संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७५ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये लक्ष्मि मागधस्य कथां शुभाम् ।अमृताख्यनगरे वै तदाऽऽसीन्मागधो जनः ॥१॥नाम्ना तु हर्षनयनो वंशोपवंशबोधवान् ।वंशोपवंशपूर्वेषां चरित्राख्यानकारकः ॥२॥राज्ञां पञ्चनदीयानां सिन्धुजानां विशेषतः ।स शुश्राव जनेभ्यो वै चमत्कारं कथोद्भवम् ॥३॥राज्ञां प्रजानां बह्वीनां मोक्षणं पापनाशनम् ।ततो विचार्य सहसा कथाऽऽकर्णनहेतवे ॥४॥आययौ शर्करापुर्यां कथामण्डपमागतः ।नेमे सर्वान् संहितां च व्यासं श्रीलोमशं हरिम् ॥५॥साधुजनान् सतीः साध्वीर्वैष्णवान् नृपतींस्तथा ।श्रोतॄन् राज्ञीजनाँश्चापि नेमे शुश्राव सत्कथाम् ॥६॥कथान्ते स तु वंशान् वै नारायणसमुद्भवान् ।जगाद भक्तियुक्तश्च रञ्जयामास मानवान् ॥७॥ 'अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।एको दिव्येश्वरकोट्यवतारकोटिकारणम् ॥८॥अक्षरे परमे धाम्नि राजते पुरुषोत्तमः ।तद्वंशे प्रथमं कृष्णो व्यासुदेवो व्यजायत ॥९॥ततो नारायणो जातो महाविष्णुस्ततः परम् ।ततो विराड् विराजाच्च ब्रह्मविष्णुमहेश्वराः ॥१०॥ब्रह्मतः सनकाद्याश्च ऋषयो मानवादयः ।कुंकुमवापिकाक्षेत्रे त्वश्वपट्टसरोवरे ॥११॥अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।कंभराश्रीमहालक्ष्मीसुतो गोपालनन्दनः ॥१२॥लक्ष्मीराधारमाकृष्णाप्रज्ञापद्मावतीपतिः ।माणिकीसुखदालक्ष्मीललिताकमलापतिः ॥१३॥व्रह्मप्रियापतिर्मुक्तपतिर्मुक्तानिकापतिः ।हरिप्रियापतिः सर्वपतिर्ब्रह्मपतिः प्रभुः ॥१४॥वर्तते विप्ररूपोऽद्य सर्वगोत्राऽग्रशाश्वतः ।गीयतेऽत्र हरिर्लक्ष्मीनारायणकथादिभिः ॥१५॥जयत्वत्र महाराजराजाधिराजपुंगवः ।विधाता श्रेयसां कर्ता मोक्षस्य दुःखनाशनः ॥१६॥शरणागतरक्षाकृत् जयत्वानन्दशेवधिः ।परब्रह्म हरिकृष्णो नित्यं विजयतेतमाम् ॥१७॥साधवो विजयन्ते च वैष्णवा विजयन्त्यति ।एवं श्रीबद्रिके हर्षनयनः श्रीपतिं हरिम् ॥१८॥अभिष्टूय सभायां स दण्डवत् प्रचकार ह ।तुलसीदलपुष्पाणि फलानि शर्करास्तथा ॥१९॥पूगीफलं च मुद्रां च कानकीं चाम्बरं शुभम् ।व्यासाय च तथा संहितायै न्यधात् प्रपूज्य च ॥२०॥नमश्चक्रे प्रसादं च जगृहे चरणामृतम् ।मन्त्रं च नामधुन्यं च जगृहे व्यासदेवतः ॥२१॥जजाप मन्त्रं नित्यं स चक्रे धुन्यप्रकीर्तनम् ।शुश्राव च कथां नित्यमेकतानोऽभवत् सदा ॥२२॥पावनः पूर्णभाग्यश्च समजायत मागधः ।ज्येष्ठकृष्णैकादश्यां तु सायं भक्त्या वशीकृतः ॥२३॥अनादिश्रीकृष्णनारायणो विमानमास्थितः ।आययौ तं समानेतुं दिव्यः श्रीसेवितो हरिः ॥२४॥मागधं हर्षनयनं संकृत्वा दिव्यविग्रहम् ।अवस्थाप्य विमाने तं निन्ये धामाऽक्षरं निजम् ॥२५॥शृणु बद्रीप्रिये देवि कथां चान्यां प्रपावनीम् ।दासस्तत्राऽभवद् वृद्धः संहितामण्डपस्थले ॥२६॥रात्रौ रक्षाकरो नित्यं जागर्ति यश्च रक्षति ।नित्यं स भजते कृष्णं कथां शृणोति भावतः ॥२७॥प्रदक्षिणं निशान्ते च करोति संहितासनम् ।पत्रं पुष्पं फलं नित्यमर्पयत्यपि भावतः ॥२८॥करोति कीर्तनं नित्यं भुंक्ते प्रसादमुत्तमम् ।पिबत्यपः प्रसादोत्थाः सतां प्रसादमश्नुते ॥२९॥सेवां व्यासस्य देहादिसंवाहनं करोत्यपि ।मार्जनं सदसश्चापि वस्त्रक्षालनमित्यपि ॥३०॥वैष्णवेभ्य इष्टवस्तुप्रदानं प्रकरोत्यपि ।एवंविधस्य भक्तस्य योगिदासाभिधस्य तु ॥३१॥प्रसन्नः श्रीहरिर्जातो बद्रिके चाययौ हरिः ।दिव्यं हंसं समारुह्य सर्वाभरणभूषितः ॥३२॥उवाच योगिदासं त्वं सज्जो भव विमुक्तये ।नेतुं समागतोऽस्म्यत्र हंसेन मोक्षणं प्रति ॥३३॥योगिदासोऽतिमुमुदे श्रुत्वा वाक्यं परात्मनः ।चचाल श्रीहरिं हंसं प्रति यावद् विमुक्तये ॥३४॥तावन्मूर्छामवापाऽसौ देहः पपात भूतले ।दिव्यरूपो योगिदासोऽभवन्मुक्तस्वरूपवान् ॥३५॥हंसे निषाद्य भक्तं तं ययौ कृष्णनरायणः ।शाश्वतं परमं धाम पश्यतां सर्वदेहिनाम् ॥३६॥इत्येवं बद्रिके मुक्तोऽभवत् कथादिसेवया ।योगिदासो ज्येष्ठकृष्णैकादश्यां कृष्णमानसः ॥३७॥अथाऽन्यां ते कथां बद्रि वदामि भक्तमोक्षदाम् ।नाम्ना सौरभसावित्रोऽभवत्ताम्बूलकारकः ॥३८॥शर्करानगरे बद्रि सतां हरेश्च सेवकः ।प्रत्यहं सोऽपि सेवायां वैष्णवानां स्थिरोऽभवत् ॥३९॥ददाति ताम्बूलकानि नित्यं सहस्रशो मुदा ।सुगन्धिरसचूर्णादिमिश्रितानि शुभानि च ।४०॥नित्यं प्रातः समुत्थाय स्नात्वा चायाति मण्डपम् ।यथास्थानं समागत्य पत्रपुष्पाक्षतादिभिः ॥४१॥करोति पूजनं कथासंहितायास्तथा सताम् ।व्यासदेवस्याऽर्हणां च लोमशस्याऽर्हणां तथा ॥४२॥लालासनस्यापि पूजां पूजां वृकायनस्य च ।नीलकर्णस्य पूजां च यवक्रीतादिपूजनम् ॥४३॥तुषितानां हारितानां दिविमानायनस्य च ।देवायतनमेषायतमंकणादियोगिनाम् ॥४४॥हेमशालायनादीनां साधूनां पूजनं प्रगे ।करोति नित्यमेवाऽयं देवानां पूजनं तथा ॥४५॥व्यासाय संहितायैचार्पयत्येव फलान्यपि ।ताम्चूलकानि तुलसीपत्रहाराँश्च कौसुमान् ॥४६॥मुद्राश्चाऽक्षतगोधूमान् वस्त्रकम्बलकाँस्तथा ।यथाशक्ति ददात्येव पूजायां सौरभान् रसान् ॥४७॥एवं सौरभसावित्रो भक्त्या निष्कल्मषोऽभवत् ।सतां देहादिसंवाहपादसंमर्दनादिकम् ॥४८॥कृत्वा भुक्त्वा प्रसादं च पीत्वा तच्चरणामृतम् ।श्रुत्वा कथाः संहितायाः सन्दग्धवासनोऽभवत् ॥४९॥तं नेतुं चाक्षरे स्थाने कृष्णनारायणः प्रभुः ।आययौ श्वेतगरुडे स्थित्वा कथास्थलं हरिः ॥५०॥अवाततार सहसा प्रसन्नाननपङ्कजः ।प्राह सौरभसावित्रं प्रसन्नस्तव सेवया ॥५१॥आयाहि परमं स्थानं दिव्यं व्योम ममाऽक्षरम् ।श्रुत्वा सौरभसावित्रः कूर्दयित्वा ननर्त ह ॥५२॥धन्यं मोक्षपदं मत्वाऽऽगतं कृष्णनरायणम् ।नत्वा त्यक्त्वा निजं देहं मनुं जपं पुराऽर्जितम् ॥५३॥नामधुन्यं श्रावयँश्चाऽऽरुरोह गरुडोपरि ।दिव्यमुक्तशरीरोऽसौ ययावम्बरवर्त्मना ॥५४॥ज्येष्ठकृष्णस्य द्वादश्यां कथोत्तरं ययौ परम् ।आश्चर्यं परमं दृष्ट्वा मुमुदिरेऽतिमानवाः ॥५५॥शृणु बद्रीप्रिये देवि भक्तगाथां तथाऽपराम् ।रंगकारकथां तत्रभूतां परमपावनीम् ॥५६॥रंगकारोऽभवन्नाम्ना रंगिलो रंगकृत् सदा ।रंगकलासु सर्वासु कुशलश्चित्रकोटिषु ॥५७॥शर्करानगरे नित्यं रंगकार्यप्रजीवनः ।देवसेवापरश्चापि साधुभक्तोऽभवत् सदा ॥५८॥बद्रिके स कथाया वै मण्डपं समरंगयत् ।देवचित्राणि सर्वाणि भक्तचित्राणि सर्वशः ॥५९॥भित्तीनां रंगकार्याणि पटरंगान् सुशोभनान् ।अकरोत् सेवया भक्त्या सतां प्रसन्नताप्तये ॥६०॥हरेः प्रसन्नतायै च रंगसेवां तथाऽकरोत् ।अभजत्परमात्मानं मन्त्रं जजाप नित्यशः ॥६१॥नामसंकीर्तनधुन्यादीन्याचरत् कृतादरः ।वैष्णवानां सेवनं च कथायाः श्रवणं व्यधात् ॥६२॥प्रसादभक्षणं पादामृतवारिप्रपानकम् ।पादधूलिवहनं च शरीरे भावतोऽकरोत् ॥६३॥एवं क्षपितपापः स संप्रक्षालितवासनः ।इयेष श्रीहरेर्धाम गन्तुं शाश्वतमक्षरम् ॥६४॥बद्रिके व्यापकः कृष्णोऽन्तर्यामी श्रीनरायणः ।श्वेताऽश्वाऽऽरूढ ईशेशेशेश्वरः समुपाययौ ॥६५॥उवाच रंगिल एहि मम धामाऽक्षरं परम् ।रंगिलः सहसा देहं त्यक्त्वा भौतिकमुत्सुकः ॥६६॥दिव्यदेहोऽभवत् कृष्णदृष्ट्याऽश्वमारुरोह च ।सर्वेषां पश्यतां नारायणो निन्ये तमक्षरम् ॥६७॥रंगिलं रंगकर्तारं यान्तं वीक्ष्य सभाजनाः ।जयवादान् प्रचक्रुश्च नेमुस्तां दिशमच्युतम् ॥६८॥ज्येष्ठकृष्णत्रयोदश्यां रंगिलो ह्यक्षरं ययौ ।बद्रिके च ततश्चान्यां कथां भक्तस्य संशृणु ॥६९॥वाद्यकारोऽभवत्तत्र शर्करानगरे शुभः ।डमरूकाभिधः सोऽपि भक्तो वाद्यादिनिर्मितिम् ॥७०॥कृत्वा वृत्तिं निर्वहति सतां सेवां करोति च ।कथायां वाद्यदानानि कृतवान् भावतः स वै ॥७१॥कांस्यान् शंखान् पटहाँश्च भेरीदिण्डिमगोमुखान् ।मृदंगान् पणवाँश्चापि मुरजाऽम्बरकाँस्तथा ॥७२॥मर्दलान् वेणुवीणाश्च दर्दुरान् कच्छपान् ददौ ।तलघातानानकाँश्च दुन्दुभीन् तालकान् ददौ ॥७३॥तेन पुण्येन भगवान् प्रसन्नोऽस्याऽभवत्तदा ।सोऽपि वाद्यकलाविज्ञो वाद्यवादनमाचरत् ॥७४॥तेन सन्तः प्रसन्नाश्च बद्रिके तस्य चाभवन् ।सेवां चक्रे सतां नित्यं कथां शुश्राव नित्यदा ॥७५॥प्रसादं जगृहे नित्यं पादामृतं पपौ सदा ।मन्त्रं जजाप सततं नामसंकीर्तनं व्यधात् ॥७६॥एवं वैष्णवसेवायां श्रीकृष्णसेवने रतः ।डमरूकोऽभवत् सर्वनष्टपापः सुपावनः ॥७७॥अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ।आययौ त्वक्षरं धाम नेतुं तं डमरूकणम् ॥७८॥सोऽपि मोक्षक्षणं ज्ञात्वा चागतं हरिना हरिम् ।नेमे दध्यौ हृदये च नत्वा सभाजनान् मुहुः ॥७९॥भौतिकं वर्ष्म सन्त्यक्त्वा दिव्यदेहमवाप्य च ।कृष्णनारायणाऽऽहूतो गजं समारुरोह सः ॥८०॥ययौ धामाऽक्षरं श्रीमन्नारायणस्य शाश्वतम् ।कृपया श्रीहरेर्बद्रि ययावपुनरागमम् ॥८१॥ज्येष्ठकृष्णचतुर्दश्यां ययौ डमरूकोऽक्षरम् ।शृणु बद्रीप्रिये देवि तथा कथां सुपावनीम् ॥८२॥भावसारोऽभवत्तत्र वस्त्रव्यापारकारकः ।शर्करानगरे नाम्ना चिह्नरायेति विश्रुतः ॥८३॥चिह्नरायो ददौ वस्त्रसहस्रं मण्डपार्थकम् ।भक्त्या कथास्थलार्थं स वैष्णवो धनवान् सुखी ॥८४॥ऊर्णिकाप्रस्तरणानि वितानान्युत्तमानि च ।आसनानि सुरम्याणि ददौ कथोत्सवे यतः ॥८५॥साधून् स सेवयामास शुश्राव चाऽऽच्युतीं कथाम् ।मन्त्रं जग्राह धुन्यं च कीर्तनं व्यासदेवतः ॥८६॥सिषेवे नित्यमेवाऽपि वस्त्रनाणकदाणकैः ।तत्सेवया प्रसन्नोऽभूच्छ्रीहरिः पुरुषोत्तमः ॥८७॥प्रसादेन पवित्राय चिह्नरायाय दर्शनम् ।प्रत्यक्षं प्रददौ कृष्णो वल्लभार्यः श्रियः पतिः ॥८८॥उवाच तं प्रसन्नोऽस्मि धाम चायाहि मेऽक्षरम् ।एतद्विमानवर्येण नयामि परमं पदम् ॥८९॥ज्येष्ठाऽमायां तु मध्याह्ने कृष्णं दृष्ट्वा समागतम् ।सज्जोऽभवत् प्रगन्तुं वै तत्याज भौतिकीं तनुम् ॥९०॥दिव्यदेहोऽभवत्तूर्णं विमानमारुरोह च ।नामसंकीर्तनं कुर्वन् कृष्णनारायणेति सः ॥९१॥सार्धं श्रीहरिणा तूर्णं विमानेनाऽऽक्षरं ययौ ।जयनादास्तदा तत्र भक्तानामभवन् मुहुः ॥९२॥बद्रिके च तदा तत्र सायंकाले कथोत्तरम् ।आश्चर्यं परमं जातं शृणु तद्ग्रामयाजिनः ॥९३॥ग्रामयाजी विप्रदेवोऽभवन्नाम्ना रमेश्वरः ।नित्यं कथां शृणोत्येव व्यासाऽर्हणां करोति च ॥९४॥भजते श्रीहरिं नित्यं मन्त्रं जपति नित्यशः ।नामधुन्यं कीर्तनं च करोति सततं मुदा ॥९५॥प्रसादं श्रीहरेर्नित्यं गृह्णाति च पदामृतम् ।एवं पावनहृदयो विप्रो व्यवर्तताऽन्वहम् ॥९६॥वैष्णवः परमो नित्यं सेवते साधुपुंगवान् ।निश्चयं सोऽकरोद् गन्तुं धामाऽक्षरं परं हरेः ॥९७॥बद्रिकेऽनशनं चक्रे निर्जलं मोक्षलब्धये ।दिनत्रये हरिस्तस्य मोक्षार्थं समुपाययौ ॥९८॥अमायां तु निशारंभे विमानेन समाययौ ।आह तं भक्त चायाहि विमानं त्वत्कृते त्विदम् ॥९९॥सोऽपि तूर्णं दिव्यदेवो भूत्वा समारुरोह तत् ।ययौ कृष्णेन सहितो धामाऽक्षरं परं पदम् ॥१००॥बद्रिके ते चमत्काराः प्रासरन् भुवि सर्वतः ।असंख्या मानवा यान्ति कथाश्रवणहेतवे ॥१०१॥तीव्रवेगास्तूर्णशुद्धाः प्रयान्ति तूर्णमक्षरम् ।मध्यवेगाः शनैर्यान्ति मन्दाश्चिरेण यान्ति च ॥१०२॥अस्नेहास्तु न वै यान्ति स्नेहस्तत्र हि कारणम् ।प्रसन्नता कृपा सेवा श्रद्धा च दिव्यभावना ॥१०३॥वासनाविलयश्चापि जिगमिषाऽतिवेगिनी ।वैराग्यं शरणं भक्तिः कारणानि तु मोक्षणे ॥१०४॥येषां तीव्रास्ते तु शीघ्रं प्रयान्ति परमं पदम् ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदिह ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणसेवादानादिना प्रसन्नः श्रीहरिः, हर्षनयनाख्यं मागधं, योगिदासाख्यं दासं, सौरभसावित्राख्यं ताम्बूलकारं, रंगिलाख्यं रंगकारं, डमरूकाख्यं वाद्यकारं, चिह्नरायाख्यं भावसारं, रमेश्वरं ग्रामयाजिनं च, मोक्षपदं नीतवानित्यादिनिरूपणनामा पञ्चसप्ततितमोऽध्यायः ॥७५॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP