संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि श्रीकृष्णः फाल्गुने प्रभुः ।प्रथमं स्वविमानेन ध्रुवस्वर्गमुपाययौ ॥१॥यत्र वै वैष्णवो भक्तो राजा ध्रुवोऽस्ति सर्वदा !यदाधारं लोकचक्रं प्रवर्तते भ्रमत्यपि ॥२॥वीक्ष्य विशालं दिव्यं च सर्वलोकोत्तरं शुभम् ।विमानं श्रीहरेस्तूर्णं ध्रुवश्चाभ्याययौ द्रुतम् ॥३॥ससैन्यः सर्वदेवैश्च सवाद्यः सहितो हरिम् ।कृष्णं सम्मानयामास स्वागतं व्यचरन्मुदा ॥४॥प्रणम्य धन्यभाग्योऽसीत्याह कृत्वा च दण्डवत् ।निन्ये नारायणं नैजे महासौधे तु कानके ॥५॥यत्र विष्णुध्रुवपूज्यो वर्तते सम्पदां प्रदः ।विष्णुर्नारायणं नत्वा चकार दण्डवत्तदा ॥६॥पादसंवाहनं चक्रे शुभासनविराजिनः ।हरेः सेवां ध्रुवश्चापि चक्रे जलामृतार्पणैः ॥७॥आवासदानकैः सर्वार्पणैभागवतोत्तमः ।षोडशाद्युपचारैः संप्रपूज्याऽऽरार्त्रिकं व्यधात् ॥८॥वैष्णवी कमला देवी लक्ष्म्यादीनां प्रपूजनम् ।ध्रुवपत्नी शाश्वती च ब्रह्मप्रियादिपूजनम् ॥९॥अन्या महामहाभक्तानिकाश्चापि प्रपूजनम् ।हरेश्चक्रुस्तथा ध्रुवप्रजाः पुपूजुरच्युतम् ॥१०॥उपदा विविधाश्चापि ददुः श्रीपरमात्मने ।दिव्यसौवर्णरत्नाढ्यभूषाहारधनानि च ॥११॥भोजयामासुरीशेशं सर्वोगिसहितं? च ते ।सर्वार्पणविधानेन देवा देव्यः प्रसेवनम् ॥१२॥चक्रुः श्रीबालकृष्णस्य सर्वावतारधारिणः ।ध्रुवराज्ये महाराज्ये भ्रामयामासुरच्युतम् ॥१३॥प्रजाश्च श्रीहरिं सम्यक् प्रपूज्य मनुमाप्नुवन् ।नामधुन्यं जगृहुश्च दध्युर्नारायणं हृदि ॥१४॥कृष्णः प्रपावयित्वैव ध्रुवलोकं ततस्ततः ।द्रुतं विमानमारुह्य सप्तर्षिलोकमाययौ ॥१५॥प्रथमं श्रीहरिः श्रेष्ठं वसिष्ठस्याऽऽलयं ययौ ।अरुन्धतीयुतर्षिश्च स्वागतं प्राचरद्धरेः ॥१६॥पुष्पचन्दनपीयूषामृताऽक्षतयवांकुरैः ।पुपूज परमात्मानं पुपूजाऽरुन्धती ह्यपि ॥१७॥कृष्णसार्थं समस्तं च पुपूजारुन्धती सती ।वासिष्ठाश्च सुरादेव्यः प्रजाश्चानर्चुरच्युतम् ॥१८॥वेदमन्त्रैरार्षयोगैर्हरेः प्रपूजनं व्यधुः ।भोजयामासुरिष्टान्नामृताद्यं बहुधा कृतम् ॥१९॥आरार्त्रिकं प्रचक्रुश्च गृहे गृहे तथर्षयः ।सम्मानं संव्यधुश्चापि सेवां व्यधुर्महादृताः ॥२०॥आशीर्वादान् सामगीर्भिर्ददुर्नारायणाय ते ।भृगुश्च भार्गवाश्चापि निन्युर्नारायणेश्वरम् ॥२१॥निजालयेषु चानर्चुर्भोजयामासुरीश्वरम् ।अङ्गिराश्चाप्यांगिरसा निन्युर्नारायणं ततः ॥२२॥तेऽप्यानर्चुर्हरिकृष्णं बहूपकरणादिभिः ।मरीचिश्चापि मारीचा निन्युर्नारायणं गृहम् ॥२३॥अत्रिस्तथा तदात्रेया निन्युर्नारायणं मुदा ।पुपूजुर्भोजयामासुरुपदाश्च न्यधुः पुरः ॥२४॥पुलस्त्यश्चापि पौलस्त्या निन्युर्नारायणं गृहम् ।पुलहः पौलहाश्चापि निन्युर्निजालयान् हरिम् ॥२५॥पुपूजुः परया भक्त्या श्रीप्रभुम्माधवीपतिम् ।उपदाश्च न्यधुस्त्वग्रे भोजयामासुरीश्वरम् ॥२६॥महैश्वर्यैर्हरेः सेवां चक्रुस्ते ऋषिपुंगवाः ।हरिर्विदाय संगृह्य बद्रिके द्रुतमेव ह ॥२७॥क्रतोर्लोकं निभाल्यैव कृतपूजादरः प्रभुः ।आशिषः कृतवे दत्वा शनेर्लोकमुपाययौ ॥२८॥शनिना कृतपूजश्च दत्वा तस्मै मनुं निजम् ।वैष्णवं तं सूर्यपुत्रं युक्त्वाऽऽशीर्भिस्ततो द्रुतम् ॥२९॥गुरोर्लोकं विशालं वै समाययौ हरिः स्वयम् ।बृहस्पतिर्हरेश्चाभिषेकं व्यधात् तु सामगैः ॥३०॥अपूजयत् प्रभुं दिव्यैरुपचारैः समृद्धिभिः ।मनुं जग्राह हरितो भोजयामास वै ततः ॥३१॥उत्तमाभिरुपदाभिस्तोषयामास माधवम् ।विदायं प्रददौ प्रस्थापयामास ततोऽच्युतम् ॥२२॥हरिस्तूर्णं मंगलस्यालयं तत उपाययौ ।मंगलः पूजयामास प्रभुं रत्नादिभिस्ततः ॥३३॥आययौ भगवान् शुक्रालयं विमानतो द्रुतम् ।शक्रस्तु बहुधा चक्रे स्वागतं पूजनादिभिः ॥३४॥ततो हरिर्द्रुतं बुधालयं वै समुपाययौ ।बुधः सम्पूज्य मुदितो भोजयामास माधवम् ॥३५॥विदायं प्रददौ चाथ हरिर्नक्षत्रमण्डलम् ।आययौ स्वविमानेन रोहिण्यादिगृहेषु वै ॥३६॥ताः सर्वा वै दक्षपुत्र्यो नारायणं यथायथम् ।पुपूजुः सेवयामासुर्भोजयामासुरच्युतम् ॥३७॥हरेः पत्नीगणाँश्चापि सन्तुष्टासहितानपि ।पूजयामासुरत्यर्थं नारीयोग्योपचारकैः ॥३८॥ततः श्रीभगवान् सूर्यलोकं समाययौ द्रुतम् ।आदित्यः स्वर्णवर्णस्तं हिरण्मययुतः पुमान् ॥३९॥पुपूज परमात्मानं सर्वद्रवैः सुवर्णजैः ।विभूषणैरमृतैश्च दिव्यान्नैरम्बरादिभिः ॥४०॥पूषाऽर्यमा विवस्वाँश्च त्वष्टा विष्णुर्भगस्तथा ।पर्जन्यो वरुणो धाता शक्रो मित्रोंऽशुरित्यपि ॥४१॥पुपूजुः परमात्मानं श्रेष्ठर्द्धिसम्पदादिभिः ।राजाधिराजवेषाँश्च ददुर्नारायणाय ते ॥४२॥स्वस्वराज्येषु सर्वत्र निन्युर्नारायणं मुदा ।मुकुटान् कटकान् हारान् कुण्डलानि ददुश्च ते ॥४३॥मणिरत्नमयी रम्याः शृंखलाश्च ददुस्तथा ।अक्षयान्यपि पात्राणि महामृतप्रदान्यपि ॥४४॥ददुस्ते हरये लक्ष्म्यादिभ्यश्च सूर्ययोषितः ।छाया संज्ञाऽश्विनी चापि हिरण्या च प्रभादिकाः ॥४५॥भोजयामासुरीशेशं विदायं प्रददुस्ततः ।अथ श्रीभगवान् शीघ्रमाययौ चान्द्रभूमिकाम् ॥४६॥चन्द्रलोके सोमराजश्चकार स्वागतं हरेः ।पूजां सेवां चकारापि भोजनान्यमृतानि च ॥४७॥ददौ वस्त्राणि रम्याणि रसान् पीयूषसंभृतान् ।मणीन् रत्नानि रम्याणि ददौ कृष्णाय चन्द्रमाः ॥४८॥तत्पत्न्यश्च ददुर्भूषादिकं योषिद्भ्य आदृताः ।विदायं प्रददुश्चापि ततः कृष्णनरायणः ॥४९॥तत्तल्लोकप्रजाभ्यश्च मनुं स्वकं ददौ मुदा ।नामधुन्यं ददौ चापि ततस्तु मानसोत्तरम् ॥५०॥पर्वतं चाययौ चैत्रे पूर्वे महेन्द्रमन्दिरम् ।नगर्याममरावत्यां देवेन्द्रोऽभ्रामयत् प्रभुम् ॥५१॥सर्वशृंगारयुक्तायां दिव्यायां देववन्दितम् ।देवैश्च देवताभिश्च शच्याऽप्सरोभिरर्चितः ॥५२॥पावयित्वा देववर्गानिन्द्रसभामुपाययौ ।इन्द्रः पुपूज बहुभिश्चोपचारैः समृद्धिभिः ॥५३॥तस्मै स प्रददौ रत्नहारान् दिव्याँस्तथोपदाः ।इन्द्रभोगान् समस्ताँश्च महेन्द्रः प्रभवे ददौ ॥५४॥भोजयामास सर्वाश्च सेवयामास भावनैः ।रक्षयामास सौधे स्वे प्रभुं श्रीपुरुषोत्तमम् ॥५५॥सिद्धचारणगन्धर्वाः सिषेविरे हरिं स्त्रियः ।विदायं प्राप्य भगवान् अग्नेस्तेजोवतीं पुरीम् ॥५६॥ययौ स्वेन विमानेन बद्रिकेऽग्निमहालयम् ।अग्नयः श्रीहरिं नत्वा कृत्वा स्वागतमुत्तमम् ॥५७॥प्रपूज्य भ्रामयामासुर्नगरे स्वे गृहे गृहे ।अर्चयामासुरत्यर्थं भोजयामासुरादरात् ॥५८॥मणिरत्नादिहाराँश्च ददुः कृष्णाय तेऽनलाः ।स्वाहाद्याः स्त्रीजनान् सर्वानानर्चुः स्वर्णभूषणैः ॥५९॥चान्दनैर्गन्धिभिः श्रेष्ठैर्द्रवैरमृतवर्षिभिः ।विदायं प्राप्य भगवान् ययौ संयमनीं पुरीम् ॥६०॥यत्र वैवस्वतस्तस्य प्रजाः पुपूजुरादरात् ।यमाः पुपूजुरीशेशं यमराजः पुपूज च ॥६१॥याम्या यमानुगाश्चापि पुपूजुः परमेश्वरम् ।हरिस्तु स्वविमानेन वीक्षितुं नारकान् ययौ ॥६२॥कृष्णवायोः प्रसंगेन नारका मोक्षमाप्नुवन् ।नैकोऽपि दण्डवाँस्तत्र दण्ड्यः कुण्डेऽस्ति शेषितः ॥६३॥नावशिष्टस्तदा तत्र पापी कश्चिद् यमालये ।सर्वे मोक्षं गताः स्वर्गं गताः कृष्णकृपावशात् ॥६४॥यमेन पूजितः कृष्णो विदायं प्राप्य सत्वरम् ।रक्षोवतीं पुरीं रक्षोभृतां निर्कतिपालिताम् ॥६५॥आययौ स्वविमानेन निर्ऋतिः स्वागतं व्यधात् ।रक्षोगणाश्च देवेशं पुपूजुर्निर्ऋतेः प्रजाः ॥६६॥तेभ्यो दत्वा मनुं कृष्णो लब्ध्वा विदायमुत्तमम् ।आययौ स्वविमानेन वारुणीं सुखिनीं पुरीम् ॥६७॥वरुणो भगवन्तं तं पुपूज परमर्द्धिभिः ।भोजयामास बहुधा रसानमृतसंभवान् ॥६८॥सिषेविरे च बहुधा ततो विदायमार्पयत् ।हरिस्तूर्णं विमानेनाऽऽययौ तु वायवीं पुरीम् ॥६९॥गन्धवतीं चातिरम्यां प्रभञ्जनेन पालिताम् ।प्रभञ्जनो हरेः श्रेष्ठं पूजनं सार्थमाचरत् ॥७०॥ददौ कृष्णाय रत्नानि विदायं प्रददौ तथा ।हरिश्चोत्तरभागस्थां कौबेरीं नगरीं ययौ ॥७१॥विभावरीं च सोमस्य नगरीं बहुशोभनाम् ।ययौ तूर्णं कुबेरेण पूजितस्तत्र माधवः ॥७२॥बहुरत्नैर्बहुधनैर्भूषाम्बरादिभिस्तथा ।सर्वकोशैः पूजितश्च ययावीशानपत्तनम् ॥७३॥ईशानः स्वयशोवत्यां पुर्यामभ्रामयद्धरिम् ।अपूजयद् दिव्यरसैः सगणः सगणं प्रभुम् ॥७४॥विदायं प्रददौ चापि कृष्णः कान्तिमतीं पुरीम् ।आययौ मेरुभागस्थां निशानाथादिसेविताम् ॥७५॥बह्वीभिश्चाप्सरोभिश्च सर्वदेवगणैर्युताम् ।सर्वथा वैष्णवीं रम्यां तारकाभिर्निवासिताम् ॥७६॥तत्र निशाकरः कृष्णं पुपूज बहुभाववान् ।भोजयामास बहुधा भ्रामयामास पत्तने ॥७७॥विदायं प्रददौ चापि कृष्णो मेरुनिवासिनाम् ।गृहे गृहे समस्तानां व्यस्तानां च ययौ तदा ॥७८॥आहूतः पावनार्थं स्वमन्दिराणि हरिर्ययौ ।प्रियव्रतोत्तानपादौ सम्राजौ परमात्मनः ॥७९॥स्वागतं बहुसम्मानं चक्रतुः पूजनादिकम् ।भोजयामासतुश्चापि ददुरनर्घ्यसन्मणीन् ॥८०॥धर्मदेवो रुचिश्चापि दक्षः क्रतुर्महर्षयः ।पुपूजुः परमात्मानं ससार्थं चोपदादिभिः ॥८१॥खेचरी वसुचारी च ब्रह्मेशो ब्रह्मजीवधीः ।सुषेणः शाश्वतः पृष्टः सुपुष्टश्च महाबलः ॥८२॥त एते चारणा दिव्या निन्युर्नारायणं गृहम् ।पुपूजुः परया प्रीत्या रन्नहारादिभिस्तदा ॥८३॥मन्त्रज्ञो मन्त्रवित् प्राज्ञो मन्त्रराट् सिद्धिशोभनः ।सिद्धेशः परमः सिद्धः सिद्धा निन्युर्हरिं गृहम् ॥८४॥पूजयामासुरत्यर्थं भोजयामासुरमृतम् ।यक्षो यक्षेशकश्चापि जृंभको मणिभद्रकः ॥८९॥पूर्णप्रभद्रको माली शितिकुण्डलकस्तथा ।नरेन्द्रश्चेति यक्षाश्च निन्युर्नारायणं गृहम् ॥८६॥पुपूजुः परया प्रीत्या ददुर्दिव्योपदास्तथा ।विणाज्ञः किन्नरस्तत्र सुरसेनः प्रमर्दनः ॥८७॥अतीशयः सप्रयोगी गीतज्ञश्चेति किन्नराः ।निन्युर्नारायणं नैजावासेष्वपूऽजयन् मुदा ॥८८॥विद्याधरश्च विबुधो विद्याराशिर्विदाम्बरः ।प्रबुद्धश्च कृतज्ञश्च श्रीज्ञस्तत्त्वधरादयः ॥८९॥विद्याध्राः श्रीहरिं निन्युनिजावासेष्वपूजयन् ।गायनैर्नर्तनैर्भावैर्वाद्यप्रकारकैस्तथा ॥९०॥ते संप्रसादयामासुः श्रीपतिं श्रीजनैर्युतम् ।वामदेवो महाजम्भः सुग्रीवो मर्दकस्तथा ॥९१॥बाष्कली पिंगलः कुंभश्चैते भक्तास्तु तामसाः ।निन्युर्नारायणं दैत्याः पुपूजुः परमेश्वरम् ॥९२॥गरुत्मान् खगतिर्नागमर्दनो विष्णुवाहनः ।एते हिरण्यवर्णाभा गरुडाः परमेश्वरम् ॥९३॥निन्युर्नैजगृहाण्येवाऽऽनर्चुः श्रीपतिमीश्वरम् ।उर्वशी मेनका रंभा रतिश्चापि तिलोत्तमा ॥९४॥सुमुखी सुस्तनी शान्ता कामुकी शारदानना ।अलम्बुषाद्या अप्सरोगणा निन्युर्हरिम् पतिम् ॥९५॥निजावासेषु कान्तेशं पुपूजुः कामगौरवैः ।सिषेविरे समालिङ्ग्य पावित्र्यं प्रापुरीश्वरात् ॥९६॥गायनं नर्तनं चक्रुः चक्रुः सेवां च योषिताम् ।भोजयामासुरत्यर्थं शृंगाराणि व्यधापयन् ॥९७॥रामयामासुरात्मेशं कान्तं सस्वजिरे दृढम् ।सुरभिः सर्वतोभद्रा सुशीला श्रीप्रदा तथा ॥९८॥नन्दिनी चेति गावश्च दिव्यरूपधरास्तदा ।कामदुघा हरिं निन्युर्मेरौ निजाश्रमेष्वपि ॥९९॥पुपूजुः कामरूपेशं महाभिषेकपूर्वकम् ।भोजयामासुरिष्टं वै मिष्टं क्षीरमयामृतम् ॥१००॥अथाऽरुणाऽनपाया च विमनुष्या वराम्बरा ।मिश्रकेश्यसिपर्णा चाऽलंबुषा शुचिका तथा ॥१०१॥मारीचिश्चाद्रिका विद्युत्पर्णा क्षेमा च लक्ष्मणा ।मनोभवाऽसिता पुण्डरीकाऽजगन्धिनी तथा ॥१०२॥सुबाह्वी सुप्रिया चापि सुभुजा सुदती रमा ।सुरसा सुमुखी हंसपादी सूताऽभया जया ॥१०३॥हंसा च कमला भासी सुभगा च सरस्वती ।अरूपा मनुवंती च सुकेशी पर्णिनी तथा ॥१०४॥सहजा पुञ्जिकस्थली घृताची च कृतस्थली ।विश्वाची पूर्वचित्तिश्च प्रम्लोचा शारदी दया ॥१०५॥माणिकी चानुम्लोचा मंजुला हंसी च शान्तिदा ।युवतीत्वं हरये ता ददू रेमे रतिप्रियः ॥१०६॥सिषेविरे स्वालयेषु सर्वस्वार्पणभावनैः ।तथा कृष्णप्रियाणां च सेवां चक्रुः समन्विताः ॥१०७॥ननर्तुः श्रीहरेरग्रे चक्रुर्वल्लभकीर्तनम् ।आशीर्वादान् जगृहुश्चोपदा न्यधुर्हरेः पुरः ॥१०८॥भीमसेनश्चोग्रसेनः सुपर्णो वरुणस्तथा ।सूर्यवर्चा धृतराष्ट्रो गोमान् भीमश्च पत्रवान् ॥१०९॥अर्कपर्णः प्रयुतश्च चित्ररथश्च वैकलिः ।शालिशिराः सुबाहुश्च हंसो मध्यश्च दारुणः ॥११०॥ज्योतिष्टमः सदाचारो वरेण्यश्च वरूथकः ।वसुरुचिः सुरुचिश्च विश्वावसुश्च भानुकः ॥१११॥बह्वी सिद्धस्तु पूर्णश्च पूर्णांशः शतगौणकः ।सुचन्द्रश्चेति गान्धर्वाः पुपूजुः परमेश्वरम् ॥११२॥निन्युर्नारायणं नैजसौधेष्वानर्चुरच्युतम् ।उपदाः प्रददुः सर्वे भोजयामासुरच्युतम् ॥११३॥दिव्या मेरोरण्यानी तथा च वनदेवताः ।ओषधयस्तथा दिव्या समूर्ताः परमेश्वरम् ॥११४॥पुपूजुः फलपुष्पाद्यैः सद्रसैर्भोजनामृतैः ।तेभ्यो मेरुनिवासिभ्यः स्वमनुं माधवो ददौ ॥११६॥नामधुन्यं ददौ नैजमाशीर्वादान् ददौ तथा ।ततः स्वस्य विमानेन भुवर्लोकमुपाययौ ॥११६॥वैशाखमासे भगवान् बद्रिके भक्तवत्सलः ।वियच्चराः सुरास्तत्र पूजयामासुरच्युतम् ॥११७॥आवहः प्रवहश्चेति सवहोऽनुवहस्तथा ।परावहो विवहश्च परिवहश्च वायवः ॥११८॥निजासु रम्यनगरीष्वानयन् परमेश्वरम् ।पुपूजुः परया प्रीत्या भोजयामासुरच्युतम् ॥११९॥भूतप्रेतपिशाचाश्च कूष्माण्डाश्च विनायकाः ।वीरा वेतालकाश्चापि भुवर्लोकनिवासिनः ॥१२०॥पुपूजुः परमात्मानं जगृहुश्च मनुं हरेः ।दिव्यमुक्ता बभूवुस्ते हरिर्भूतलमाययौ ॥१२१॥कुंकुमवापिकाक्षेत्रं ज्येष्ठमासे निजालयम् ।विरराम हरिर्बद्रि सर्वभक्तप्रपूजितः ॥१२२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने स्वर्गलोके मेरौ भुवर्लोके च भगवतो भ्रमणं कुंकुमवापिकां प्रत्यागमनं चेत्यादिनिरूपणनामा षण्णवतितमोऽध्यायः ॥९६॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP