संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ११७

तिष्यसन्तानः - अध्यायः ११७

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि विमानगाः समर्चिताः ।
रहस्याऽनादिमुक्तैस्तैर्वीक्ष्य दुर्गं तमष्टमम् ॥१॥
बालकृष्णेरिताश्चाऽग्रे ययुर्देशाँस्ततः परान् ।
अनन्ताऽसंख्यमानांश्चाऽतर्क्यर्द्धिसंभृतान् शुभान् ॥२॥
अनादिश्रीकृष्णनारायणतेजोभिसंभृतान् ।
यत्राऽनादिमहायुक्ता वसन्ति सर्वतः खलु ॥३॥
यत्र रहस्यमुक्ताश्च निवसन्ति हरेः प्रियाः ।
यत्र तादात्म्यमुक्ताश्च सदा वसन्ति भूमिषु ॥४॥
यत्र वसन्ति च मूर्तिमुक्ता अभिन्नभावनाः ।
यत्र वसन्ति चाऽदृश्यमुक्ताः कृष्णैकगोचराः ॥५॥
बद्रिके! वर्णनं चाऽस्याः स्थितेर्बुद्धेः परं मम ।
तान् प्रदेशान् लोकयन्तो ययुरग्रे विमानगाः ॥६॥
व्यपश्यँस्ते तादृशानां मुक्तानां नगराणि वै ।
पत्तनानि नगरीश्च वसतीन् राष्ट्रकाणि च ॥७॥
कृष्णनारायणाऽऽनन्दवाहिन्यो येषु चापगा ।
कृष्णनारायणमूर्तिरसध्राणि सरांसि च ॥८॥
कृष्णनारायणाऽऽस्वादवत्यो येषु तु दीर्घिकाः ।
कृष्णनारायणाऽऽस्योत्थताम्बूलरससागराः ॥९॥
कृष्णनारायणाऽऽश्लेषजन्याऽमृतभरा च भूः ।
कृष्णनारायणमूर्तिध्राणि रजांसि येषु च ॥१०॥
कृष्णनारायणमूतिध्राणि वनानि येषु च ।
कृष्णनारायणमूर्तिफलिका येषु वल्लयः ॥११॥
कृष्णनारायणमूर्तिपुष्पिणः स्तबकास्तथा ।
कृष्णकान्तधरा वाट्यः आरामाः कृष्णयोगिनः ॥१२॥
उद्यानान्यभितः सन्ति कृष्णमयानि यत्र च ।
तृणानि मुक्तरूपाणि सस्यानि तादृशानि च ॥१३॥
कृष्णनारायणमूर्तिधराणि सन्ति चाभितः ।
विविधानां च मुक्तानां ध्यानसेवाजुषां हरेः ॥१४॥
मण्डलानि विराजन्तेऽभितः सभागृहेषु वै ।
कामरूपधराः सर्वे काममणिप्रधारिणः ॥१५॥
कामपूरककृष्णस्य कलांऽशाऽऽवेशरूपिणः ।
कृष्णांगरूपिणः सर्वे कृष्णाऽभिन्नस्वरूपिणः ॥१६॥
कृष्णानन्दभराः कृष्णाऽपृथक्सिद्धविशेषणाः ।
अनन्तभूप्रदेशस्था रिक्तस्थलीविवर्जिताः ॥१७॥
प्रत्येकं श्रीहरेर्मूर्त्या सहिताः सन्ति सन्मुखाः ।
वनारण्यमहामुक्ताः सर्वेऽपि कृष्णमूर्तयः ॥१८॥
पर्वतादिमहामुक्ताः सर्वेऽपि कृष्णमूर्तयः ।
नदीनदमहामुक्ताः सर्वेऽपि कूष्णमूर्तयः ॥१९॥
सीमवाटीमहामुक्ताः सर्वेऽपि कृष्णमूर्तयः ।
आरामोद्यानगा मुक्ताः सर्वेऽपि कृष्णमूर्तयः ॥२०॥
ग्रामपत्तनमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ।
नगरावासमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ॥२१॥
प्रसादालयमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ।
कृष्णमण्डलमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ॥२२॥
शाखिप्रशाखिमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ।
वन्यनागरिका मुक्ताः सर्वेऽपि कृष्णमूर्तयः ॥२३॥
स्वामिकान्तस्य मुक्तान्यः सर्वास्ताः कृष्णमूर्तयः ।
शक्तयश्चापि मुक्तान्यः सर्वास्ताः स्वामिमूर्तयः ॥२४॥
परब्रह्मप्रियाः कृष्णहरिप्रियाश्च शक्तयः ।
सर्वा रहस्यमुक्तान्यः सर्वथा हरिमूर्तयः ॥२५॥
अरे बद्रि विभूषाश्च चेतना हरिमूर्तयः ।
अरे बद्रि स्वर्णवेषाश्चेतना हरिमूर्तयः ॥२६॥
अरे बद्रि च शृङ्गाराश्चेतना हरिमूर्तयः ।
अरे बद्रि चायुधानि सर्वाणि हरिमूर्तयः ॥२७॥
अरे बद्र्युपस्कराणि सर्वाणि हरिमूर्तयः ।
अरे बद्रि प्रभोग्यानि सर्वाणि हरिमूर्तयः ॥२८॥
अरे बद्रि सुवर्ष्माणि सर्वाणि हरिमूर्तयः ।
अरे वद्रि च हर्म्याणि सर्वाणि हरिमूर्तयः ॥२९॥
अरे बद्रि समस्तानीन्द्रियाणि हरिमूर्तयः ।
अरे बद्रि पृथग् यानि तानि वै हरिमूर्तयः ॥३०॥
अरे बद्रि निजात्माऽपि तत्राऽऽस्ते हरिमूर्तिकः ।
यत्किञ्चिद्वर्तते धाम्नि परे तत् कृष्णमूर्तिकम् ॥३१॥
सर्वं हर्यात्मकं कृष्णस्वरूपं नान्यदस्ति तत् ।
कृष्णानन्दसुखं कृष्णाऽपृथक्प्रसिद्धविग्रहम् ॥३२॥
एकमेवाऽद्वितीयं तन्नान्यत् पश्यति नेतरः ।
सर्वं श्रीकृष्णकान्तात्मान्वितं तद्रूपरूपितम् ॥३३॥
तत्र किं केन गृह्णीयात् स्वात्मकं स्वं प्रविन्दते ।
एतादृशं परब्रह्म वर्तते सर्वतोऽन्वितम् ॥३४॥
बद्रिकेऽण्डप्रदेशेऽपि परब्रह्म प्रकाशते ।
परा ब्राह्मी महाविद्योपनिषत् सेयमुच्यते ॥३५॥
एतामधीत्य मुक्तोऽपि परब्रह्मायते तदा ।
अमुक्तो मुक्ततां याति मुक्तोऽनादिप्रमुक्तताम् ॥३६॥
अनादिमुक्त एवापि याति रहस्यमुक्तताम् ।
रहस्यमुक्त एवापि याति तादात्म्यमुक्तताम् ॥३७॥
तादात्म्यमुक्तः संयाति परब्रह्मस्वरूपताम् ।
नाऽन्यदस्याऽवशिष्टं स्याज्ज्ञातव्यं परमं ततः ॥३८॥
नाऽन्यदस्य तथाऽऽप्तव्यं शिष्येत कान्ततः परम् ।
स्वः कान्तः कान्त एव सः सा कान्ता कान्त एव सः ॥३९॥
यत्साम्यमेवाऽस्य न किञ्चिदस्ति
यस्मात्परं नास्ति तथा च किञ्चित् ।
यद्गर्भमेवाऽखिलमस्य चास्ति
तद्भाव्य विद्वान्न पृथक् प्रशास्ति ॥४०॥
का वा प्रिया तत्र च कः प्रियोऽस्य
यस्य प्रियं सर्वमयं स एव ।
तं प्रेष्ठकान्तं परिरभ्य धाम्नि
परे पृथक्त्वं विजहाति मुक्तः ॥४१॥
सोऽयं प्रियः सैव परा प्रिया च
स एव भोक्ता च भुजिष्यिका सा ।
स गर्भनिष्ठो हृदये बहिश्च
तं प्राप्य कान्तं वृजिनं हिनस्ति ॥४२॥
ब्रह्मप्रियाः कृष्णरमाश्च बद्रिके
हरिप्रिया मुक्तरमाश्च ताः खलु ।
तं प्राप्य कान्तं च समस्तरूपिणं
स्थातुं हि तत्रैव मनांसि चक्रिरे ॥४३॥
विमानगास्ताः खलु कृष्णदेहिनो
मुक्ता अपि कण्ठमणीच्छया मुहुः ।
समुत्सुकाः कृष्णपतिस्पृहार्थिनो
मुहुर्व्यपश्यन् स्मितभावगर्भिकाः ॥४४॥
हरिः प्रविज्ञाय च वीक्ष्य भावं
निजं परं प्रेम तथाविधं च ।
प्रदर्श्य शीघ्रं ह्यनयत् पुरं स्वं
परात्परं सर्वपरं महोलम् ॥४५॥
विमानगाश्च ते सर्वे वीक्ष्य मुक्तमयीं भुवम् ।
पारब्राह्मीं च वसतिं ययुः श्रीकृष्णमन्दिरम् ॥४६॥
सर्वमुक्तनगराणां वर्तुलानां च गर्भगम् ।
महादुर्गाभिसम्पन्नं निजं रहस्यमन्दिरम् ॥४७॥
बद्रिके! ते स्पृहावन्तो धाम्नि स्थातुं विमानगाः ।
परब्रह्मपुरं दूरान् मुक्तवसतिमध्यगम् ॥४८।
व्यपश्यन् यावदेवेति तावन्नेत्राणि सत्वरम् ।
तेजोऽभिभूततेजांसि मिमिलुर्वै विमानिनाम् ॥४९॥
परब्रह्मपुरं दृष्टमशक्तास्ते विमानगाः ।
महिमानं विदुः स्वेषां स्वामिनस्तेजसां तदा ॥५०॥
प्रार्थयन् परमात्मानं दृष्टिं दातुं तदुत्तमाम् ।
हरिर्ददौ निजां पराकाष्ठितां दृष्टिमुत्तमाम् ॥५१॥
निजनेत्रमयीं दृष्टिं निजनेत्रऽपृथक्स्थिताम् ।
तदा विमानगाः सर्वे स्फारनेत्राः सशक्तिकाः ॥५२॥
अभवन्निर्निमेषाश्च कृष्णतेजःसहाः सदा ।
विमानानि ययुर्द्राक् च परब्रह्मपुरान्तिकम् ॥५३॥
घनतेजोघनतेजोघनतेजोऽतिघट्टितम् ।
यत्र ततोऽपि च सद्धट्टतेजोघट्टातितैजसम् ॥॥५४॥
परब्रह्मपुरदुर्गं व्यपश्यँस्ते विमानगाः ।
अनादिश्रीकृष्णनारायणात्मतत्त्वनिर्मितम् ॥५५॥
सर्वाश्चर्यमयं दिव्यं रहस्यमुक्तसंश्रितम् ।
कण्ठमणिमहामुक्तप्रेममुक्ताधिवासितम् ॥५६॥
कोट्यर्बुदाब्जपत्नीनां दासा दास्यश्च सेवकाः ।
पुत्रा पुत्र्यश्च या ये च ते सर्वे कृष्णरूपिणः ॥५७॥
तत्र दुर्गे निवसन्ति परार्धयोजनावृते ।
असंख्यर्द्धियुते सर्वकृष्णभोगाभिपूरिते ॥५८॥
दिव्यगोपुरभूम्यब्जोच्छ्रयेऽन्तःपुररक्षके ।
विमानस्था विलोक्याऽपि तान् सर्वान् कृष्णरूपिणः ॥५९॥
समानान् ज्ञातवन्तो न पुत्रीः पुत्राँश्च सेवकान् ।
ऋषीन् साधून् यतीन् साध्वीर्विविदुर्न यदा तदा ॥६०॥
प्रवेदनपरां बुद्धिं ददौ तेभ्यो हरिः प्रभुः ।
द्रुतं प्रोद्भिन्नमतयः सर्वज्ञास्तेऽभवन् द्रुतम् ॥६१॥
सर्वाऽऽवेदनयोग्याश्च सर्वांस्ते विविदुस्तदा ।
मम पुत्रो ह्ययं पुत्री चेयं दासो ममाऽप्ययम् ॥६२॥
मम माता पिता चाऽयं मम दासी त्वियं सुहृत् ।
इत्येवं प्राप्तविज्ञानाः प्रमोदिनो विमानगाः ॥६३॥
सहर्षाश्चात्मसम्बोधा मिथो गाथाः प्रचक्रिरे ।
बद्रिके ते रहस्याख्या मुक्ता अपि च सत्वरम् ॥६४॥
विमानगान् पिता मेऽयं मातेयं मे सुहृन्मम ।
बन्धुश्चाऽयं क्षितौ देशे पुत्रोऽयं पुत्रिका त्वियम् ॥६५॥
इत्येवं बहुधा व्यक्तमवोचुर्वीक्ष्य चाम्बरे ।
श्रुत्वा वीक्ष्य निसर्गोत्थस्नेहाः कुतुहलान्विताः ॥६६॥
ससंभ्रमाः सचाञ्चल्या दुद्रुवुः प्रेमपूरिताः ।
सपूजोपस्करपात्रकरास्ते कृष्णमूर्तयः ॥६७॥
विमानगाः समस्तास्तेऽपि च तान् प्रेमनेत्रिणः ।
आलोकयन्तः स्नेहाढ्यास्तदाह्वानं प्रचक्रिरे ॥६८॥
कोटिकोटिविमानानामवतारणभूमिषु ।
दुर्गमध्यस्थलीष्वेते स्वागतार्थं समाययुः ॥६९॥
सर्वसौगन्ध्यलावण्यव्याप्तौद्यानसुभूमिषु ।
परब्रह्ममहोलस्याऽगारभागात्मिकासु वै ॥७०॥
जयशब्दान् सुखशब्दाँश्चक्रिरे ते मुदान्विताः ।
अवतेरुर्विमानानि कृष्णनारायणेच्छया ॥७१॥
तानि सर्वाणि ते मुक्ता अक्षतैः कुसुमादिभिः ।
चन्दनैरमृतैस्तोयैर्वर्धयामासुरुत्सुकाः ॥७२॥
मिमिलुश्चावतीर्णास्तान् निजान्निजान् हरिप्रियान् ।
समाश्लिषन् मिथो वक्षोमेलनैर्नेत्रमेलनैः ॥७३॥
आननानां मेलनैश्च देहानां मेलनैस्तथा ।
अथ बद्रिप्रिये देवि रहस्यं शृणु चोत्तमम् ॥७४॥
विमाने ये स्थिताश्चासन् नारीमुक्तादयोऽखिलाः ।
अवतीर्णा विमानात्तु यदा तदा पुरः स्थितान् ॥७५॥
व्यलोकयन्निजरूपान् स्वागतार्थं समागतान् ।
अनादिसिद्धमुक्ताँस्तान् कृष्णकान्ताऽऽत्मकान् शुभान् ॥७६॥
सदा परमधामस्थान् परब्रह्मपुराश्रयान् ।
स्वात्मकान् स्वाऽपररूपान् स्वभावगुणरूपिणः ॥७७॥
स्वागतं कुर्वतः स्वेषां स्वपूजार्थं समागतान् ।
स्वाऽभिन्नरूपिणस्ताँश्च स्वाँश्च तच्छायिकात्मकान् ॥७८॥
वीक्ष्य विज्ञाय मूलात्मरूपिणः सर्वतः स्थितान् ।
आश्चर्यं परमं प्राप्ता अभवन् वै विमानिनः ॥७९॥
कृष्णपूजोत्तरं पूजां प्राप्य कृष्णाज्ञया तु ते ।
विमानिनो ययुस्तैस्तैः सहिताः स्वस्वकालयान् ॥८०॥
विमानिना तु मुक्तेन प्रत्येकेन सह प्रभुः ।
अनादिश्रीकृष्णनारायणो ययौ तदालयम् ॥८१॥
तस्य तस्य गृहे दिव्यगजासनेऽपरो हरिः ।
राजते मूलरूपोऽपीत्येवं व्यलोकयन् हरिम् ॥८२॥
हरिद्वयं निजरूपद्वयं वीक्ष्य विमानिनः ।
स्वीयमनादिमुक्तत्वं रहस्यमुक्ततामपि ॥८३॥
विविदुर्दिव्यविज्ञानाश्चान्तर्भावं निजात्मनि ।
मूलरूपे ययुः सर्वे कृष्णो कृष्णे तिरोऽभवत् ॥८४॥
सर्वेऽनादिकृष्णरूपा मूलरूपा यदाऽभवन् ।
बद्रिके दिव्यपरमां विश्रान्तिमापुरुत्तमाम् ॥८५॥
यथा विदेशे विहृत्य स्वगृहे शान्तिमेति ह ।
तथा विश्रान्तिमापन्ना विसस्मरुर्विदेशकान् ॥८६॥
अहो कृष्णस्य सामर्थ्यं दिव्याऽदिव्यमतिप्रदम् ।
अनन्तरूपधारित्वमसंख्यरूपदत्वकम् ॥८७॥
विमानानि विमानेषु व्यलीयन्त क्षणात्तदा ।
भूषावेषस्मृद्धयश्च व्यलीयन्त तदर्द्धिषु ॥८८॥
अनादिश्रीकृष्णनारायणरूपं समस्तकम् ।
एकमेवाऽद्वितीयं वै रूपतो गुणतोऽपि च ॥८९॥
अभवत् सर्वमेवेति लीलां जानाति को हरेः ।
गृहे गृहे हरिश्चास्ते मुक्तं मुक्तं प्रति प्रभुः ॥९०॥
ब्रह्मप्रियादिकाः सर्वा रहस्यमुक्ततां गताः ।
कोट्यर्बुदाब्जकोट्यश्च प्रासादाश्चातिशोभनाः ॥९१॥
असंख्यर्द्धियुतास्तत्र परब्रह्मपुरे स्थिराः ।
कण्ठमणिप्रभावेण प्रासादेषु स्थिताश्च ते ॥९२॥
विविदुश्च निजं पत्नीभावं कृष्णं हरिं प्रति ।
सिषेविरे तथैवैनं पतिं नारायणं प्रभुम् ॥९३॥
तदंगार्धस्वरूपाढ्याः प्राप्य स्वं शाश्वतं पुरम् ।
परब्रह्माऽमृतस्नानं चक्रिरे ते तदा गृहे ॥९४॥
परब्रह्माऽक्षतपुष्पचन्दनैः कृष्णमीजिरे ।
परब्रह्मरसास्वादामृतानां भोजनं व्यधुः ॥९५॥
परब्रह्माऽमृतवारिपानं प्रचक्रिरे प्रियाः ।
परब्रह्म परं कान्तं सिषेविरे निरन्तरम् ॥९६॥
परब्रह्मणः कान्तस्योपासनां चक्रिरेऽन्वहम् ।
परब्रह्मपराभक्तिं व्यधुस्ते नित्यमुक्तिगाः ॥९७॥
परब्रह्मानन्दवार्द्धिं बुभुजिरेऽतिसेवया ।
विविदुर्न परं किञ्चित् कान्तसुखात् सुखेतरत् ॥९८॥
कृष्णस्य कृपया पत्न्यः प्रापुः कृष्णस्वरूपताम् ।
अथ श्रीभगवाँस्ताभ्यो दर्शयितुं स्वमन्दिरम् ॥९९॥
कोट्यर्बुदाब्जकोटीनां प्रासादानां तु मध्यगम् ।
मनश्चक्रेऽथ वै कृष्णः सर्वाः प्राह प्रियं वचः ॥१००॥
परब्रह्ममहोलाख्यसभास्थानं प्रयाम्यहम् ।
आयान्तु सहसा सर्वास्तत्र मत्परमं पदम् ॥१०१॥
प्राप्तवत्यो भवत्योऽत्र सालोक्यं सार्ष्टि चेत्यपि ।
सायुज्यं चापि सारूप्यं चैकत्वं परिशिष्यते ॥१०२॥
तदप्यहं दर्शयामि परधिष्णयस्थिते मयि ।
इत्येवं बद्रिके प्रोक्त्वा कृष्णनारायणप्रभुः ॥१०३॥
तिरोभवद्द्रुतं तत्तन्मन्दिरात् प्रययौ सभाम् ।
यत्र राजाधिराजेशाधिराजेश्वरपूजितः ॥१०४॥
अनाद्यनन्तमुक्तेशेश्वरमुक्तादिपूजितः ।
असंख्यानन्तविभवैरवतारैश्च पूजितः ॥१०५॥
असंख्यदिव्यशक्त्याद्यैरायुधैरभिपूजितः - ।
सर्वसृष्टिस्वराट् चास्ते सर्वधामस्वराट् पतिः ॥१०६॥
अनादिश्रीकृष्णनारायणार्यः कृष्णकेशवः ।
स्वयं मूले स्वरूपे स्वे गत्वा स्थिरोऽभवद्धरिः ॥१०७॥
कंभरानन्दनो योऽयं गोपालकृष्णबालकः ।
प्रभुः पद्मावतीस्वामी राधालक्ष्मीवरोत्तमः ॥१०८॥
परमात्मा परब्रह्म परमेशः परेश्वरः ।
पुरुषोत्तमसंज्ञो वै भूत्वा धिष्ण्ये स्थिरोऽभवत् ॥१०९॥
बद्रिके मुक्तकोट्यस्ता आययुश्च सभां प्रति ।
हर्षिताः स्वपतिं प्रोष्य प्राप्ता पुनर्यथांऽगनाः ॥११०॥
भुवि प्राकट्यदिवसे सप्तविंशतिसंख्यके ।
ऊर्जकृष्णाष्टमीरूपे प्रातरेव प्रियादिकाः ॥१११॥
अनादिश्रीकृष्णनारायणस्मारितमुत्सवम् ।
कर्तुं तूर्णं ययुः सर्वे मुक्ता मुक्तानिकास्तदा ॥११२॥
गजासने स्थितं कान्तं सभामहोलकेऽभितः ।
स्थित्वाऽऽनर्चुः स्वामिनं स्वं चारार्त्रिकं व्यधुस्तथा ॥११३॥
असंख्यमुक्ता आगत्य दिव्योपचारकैर्हरिम् ।
पुपूजुः परया प्रीत्या जयनादान् प्रचक्रिरे ॥११४॥
तत्रत्याः प्रययुः सर्वे प्रपूज्य च निजालयान् ।
सहायातास्तु ये ब्रह्मप्रियाद्या मुक्तकोटयः ॥११५॥
ते सर्वे तु समैच्छन् वै द्रष्टुं कृष्णमहोलकान् ।
ओमित्याह तदा मुक्तान् दर्शयामीति चाह तान् ॥११६॥  
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽष्टमदुर्गोत्तरस्थाः परधामप्रदेशाः, परब्रह्मपुरदुर्गः, परब्रह्मात्ममुक्तवसतयः, परब्रह्मपुरस्थानां वैमानिकानां स्वरूपद्वयेऽप्यैक्यं, परब्रह्मपुरे
स्वस्वालयेष्ववतरणम्, स्वागतं विश्रमणं, परब्रह्मणः सभायां स्वशाश्वतधिष्ण्यं प्रति गमनमित्यादिनिरूपणनामा सप्तदशाधिकशततमोऽध्यायः ॥११७॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP