्मरसोऽव्ययः ।यथाऽऽप्यते तयाऽऽप्तश्चोभाभ्यामाप्तस्तथोदितः ॥१००॥या चाऽन्या वाऽन्य एवापि सर्वस्वभावनार्पणात् ।उक्तरीत्या परब्रह्मानन्दरसमवाऽप्नुयात् ॥१०१॥परब्रह्मरसाऽवाप्तौ परब्रह्माऽस्ति कारणम् ।साधुरूपस्य सेवाऽपि परब्रह्माऽऽप्तिकारणम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां परब्रह्मरसाशनाप्तये विनोदिन्या देवलकपत्न्या विनोदेन प्रसादितभगवतो ब्रह्मरसायनसाधुरूपेण साक्षात्प्राप्तिर्मोक्षणं देवलकस्य सखीत्वं चेत्यादिनिरूपणनामा षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP