संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि चमत्कारभरीं कथाम् ।विद्याधराणां मोक्षस्य कारिणीं पारमेश्वरीम् ॥१॥स्वर्णास्तरणनामा तु विद्याधरोऽभवत्तदा ।ब्रह्मणो मानसः पुत्र हिमालयनिवासकृत् ॥२॥स वै निजविमानेनाऽम्बरे विहर्तुकाम्यया ।निर्ययौ सिन्धुमार्गेण पश्यन् देशान् वनाश्रितान् ॥३॥मानसरोवरादग्रे त्रिवित्तान् वीक्ष्य वै ततः ।काशमेहान् पञ्चनदान् वीक्ष्य सिन्धुतटाँस्ततः ॥४॥विमानेनाऽऽययौ यत्र शर्करानगरं महत् ।लक्ष्मीनारायणसंहिताकथायाश्च मण्डपः ॥५॥विद्यते स्वर्गसदृशो दिवा स्वर्णप्रकाशनः ।विशालो लक्षशो यत्र मानवाः सन्ति वेशिताः ॥६॥प्रवर्तते कथा यत्र व्यासकण्ठनिनादनम् ।मेघानुल्लंघ्य खे याति देवश्रवणगोचरम् ॥७॥हवनस्य घृतादीनां धूमाः सुगन्धशालिनः ।प्रवर्तन्ते वायुलोके यत्स्थानादतिपावनाः ॥८॥शान्तिर्यद्भूतलादूर्ध्वमम्बरे च प्रवर्तते ।सन्तप्तहृदयानां वै ब्रह्मशान्तिर्यतो मिलेत् ॥९॥योगिनां सदृशान्येव मानसानि तदाऽम्बरे ।प्रजायन्ते प्रजानां वै विमानानामपि क्षणम् ॥१०॥ध्वजाः पताकाः कलशाः सतां संकीर्तनानि च ।वैष्णवानां समुदायाः संघाश्च दैवयोषिताम् ॥११॥आगमा विगमा व्योम्नि वैष्णवानामनारतम् ।देवानामवताराश्च वेदघोषा द्विजेरिताः ॥१२॥सर्वमेतत्तु वैकुण्ठभ्रान्तिं कारयति क्षितौ ।एतादृशो महान् सत्रः कथारूपः प्रजायते ॥१३॥वीक्ष्याऽऽलोच्य विविच्यापि निश्चित्य सुखमुत्सवम् ।देवर्षिसिद्धसंघानां विमानावतरं तथा ॥१४॥वीक्ष्य नैजं विमानं तु सिन्धुतीरेऽभ्यतारयत् ।विद्याध्रीशतसंयुक्तो दासदासशतान्वितः ॥१५॥पुत्रपुत्रीशतैर्युक्तो विमानाद् बहिराययौ ।महोद्यानांऽगणे स्थाप्य विमानं मण्डपं ययौ ॥१६॥वाच्यमानां कथां तत्र स्थित्वा निषद्य मण्डपे ।श्रुत्वा चैकाग्रमनसा कथान्ते व्याससन्निधौ ॥१७॥बहूपदाभिः सहितः कुटुम्बसहितस्तथा ।आययौ व्यासपूजार्थं नत्वा सभां सतः सतीः ॥१८॥स्वर्णास्तरणो मुकुटं चावतार्य तु मस्तकात् ।नेमे व्यासं संहितां च हरिं नेमे पुनः पुनः ॥१९॥चन्दनाऽक्षतपुष्पाद्यै रत्नहीरकभूषणैः ।स्वर्णमणिमौक्तिकाद्यैः पूजनं स व्यधान्मुदा ॥२०॥आरार्त्रिकं सहस्रैकवर्त्तिभिः प्रचकार सः ।विद्याधर्यो ननृतुश्च गायन्त्यो गुणगौरवम् ॥२१॥दासा दास्यो ननृतुश्च कथाश्रवणमोदिनः ।लोमशः स्वागतं चक्रेऽपृच्छत् परिचयं ततः ॥२२॥स आह लोमशस्याऽहं शिष्योऽस्मि हिमपर्वते ।निवसामि कुटुम्बेन सहितो मानसारसे ॥२३॥आगतोऽस्मि विहारार्थं दृष्ट्वोत्सवमवातरम् ।कृतकृत्योऽस्मि सञ्जातः कथाश्रवणपूजनैः ॥२४॥शान्तिर्मे हृदये जाताऽम्बरे एव शुभार्थिनी ।ततश्चाऽवातरं चात्र वृत्तं श्रेयः परं मम ॥२५॥विद्याधरोऽपि जिज्ञासां चक्रे व्यासं प्रवेदितुम् ।तथा तं गुरुवर्यं च लोमशं ज्ञातुमित्यपि ॥२६॥तदा लालायनः साधुर्विद्याध्रं प्राह सत्वरम् ।अयं नारायणो व्यासः स्वतःप्रकाशकायनः ॥२७॥अनादिश्रीकृष्णनारायणशिष्यशिरोमणिः ।लक्ष्मीनारायणसंहितायाः कथेयमुत्तमा ॥२८॥यस्य त्वं शिष्य एवास्ते स चायं लोमशो मुनिः ।अहं लालायनश्चापि हिमाद्रौ च विहारवान् ॥२९॥इत्युक्तः स तु विद्याध्रः स्नेहाश्रूणि समसृजत् ।पतितः पादयोस्तूर्णं लोमशस्य गुरोस्तदा ॥३०॥कुटुम्बं सर्वमेवापि पतितं पादयोर्मुनेः ।लोमशः स्वागतं चक्रे पप्रच्छ कुशलं सुखम् ॥३१॥आवासं प्रददौ राज्योद्याने भोज्यं ततो ददौ ।महीमानाऽतिथिसेवां चकार लोमशो गुरुः ॥३२॥लोमशस्य वचनेन मासमुवास तत्र सः ।शुश्राव च कथां नित्यं भवबन्धविमोचिनीम् ॥३३॥कुटुम्बसहितो नित्यं प्रसादं बुभुजे हरेः ।दासा दास्यो गुरोः सेवां सतां सेवां प्रचक्रिरे ॥३४॥पुत्राः पुत्र्यश्च विद्याध्र्यः चक्रुः सेवां गुरोः सताम् ।नित्यं चक्रुः कीर्तनानि नामधुन्यं प्रचक्रिरे ॥३५॥ददौ श्रीलोमशस्तेभ्यो मन्त्रं मोक्षप्रदं ततः ।'ब्रह्माऽहं श्रीकृष्णनारायणदासी भवामि ओम् ॥३६॥मन्त्रं लब्ध्वा तु विद्याध्राः सर्वे विगतकल्मषाः ।अभवन् मुक्तरूपास्ते सर्वे क्षपितवासनाः ॥३७॥मोक्षेत्रच्छवोऽभवँश्चापि ब्रह्मानन्दाऽतिलिप्सवः ।प्रार्थनां चक्रिरे श्रीमद्गुरवे मोक्षलब्धये ॥३८॥ओमित्याह गुरुस्तेभ्यः सस्मार परमेश्वरम् ।लोमशस्मृतमात्रः श्रीकृष्णनारायणोऽभ्यगात् ॥३९॥सर्वविमानसंस्थश्च राधालक्ष्मीप्रियायुतः ।माधवीपार्षदमुक्तमुक्तानिकान्वितोऽभ्यगात् ॥४०॥सूर्यप्रभविमानाच्छ्रीहरिः प्रसन्नमानसः ।सर्वाभरणसंशोभाः प्रहसन् बहिराययौ ॥४१॥लोमशाद्यैर्गुरुगणैः सद्भिः सतीभिरर्चितः ।वैष्णवैर्वन्दितः कृष्णनारायणो जलामृतैः ॥४२॥विद्याधरव्रजं सर्वं दिव्यतार्थं कृपावशः ।अप्रोक्षयद् बिन्दुकणैः सर्वे दिव्यास्ततोऽभवन् ॥४३॥परिवर्तनमाप्तास्ते विद्याध्रा मुक्तवर्ष्मसु ।दिव्यदेहा व्यजायन्त कृष्णराधारमासमाः ॥४४॥पञ्चशतानि सर्वे ते विमानवरमास्थिताः ।कृष्णनारायणं प्राप्याऽभवन् मुक्ता हि शाश्वताः ॥४५॥आशीर्वादैर्वर्धितास्ते महर्षिसाधुभूसुरैः ।कीर्तयन्तः कृष्णनारायणेति तालवादनैः ॥४६॥आकाशं गर्जयन्तश्च जयशब्दान् प्रचक्रिरे ।हरिर्विमानं सहसा हिमालयेन वर्त्मना ॥४७॥मानसरोवरं नीत्वा विद्याध्रनगरं शुभम् ।स्वर्णास्तरणपौत्राय युने नाम्ना विशालिने ॥४८॥दत्वोर्ध्वव्योममार्गेण ययौ ब्रह्माऽक्षरं निजम् ।विशालास्तरणश्चापि भक्तिं चकार वै हरेः ॥४९॥पुत्रपौत्रादिवंशाढ्यः सम्पन्नश्चाऽभवत्ततः ।चिरेण सोऽपि कमलाकान्तभक्त्याऽक्षरं पदम् ॥५०॥प्राप बद्रीप्रिये मोक्षं परमेशपदासनम् ।ज्येष्ठशुक्लैकादश्यां ते विद्याध्रा ययुरक्षरम् ॥५१॥अथाऽन्यं ते चमत्कारं वदामि शृणु बद्रिके ।गन्धर्वा हिमवासा ये चित्रबर्हादयः शुभाः ॥५२॥मानसरोवरे देशे विहर्तुं समुपाययुः ।ते विमानं दृष्टवन्तः सहस्रशो हिमालये ॥५३॥स्वर्णास्तरणं पप्रच्छुः पिता कुत्र गतस्तव ।प्रत्याह स्वर्णास्तरणो मोक्षपदं ययौ पिता ॥५४॥विमानेन सुदिव्येन श्रीकृष्णचालितेन वै ।पञ्चशतानि विद्याध्रा ययुर्धामाऽक्षरं हरेः ॥५५॥कथाश्रवणमात्रेण सर्वे मोक्षपदं ययुः ।सा कथा शर्करापुर्यां सिन्धुदेशे प्रवर्तते ॥५६॥लक्ष्मीनारायणसंहितायाः परममोक्षदा ।यत्र देवोऽनादिकृष्णो वल्लभाऽऽर्यो विराजते ॥५७॥संहितादेवतारूपः सर्वाविर्भावकारणम् ।यत्र विद्याधरादीनां गुरुः श्रीलोमशो मुनिः ॥५८॥स्वतःप्रकाशो भगवान् व्यासो यद्वाचकोऽस्ति च ।देवदानवगन्धर्वाः पूता यच्छ्रवणात् खलु ॥५९॥तां कथां प्रसमाकर्ण्य मत्पित्राद्या दिवं गताः ।श्रुत्वैवं तु चमत्कारं बद्रिके हिमवासिनः ॥६०॥चित्रबर्हादयश्चापि विमानेन कथास्थलीम् ।आययुः स्त्रीपूरुषाश्च त्रिशतानि समुत्सुकाः ॥६१॥अम्बरादवतेरुस्ते महोद्यानसमीपतः ।कथामण्डपमागत्य ज्येष्ठे द्वादशिकादिने ॥६२॥शुक्लपक्षे हि गन्धर्वा गान्धर्व्यश्च हरेः कथाम् ।संहितां शुश्रुवुः सायं नीराजनोत्तरं ततः ॥६३॥लोमशाज्जगृहुर्मन्त्रं नामधुन्यं च जगृहुः ।प्रसादं जगृहुः कृष्णपादवारि पपुश्च ते ॥६४॥चतुर्दशदिनान्येवं शुश्रुवुस्ते कथां शुभाम् ।सतां सेवां प्रचक्रुश्च नृत्यं नित्यं व्यधुर्मुदा ॥६५॥गायनं च व्यधुर्नित्यं समारञ्जनकारकम् ।कृष्णाग्रे संहिताग्रे च सतामग्रे जगुर्मुदा ॥६६॥भक्तियुक्ताश्चक्रुरेव नामसंकीर्तनं हरेः ।तेन स्नेहेन विगतकत्मषा अभवन् द्रुतम् ॥६७॥क्षीणक्लेशाः क्षीणसर्ववासनाः सिद्धयोगिनः ।सञ्जातास्ते समस्ता वै मोक्षमन्त्रं च जगृहुः ॥६८॥'ब्रह्माऽहं श्रीकृष्णनारायणदासो भवामि ओम्' ।संगृह्य मन्त्रं जेपुस्ते नरानार्योऽतिभावतः ॥६९॥तेषां प्रसन्नः श्रीकृष्णोऽषाढकृष्णे दले द्रुतम् ।एकादश्यां विमानेनाऽऽययौ नेतुं निजाऽक्षरम् ॥७०॥त्रिशतानां तु सर्वेषामुपर्येव जलाञ्जलिम् ।प्रचिक्षेप हरिर्वारिकणैः स्पृष्टाश्च ते तदा ॥७१॥दिव्यदेहाः समस्तास्ते गन्धर्वा मुक्तकोटिगाः ।गन्धर्वा मुक्तगन्धर्वा अभवन् दिव्यविग्रहाः ॥७२॥श्रीकृष्णेन समाहूता आरुरुहुर्विमानकम् ।जयनादैर्गर्जयन्तो नत्वा कथास्थलं सभाम् ॥७३॥गुरुं साधून् नमस्कृत्य दध्युः श्रीकृष्णमीश्वरम् ।अनादिश्रीकृष्णनारायणो निन्ये क्षणात्ततः ॥७४॥हिमाद्रिं च ततो निन्ये ब्रह्मधामाऽक्षरं निजम् ।एवं श्रीबद्रिके याताः सर्वे ते शाश्वतं पदम् ॥७५॥शृणु बद्रीप्रिये दिव्यचमत्कारं तथैव ह ।किन्नराः किम्पुरुषा ये हिमाद्रौ सारसे स्थले ॥७६॥शुश्रुवुश्च पुरा विद्याधराणां मोक्षणं ततः ।विमानैराययुर्लक्ष्मीनारायणकथास्थलीम् ॥७७॥सहस्रार्धं किन्नराश्च किंपुरुषास्तदर्धकाः ।चारणा द्वे शते सिद्धाः पञ्चाशत्ते समाययुः ॥७८॥महोद्याने विमानानि चाऽवतेरुस्तदाऽम्बरात् ।कथास्थानं ययुः सर्वेऽवतीर्य दर्शनाय ह ॥७९॥सम्मानिता लोमशाद्यैः शुश्रवुस्ते कथां शुभाम् ।प्रसादं जगृहुः पादामृतं पपुर्मुदान्विताः ॥८०॥मोक्षमन्त्रं नामधुन्यं जगृहुर्लोमशान्मुनेः ।व्यासपूजां कथापूजां सतां सेवां च नित्यदा ॥८१॥चक्रिरे भावयुक्तास्ते वैष्णवाः पावनाः पराः ।आषाढकृष्णद्वादश्यां श्रीकृष्णः परमेश्वरः ॥८२॥साक्षात्तेषां तु सर्वेषां निशायामभवद्धरिः ।सर्वाभरणसंशोभो राधालक्ष्मीसमन्वितः ॥८३॥विमानवरमारूढः प्रसन्नवदनः प्रभुः ।उवाचाऽऽयान्तु मे धामाऽक्षरं परमपावनम् ॥८४॥इत्युक्ता बद्रिके धन्यभाग्यानि त्वभिमत्य ते ।सज्जा भूत्वा चारुरुहुर्विमानं कृष्णशोभितम् ॥८५॥दिव्यदेहाः समस्तास्ते कृपया श्रीहरेः शुभाः ।अभवन् मुत्तरूपा वै चक्रुर्धुन्यं विमानके ॥८६॥अनादिश्रीकृष्णनारायणः श्रीबद्रिके प्रभुः ।निनाय तां हिमशैलं ततो धामाऽक्षरं निजम् ॥८७॥किन्नरान् किंपूरुषाँश्च चारणान् सिद्धयोगिनः ।दिव्यमुक्तान् विधायैव निनाय कृपया हरिः ॥८८॥अहो श्रीबद्रिके भाग्यं हिमाचलनिवासिनाम् ।नारायणविमानाप्तिर्नारायणाप्तिरित्यपि ॥८९॥ब्रह्मलोकाप्तिरेवापि कथाश्रवणयोगतः ।सतां सेवनतश्चापि प्रसादाशनतस्तथा ॥९०॥अवतारिकृष्णनारायणप्राप्तिर्व्यवर्तत ।इत्येवं बद्रिके नित्यं जीवानां मोक्षणं शुभम् ॥९१॥कथाश्रवणतश्चापि दर्शनाद्वन्दनात् सताम् ।भवत्येव हरेर्योगात् सर्वकारणकारणात् ॥९२॥नागा दैत्या दानवाश्चोरगा यक्षाः सरीसृपाः ।ये तत्र चाययुर्बद्रि योगामुपाययुश्च ये ॥९३॥सर्वे ते क्षीणपापाश्च निर्गुणाः कृष्णयोगिनः ।भूत्वा भूत्वा ययुर्धामाऽक्षरं श्रीपरमात्मनः ॥९४॥कीटाः शाखामृगा वन्याः पक्षिणः पशवोऽपि च ।जन्तवो वल्लिका वृक्षा यादांसि स्वेदजा अपि ॥९५॥ये ये तत्र मृताः सत्रे कार्ष्णयोगेन योजिताः ।सर्वे प्रापुः परं धामाऽक्षरं ते कृपया हरेः ॥९६॥यानि सस्यानि धान्यानि स्तम्बाश्च स्तबका अपि ।फलपुष्पदलवृक्षाः कथायोगमुपाययुः ॥९७॥परम्परया साक्षाद्वा स्वांगैः फलादिभिश्च वै ।ते सर्वे परमं मोक्षं प्राप्ताः कार्ष्णप्रसंगतः ॥९८॥सर्वं वै सुलभं लोके सत्संगो दुर्लभः सदा ।सत्संगः कृपया प्राप्यो येन मोक्षः करे स्थितः ॥९९॥बद्रिके पठनादस्य श्रवणान्मननादपि ।भुक्तिर्मुक्तिर्भवेदत्र शाश्वती परमा गतिः ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणादिभिः स्वर्णास्तरणप्रभृतिविद्याधराणां, चित्रबर्हादिगन्धर्वाणां, किन्नरकिम्पुरुषचारणसिद्धानां च, मोक्षणमित्यादिनिरूपणनामा षट्सप्ततितमोऽध्यायः ॥७६॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP