तिष्यसन्तानः - अध्यायः ८५
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि वह्निरातो गुरुर्नृपम् ।
हितमुवाच संगम्य शेषजीवनहेतवे ॥१॥
राजन्नन्दिभिल्ल भूप नाशोऽस्माकं प्रजायते ।
कृष्णरक्षितसैन्यानां नाशो नास्ति न जायते ॥२॥
एकेन कुबरेणैव चमूपा नव नो हताः ।
दशसाहस्रसैन्यैश्च नवाऽयुतानि नो हताः ॥३॥
पश्य नाशं ततो युद्धं कुरु वा शरणं व्रज ।
मा गर्वं वह राजेन्द्र नागवशेऽस्ति माधवः ॥४॥
निवर्तस्व प्रजानाशात् सुतरां राज्यनाशतः ।
अतितरां स्वनाशाच्च निवर्तस्व पदं व्रज ॥५॥
इत्येवं बोधितश्चापि नन्दिभिल्लोऽतिगर्ववान् ।
गुरोऽन्तेऽहं स्वयं युद्ध्वा हत्वा सर्वान् समन्ततः ॥६॥
वैरनिर्यातनं चान्तं करिष्येऽहं क्षितीश्वरः ।
जितो भोक्ष्यामि पृथिवीं मृतो भोक्ष्येऽक्षरं पदम् ॥७॥
भयाद् युद्धात् कथञ्चित्तु निवर्तिष्ये न सर्वथा ।
युद्धं भवतु सततं धर्मवज्रो विजेष्यति ॥८॥
इत्युक्त्वा सहसा चाज्ञां धर्मवज्रो चकार सः ।
दशसाहस्रसैन्याढ्ये जयाशाप्रेरितोऽबुधः ॥९॥
याहि मारय तान्सर्वान् धर्मवज्र महत्तमान् ।
जहि नारायणं पूर्वं ततस्तु नागविक्रमम् ॥१०॥
नन्दकुबरं पश्चाच्च भिन्धि छिन्धि चमूस्ततः ।
एषोऽहं व्रतमास्थायोपस्थितो हवनेऽनले ॥११॥
शत्रुनाशाय हवनं करोमि याहि घातय ।
इत्युच्चार्य द्रुतं वह्निशालां विवेश भिल्लकः ॥१२॥
वह्निं प्रज्वाल्य चावाह्य स्वमांसैः संजुहाव तम् ।
बाहुमांसं सक्थिमांसं निकृत्योत्कृत्य चाऽनले ॥१३॥
चिक्षेप 'शत्रुनाशार्थं स्वाहा वह्ने स्थिरो भव' ।
वदन्नेवं नन्दिभिल्लश्चकार हवनं तदा ॥१४॥
प्रसन्ना वह्नयो मूर्ताः सशस्त्राः सृष्टिदाहकाः ।
समुत्पेतुरनलाद्वै दुद्रुवुर्नागविक्रमम् ॥१५॥
नारायणं च कुबरं सैन्यानि प्रति दुद्रुवुः ।
हाहाकारोऽभवन्नागसैन्येषु वीक्ष्य चानलान् ॥१६॥
ज्वालाभिर्व्याप्तदेहाँश्च परसैन्यप्रदाहकान् ।
भस्मीभूतानि सैन्यानि रथान् वाहान् प्रकुर्वतः ॥१७॥
महाकालस्तथारुद्रः शक्तयश्चाज्ञया हरेः ।
उत्पन्नानागतान् मूर्तानग्नीन् दिक्षु विदिक्षु च ॥१८॥
भक्षयामासुरत्यर्थं महातेजःस्वरूपिणः ।
वह्नयो मूर्तिमन्तस्ते भक्ष्यमाणास्तु चक्रिणा ॥१९॥
महाकालेन रुद्रेण शक्तिभिर्भक्षितास्तथा ।
परावृत्यैव भिल्लस्याऽभक्षयन् पृतनाऽयुतम् ॥२०॥
भीतास्ते वह्नयः कृष्णात् प्रधाव्य दूरतो ययुः ।
भिल्लसैन्येषु संक्रुद्धा दावानलं प्रचक्रिरे ॥२१॥
भिल्लो विवेद हवने शालायां निजवह्निजम् ।
निजसैन्यविनाशं वै तदा हतमना द्रुतम् ॥२२॥
बभूव वह्निं पादेन ताडयित्वा क्रुधाऽऽहवे ।
शस्त्रास्त्रबाणभूशुण्डीगदामुद्गरखड्गकैः ॥२३॥
सहितः सरथो युद्धे पुरो गत्वाऽहनद् बहून् ।
नागयोद्धॄन् जघानाऽसौ बाणवृष्ट्याऽतिघट्टया ॥२४॥
धर्मवज्रस्तदा चैन्द्रजालिकं रूपमादधात् ।
नागरूपं समगृह्य नारायणरथं ययौ ॥२५॥
आरुरोह रथं नत्वा श्रीकृष्णं वल्लभाऽऽर्यकम् ।
तावच्छ्रीदुर्गया देव्या गदया प्रहतो रथात् ॥२६॥
निपपात क्षितौ तूर्णं समुत्थाय गदाधरः ।
खड्गहस्तो दधावाऽति हन्तुं तु नागविक्रमम् ॥२७॥
महाकालो गदया तं पोथयामास तत्क्षणम् ।
समुत्थाय द्रुतं खड्गं धृत्वा द्रुद्राव कूबरम् ॥२८॥
रुद्रस्तत्र स्थितस्त्वेनं जघान मुद्गरेण ह ।
तस्मात्ताडनवेगाच्च क्षितावुत्तानतोऽपतत् ॥२९॥
समुत्थाय ययौ नैजं रथं यावत्तु तावता ।
कूबरेण हतः सूतो हता अश्वाः शराष्टकैः ॥३०॥
दग्धो रथश्च वह्निस्रक्शरैर्धर्मव्रजस्य ह ।
धर्मवज्रो रथात्तूर्णं त्वपसृत्य विमानके ॥३१॥
व्योमवाटे चोपविश्य नागसैन्यानि चाऽहनत् ।
अधोमुखैर्वह्निशस्त्रैर्गोलार्धसायकादिभिः ॥३२॥
नन्दिभिल्लोऽपि सहसा विमानमधिरुह्य च ।
शस्त्रवर्षामकरोद्धि व्योममार्गात् समन्ततः ॥३३॥
अन्येऽपि शेषयोद्धारो वैमानिका विमानकैः ।
नन्दिभिल्लाज्ञया शस्त्रवृष्टिं चक्रुस्तदाऽम्बरात् ॥३४॥
अथ वीक्ष्य कृष्णनारायणो विमानयोधनम् ।
सहसा स्वविमानैः स्वान् योद्धुमाज्ञां ददौ तु खे ॥३५॥
तदा बद्रीप्रिये! नागविक्रमो नन्दकूबरः ।
सैन्येश्वरा भटाश्चापि विमानेष्वधिरुह्य च ॥३६॥
वैमानिकं महायुद्धं चक्रिरे सर्वनाशकम् ।
हरिस्तदा विचार्यैव दुर्गां तु गतिरोधिनीम् ॥३७॥
प्राह शत्रुविमानानां गतिरोधान् समाचर ।
निपातय क्षितौ शत्रुविमानानि समन्ततः ॥३८॥
इत्युक्ता रोधिनीदुर्गा चाध्यात्मदेवतात्मिका ।
नन्दिभिल्लविमानानां गतिं रुरोध सर्वथा ॥३९॥
गरिमानामदुर्गा च गुर्वी गुर्वीतमा स्वयम् ।
विमानेषु महाभारं दधार तेषु वै द्रुतम् ॥४०॥
अवतेरुर्निपेतुश्च क्षितौ विमानकानि वै ।
गन्तुं नैव समर्थानि भाराक्रान्तानि सर्वतः ॥४१॥
तद्गता योद्धृवर्गाश्च हताः शस्त्रादिभिस्तदा ।
नागवैमानिकैर्बद्रि ततस्ते शरणं ययुः ॥४२॥
धर्मवज्रोऽपि शरणं चाययौ नागवैक्रमम् ।
नन्दिभिल्लोऽसहमानः खड्गमादाय दीर्घकम् ॥४३॥
हन्तुं नागं प्रदुद्राव विमानमारुरोह च ।
तावत्तु कालकालेन महाकालेन विधृतः ॥४४॥
केशेषु मस्तके वह्नि नागविक्रमरूपिणा ।
खड्गेन तत्करौ छित्वा पातितौ खड्गभूषणौ ॥४५॥
गदया पोथितः सोऽपि पपात रणमूर्धनि ।
महाशक्त्या भिन्नवक्षा मुमुर्षुः स्तवनं व्यधात् ॥४६॥
नन्दिभिल्ल उवाच-
नमो नमस्ते निजरक्षकाय नमो नमस्तेऽन्यविनाशकाय ।
नमो नमस्ते शिवसंग्रहाय कलाधिनाथाय नमोनमस्ते ॥४७॥
नमो नमस्ते बहुमोहनाय नमोऽतिगर्विष्ठसुशासकाय ।
नमो हृदिस्थाय परेश्वराय चाऽनादिनारायण ते नमोऽस्तु ॥४८॥
नमोऽक्षरेशाय परावराय नमो नमस्तेऽखिलकारणाय ।
नमः समस्तांगजतत्त्वगर्भप्रपूरकायाच्युत ते नमोऽस्तु ॥४९॥
नमोऽवतारिन्नवतारधर्त्रे ह्यनन्तमुक्ताऽभिनिषेविताय ।
अनादिकृष्णाय परेश्वराय नारायणायेति नमोऽस्तु तुभ्यम्॥५०॥
श्रीकान्तरूपाय रमेश्वराय राधाधिनाथाय नमो नमस्ते ।
नमोऽस्तु ते श्रीपुरपालकाय भूमन्नमस्ते ललितेश्वराय ॥५१॥
सर्वेश्वरीशाय समस्तसर्वेश्वरेश्वरेशाय नमोऽस्तु तुभ्यम् ।
वैराजनाथाय जगन्नियन्त्रेमायेश्वरायाऽच्युत तेनमोऽस्तु॥५२॥
पितॄर्षिदेवर्षिशरीरकाय चराचरान्तःस्थ च ते नमोऽस्तु ।
श्रीमाणिकीपाशवतीश्चरायप्रशाधिनाथाय नमोऽस्तु तुभ्यम॥५३॥
ब्रह्मप्रियावामनिवासकाय हरिप्रियाद्याभिरभिष्टुताय ।
कृतस्थली कुंकुमवापिकाय गोपालबालाय नमो नमस्ते ॥५४॥
श्रीकंभरामातृभवाय कृष्णनारायणश्रीश च ते नमोऽस्तु ।
साधुस्वरूपाय मखात्मकाय स्वामिन्नमस्ते रणरञ्जनाय ॥५५॥
जन्मस्थितिभ्रंशकराय विष्णो जिष्णो नमस्ते परमेश्वराय ।
सद्भक्तलभ्याय कृपावशाय शक्ताय कालाय नमो भवाय ॥५६॥
रुद्राय बाणाय रथाय शास्त्रे यमाय धर्माय नमो द्विजाय ।
प्राणायजीवाय तदात्मनेतेऽन्वितायरिक्तायनमोऽव्ययाय॥५७॥
नागस्वरूपाय मदन्तकाय हृद्याय निर्वाणकराय धात्रे ।
शीघ्रं शरण्यं त्वमभिप्रपद्य नयाऽक्षरं मोक्षपदं हरे माम् ॥५८॥
कृतापराधं बहुगर्वदृब्धं परश्रियं वीक्ष्य सदा ज्वलन्तम् ।
रणे स्थितं प्राणगतिं त्यजन्तं क्षमाप्य सर्वं नय मोक्षणं ते ॥५९॥
सर्वज्ञ सर्वेश समस्तचक्षुःसमस्तकर्णाऽत्ममनस्सु संस्थ ।
दिव्यंनिजं दर्शनमत्र देहि मृतान्समस्ताँश्च समुद्धराऽत्र॥६०॥
हरेऽग्निरातेन विबोधितेन मयापि गर्वादवमानितस्त्वम् ।
अतोषदावानलमध्यमाप्तं समुद्धर श्रीश विधेहि दिव्यम् ॥६१॥
स्वर्गं यथा वा नरकं मदर्थं यदस्ति तत्तेऽर्पितमत्र कृष्ण ।
प्रपन्नजीवं परलोकयानं नयाऽक्षरं धाम विनाश्य पापम् ॥६२॥
हरे कृष्ण हरे विष्णो कृष्णनारायण प्रभो ।
तवास्मीति तवास्मीति मोक्षं मा नय माधव ॥६३॥
इत्युक्त्वा मौनमादाय कृताञ्जलिर्हृदन्तरे ।
विवेश नन्दिभिल्लो वै स्मरन् ध्यायन् प्रभुं पतिम् ॥६४॥
बद्रिकेऽथ तदा कृष्णनारायणो निजाद् रथात् ।
उत्प्लुत्य नन्दिभिल्लाय दातुं दर्शनमाययौ ॥६५॥
नेत्रयोर्गोचरः कृष्णोऽभवद् दिव्यस्वरूपवान् ।
हस्तेन कल्पितं वारि नन्दिभिल्लमुखेऽददात् ॥६६॥
दग्धपापस्तदा नन्दिभिल्लः पीत्वा हरेर्जलम् ।
त्यक्त्वा दिलावरीं पृथ्वीं विमानेनाऽक्षरं ययौ ॥६७॥
दिव्यदेहो हरेर्दासो धाम्न्यक्षरे व्यराजत ।
तथा तत्र रणे नष्टा हता ये तान् कृपावशः ॥६८॥
कृष्णनारायणो मोक्षे निन्ये वैकुण्ठप्रभृतौ ।
नन्दिभिल्लस्य नाशेन तत्सैन्यानि द्रुतं हरेः ॥६९॥
शरणं त्वाययुः शेषमानवा भयविह्वलाः ।
विजयस्य महाशंखनादं चकार कूबरः ॥७०॥
नागविक्रम एवाऽऽजौ ध्वजं चकार चाम्बरे ।
कृष्णनारायणस्तत्र दध्मौ शङ्खं जयार्थदम् ॥७१॥
सैन्यानि श्रीकृष्णरक्षितानि दध्मुर्हि वारिजान् ।
भेरीश्च ताडयामासुर्व्यधुर्महोत्सवाँस्तथा ॥७२॥
जयो नागस्य च हरेर्जयोऽपि कुबरस्य च ।
कालरुद्राऽजशक्तीनां विजयोऽस्तीत्यघोषयन् ॥७३॥
विरेमुर्युद्धतः सर्वे बद्रिके लूनिकातटे ।
विशश्रमुर्यथास्थानं शवानां मार्गणं तथा ॥७४॥
मृतानां जीवतां चापि व्यवस्थां चक्रिरे भटाः ।
सजीवाः श्रीकृष्णनारायणेन कृपया द्रुतम् ॥७५॥
स्पृष्टाः करेण युगपत् तावत्स्वरूपधारिणा ।
नौरुजश्चाऽक्षताश्चापि स्वस्थाः पूर्णाऽसवोऽभवन् ॥७६॥
अथ ये तु शवास्तत्र नद्यां गर्तेषु गह्वरे ।
भूतले रणभूमौ च तेषामन्त्यविधिः कृतः ॥७७॥
अथोत्सवं नागराजश्चकार युद्धपत्तने ।
विजयोत्सवमासाद्य ददौ दानानि सर्वशः ॥७८॥
प्रजाः प्रददुरुपदा राज्ञे जयनिमित्तिकाः ।
कृष्णस्य पूजनं चक्रुर्जयप्रदाय चक्रिणे ॥७९॥
अथ बद्रीप्रिये कृष्णनारायणः पुमुत्तमः ।
इयेष नागराजाय दातुं दिलावरीं पुरीम् ॥८०॥
नागविक्रमराजानं प्राह कृष्णस्तथेच्छया ।
राजन् राज्यं हिमशैलाद् विन्ध्याचलान्तकं शुभम् ॥८१॥
नन्दिभिल्लस्य साम्राज्यं त्वयि न्यस्तुं हि कांक्षये ।
भव सज्जस्ततस्तूर्णं युद्धसैन्यसमस्तकः ॥८२॥
आयामि यामुनीं रम्यां पुरीं दिलावरीं प्रति ।
तत्राऽभिषेको भवतः कर्तव्योऽस्ति मया नृप ॥८३॥
बद्रिके कृष्णवचनं प्राप्येव नागविक्रमः ।
तूर्णं सैन्ययुतः कृष्णयुतो दिलावरीं पुरीम् ॥८४॥
ययौ तत्र नन्दिभिल्लीसभासमाजमाह्वयत् ।
प्रकाशं प्राह राजाऽसौ सर्वसमाजसन्निधौ ॥८५॥
युद्धे कृष्णसहायेन मया प्राप्ता दिलावरी ।
नगरी मध्यखण्डस्था यामुनीसदृशी पुरी ॥८६॥
हिमवद्विन्ध्ययोर्मध्ये राज्यं श्रीकृष्णसात्कृतम् ।
मया भक्तेन वै कृष्णो राज्यं करोतु सर्वथा ॥८७॥
इत्येवं नागराजो वै भिल्लीसभासमाजके ।
व्याजहार तदा कृष्णः प्रकाशं प्रत्यबोधयत् ॥८८॥
शृण्वन्तु सर्वराज्येष्टाः प्रजा राजा सुखावहम् ।
मया भक्तस्य नागस्य यज्ञः प्रकारितः शुभः ॥८९॥
अप्रसह्य यशस्तस्य नन्दिभिल्लो रणं व्यधात् ।
जितो नागेन सहसा नागराज्यं ततस्त्विदम् ॥९०॥
दिलावरीपुरीराज्ये साम्राज्ये नागविक्रमम् ।
अभिषिञ्चामि कृष्णोऽहं स सम्राडस्ति वोऽधुना ॥९१॥
इत्युक्त्वा श्रीकृष्णनारायणो भिल्लिसभासने ।
साम्राज्यमुकुटं कृष्णो ददौ नागाय मस्तके ॥९२॥
महासाम्राज्यमासाद्य नागराजोऽपि बद्रिके ।
ददौ दानानि विप्रेभ्यो ग्रामान् देशांश्च वाटिका ॥९३॥
स्वर्णरत्नगृहक्षेत्रधेनुवाजिगजादिकान् ।
कन्यादानानि च ददौ तथा धनानि सम्पदः ॥९४॥
मृधे मृतानां श्रेयोऽर्थं श्राद्धयज्ञं चकार सः ।
एवं राज्यध्वजं राजालये चाऽऽरोप्य माधवः ॥९५॥
कृत्वा सम्राण्महाभूपं नागविक्रमणं नृपम् ।
व्यवस्थां कारयामास राज्यस्य शोभनां हरिः ॥९६॥
सैन्यपेभ्य उपदादि ददौ भटेभ्य इत्यपि ।
तोषयामास भगवान् सर्वदेहिभ्य आपणैः ॥९७॥
परिहारं चकारैव नागाह्वये पुरे प्रभुः ।
नागनाम्ना पुरी नागाह्वया ख्यातिं गमिष्यति ॥९८॥
भिल्लीसभाभिधानेन भिल्लीनाम्नाऽपि सा पुरी ।
दिलावरीसतीनाम्ना दिलावरी भविष्यति ॥९९॥
तन्नाम्ना नगरी सापि दिलावरीति यामुनी ।
राजधानी शाश्वतीयं कल्पान्ता संभविष्यति ॥१००॥
इत्येवं बद्रिके सर्वं व्यवस्थाप्य नरायणः ।
विमानेनाऽऽययौ नैजां कुंकुमवापिकापुरीम् ॥१०१॥
पठनाच्छ्रवणादस्य स्मरणात् पापसंहृतिः ।
भुक्तिर्मुक्तिस्तथा शान्तिर्मिलेदन्तेऽक्षरं पदम् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने धर्मवज्रादिसेनापतीनां नागविक्रमशरणागमः, विमानयुद्धं, नन्दिभिल्लनृपमृत्युकालीनस्तवनम्, श्रीकृष्णनारायणकृतमोक्षणम्, दिलावरीसाम्राज्यं नागविक्रमे भगवता निहितं चेत्यादिनिरूपणनामा पञ्चाशीतितमोऽध्यायः ॥८५॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP