संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ३९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ३९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३९ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां धूर्ताविमोक्षिणीम् ।धुतारपुरवास्तव्या चामठाजातिजा ह्यपि ॥१॥नारायणपरा नारी नाम्नाऽभूत् कनकांगदा ।पतिपुत्रवती पुत्रीमती भ्रातृकुटुम्बिनी ॥२॥नगराभ्याशवासा च शकटच्छायवर्तिनी ।वृषभाणां च वत्सानां क्रयविक्रयकारिणी ॥३॥जीर्णोपकरणानां च संस्कारोद्धारतत्परा ।क्रयविक्रयकार्याढ्या तथा निर्वाहयोगिनी ॥४॥हरेर्भक्ताऽपि वै जातिस्वभावा धूर्तताऽन्विता ।अनृतकपटाऽसत्यशाठ्याद्युक्ता हि वर्तते ॥५॥वाण्यां क्रियायां मनसि प्रतारणपरायणा ।यथाकथञ्चिद् व्यामोह्य प्रदर्श्याऽपि फलं बहु ॥६॥विश्वासं बहुधोत्पाद्य करोति वञ्चनां ततः ।लब्धं वञ्चनया यत्तद्धनं रौप्यं च काञ्चनम् ॥७॥शीघ्रं नीत्वा प्रयात्येव ग्रामान्तरमनोयुता ।अनसा सौमभागेषु क्षेत्रेषु वाटिकास्वपि ॥८॥अन्नानां हरणं चौर्यं करोति कर्मसन्धिनी ।एवंविधाऽपि मार्गेषु चतुःसंगेषु वै निशि ॥९॥शकटच्छायया कालं निर्यापयति सीमनि ।तत्र कश्चित् समायाच्चेद् भिक्षुको भिक्षुकी तु वा ॥१०॥तस्मै दत्वा यथायोग्यं भक्ष्यं भुंक्ते ततस्तु सा ।एवमभ्यागतपरा भिक्षुके कृष्णमानिनी ॥११॥नारायणं भिक्षुकं तु मत्वाऽर्हणां करोत्यपि ।पादसंवाहनं रात्रौ दिवा देहप्रसेवनम् ॥१२॥जलपुष्पाद्यर्पणं च कृत्वा भुंक्ते ततः परम् ।एवं सेवापरा चास्ते नियमे भिक्षुकार्चने ॥१३॥वर्तमाना भिक्षुकाय निर्दंभा धूर्ततां निजाम् ।निवेदयति विज्ञा सा निष्पापत्वाय सर्वथा ॥१४॥सा तु जानाति गुरुतो नाम्ना चार्वंकराधनात् ।साधवे निजकृत्यं वै निवेदनीयमादरात् ॥१५॥सत्यं वाच्यं यच्च तच्च गुह्यं वापि प्रकाशजम् ।अन्याय्यं वा न्याययुक्तं पापं पुण्यं प्रतारणाम् ॥१६॥धूर्तता शुभता चाप्यनिष्टता क्लेशता तथा ।चौर्यं चापहरणं च वाच्यं श्रीगुरवे सदा ॥१७॥गर्हितं वा प्रशस्तं वा वाच्यं चाऽवाच्यमित्यपि ।सर्वं श्रीगुरवे निवेदनीयं शुद्धिहेतवे ॥१८॥इत्येवं जायते कर्तुर्निष्पापत्वं पवित्रता ।बन्धनं जायते नैव पापफलं न जायते ॥१९॥उपार्जितात् तथा न्यायाऽन्यायाभ्यामपि सर्वदा ।दातव्यं गुरवे चाभ्यागताय भिक्षुकाय च ॥२०॥निर्दोषत्वं जायते च तेन पापं व्यपोहति ।अनिवेदितभोक्तैव पापेन परिलिप्यते ॥२१॥निवेदितान्नभोक्ता तु पापेन नोपलिप्यते ।उदरार्थं कुटुम्बार्थं दस्यूनां दस्युकर्मसु ॥२२॥दूषणं जायते नैव जातं चेद् गुरवेऽर्पणात् ।निर्दोषं जायते तस्माद् गुरुः सेव्यः प्रमोक्षदः ॥२३॥गुरुरेव परब्रह्म गुरुरेव जनार्दनः ।गुरुरेव विधाता च गुरुरेव परागतिः ॥२४॥गुरुरेवाऽनलः सूर्यो गुरुरेव प्रकाशदः ।गुरुरेव परं पुण्यं गुरुर्धर्मः सुखं धनम् ॥२५॥गुरुः स्वर्गं गुरुर्विष्णुर्गुरुः शंभुर्गुरुर्व्रतम् ।गुर्वर्पणं परं पुण्यं तस्माच्छ्रीगुरवेऽर्पयेत् ॥२६॥अन्यत्र वै कृतं पापं गुर्वेग्रे संविनश्यति ।गुरौ पापं न कर्तव्यं गुरुर्वै परमा गतिः ॥२७॥न वै नारायणो भूमौ शङ्खधारी मिलत्यपि ।गुरुर्नारायणः सत्यधारी मिलति भूतले ॥२८॥सतां समागमात् तेन निष्पापता प्रजायते ।सन्तः श्रीगुरवस्तस्मात् सेवनीया विशुद्धये ॥२९॥अशुद्धः खलुः संसारः शुद्धस्तत्र गुरुर्हरिः ।अशुद्धिर्लीयते सर्वा गुरोर्योगेन दैहिकी ॥३०॥मानसी लीयते चाप्यशुद्धिर्भक्त्या गुरोः सदा ।गुरोर्नामस्मरणेन चात्मा पावनतां व्रजेत् ॥३१॥गुरवे त्वर्पणात् सर्ववस्तूनां स्यात् पवित्रता ।नरा नार्यः प्रशुद्ध्यन्ति गुरुयोगेन भूतले ॥३२॥गुरोर्मूर्तिर्हरेर्मूतिः पावनी पापिनामिह ।तस्मात् सत्संगतिः कार्या पापिभिः पापहानये ॥३३॥एवंविधं परं ज्ञानं गुरुतः सा ह्यवाप तु ।तेन साधुजनसेवां करोति दंभवर्जिता ॥३४॥समस्तं तत्कुटुम्बं वै सतां करोति सेवनम् ।चार्वंकराधनः साधुर्ददौ तस्यै मनुं हरेः ॥३५॥'ॐनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।ददौ मूर्तिं ददौ ज्ञानं गुरुसेवात्मकं तथा ॥३६॥एवं गुर्वाज्ञया नित्यं वर्तते कनकांगदा ।गुरुसेवापरा श्रीमद्बालकृष्णपराऽन्वहम् ॥३७॥धूर्ततापापनाशार्थं सेवते श्रीहरिं गुरुम् ।भावेन नित्यमेवैषा क्षुधां तृषा च सेवते ॥३८॥अकृत्वा सा गुरोः पूजां चाऽनिवेद्याऽन्नमित्यपि ।वारि पुष्पं फलं शाकं न भुंक्ते सा क्वचित् खलु ॥३९॥एवं नियममासाद्य वर्तते गुरुतत्परा ।अथैकदा तु सप्ताहं गुरुर्वनान्तरं ययौ ॥४०॥अभ्यागतश्च वा साधुः कश्चिद् गृहं च नागतः ।हरिं प्रपूज्य सा साध्वी वाटं पश्यति चोत्सुका ॥४१॥क्षुधिना तृषिता रात्रिन्दिवं पश्यति वाटिनम् ।सप्ताहं नागतः साधुरभ्यागतोऽपि नागतः ॥४२॥अदत्त्वा साधवे साध्वी न भुंक्तेऽन्नं प्रसादजम् ।अन्यान्यस्य तु का वार्ता बद्रिके दृढभक्तिगा ॥४३॥नापि पपौ च सा वारि त्वनिवेद्य हि साधवे ।तदाऽनादिकृष्णनारायणः श्री कृष्णगोपजः ॥४४॥अन्तर्यामी सर्वविज्ञः साधुर्भूत्वा समाययौ ।धृतकाषायवसनो धृतकन्थाकमण्डलुः ॥४५॥धृतपावटिकाकुक्षिर्धृतभस्मादिजोलिकः ।नारायणहरे विष्णो कृष्णश्रीभगवानिति ॥४६॥रटन्नुच्चैर्वदद् श्रीमद्बालकृष्णो जयत्यपि ।हरे कृष्ण प्रभोकृष्ण पद्मावतीपते प्रभो ॥४७॥धर्मिनियमिरक्षक त्वं भक्षरक्षकरप्रभो ।एवं नारायणकृष्णं जपन् शकटीमाययौ ॥४८॥आसनं पावटीं जोलीं न्यस्य भूमौ हरे हरे ।कथयित्वा निषसाद जयो भवतु चक्रिणः ॥४९॥सुखिनी स्याः कानकांगि चार्वंकराधनोऽपि च ।सुखिनस्ते कुटुम्बं च पुत्राः पुत्र्यो भवन्त्वपि ॥५०॥इत्येवं समचित्तश्च ह्याशीर्वादपरायणः ।साधुरयं दैवयोगादागतो मद्गृहं त्विति ॥५१॥मत्वोत्थाय द्रुत साध्वी कनकांगी शुभासनम् ।ददौ नत्वा जलं शुद्धं ददौ फलानि वै तदा ॥५२॥अन्नं नवं ददौ तस्मै पवनं व्यजनेन च ।पुष्पाणि तुलसीपत्राण्यपि ददौ तु भावतः ॥५३॥भोजनं कुरु साधो त्वं मधुपर्कं गृहाण च ।स्नानमाचमनं भक्ष्यं भोज्यं वारि गृहाण च ॥५४॥आशीर्वादं देहि साधो पापं मे नाशमाप्नुयात् ।मम भाग्यवशात् प्राप्तो नारायणस्वरूपवान् ॥५५॥वासं गृहे मम साधो कुरु सेवां गृहाण च ।'ओं नमोऽनादिश्रीकृष्णनारायणाय साधवे ॥५६॥योगिने सर्वविज्ञाय भक्तरक्षाकराय च ।अधमोद्धारणकर्त्रे दीनानाथदयालये ॥५७॥नमः साधुस्वरूपाय बालकृष्णाय ते नमः ।कंभरानन्दबालाय गोपालबालकाय ते ॥५८॥नमो राधाविहाराय कमलापतये नमः ।नमोऽन्तर्यामिणे भक्तभावुकाय सते नमः ॥९९॥अन्तरात्मा परमात्मा प्रसन्नो भव सर्वदा ।साधुसेवा तव सेवा नारायण गृहाण ताम् ॥६०॥इत्येवं भावभिन्ना सा ददौ तत् कनकांगदा ।पुत्राः पुत्र्यः समस्तास्ता ददुर्यथेष्टवस्तुकम् ॥६१॥चार्वंकराधनश्चापि साधुसेवां तदाऽकरोत् ।मिष्टवाण्या चरणयोः संवाहनं व्यधान्मुदा ॥६२॥एवं सर्वं कुटुम्बं वै चामठाजातिजं तदा ।सेवापरायणं जातं सप्ताहाऽनशनान्वितम् ॥६३॥साधुं संभोजयित्वैव पाययित्वा जलं तथा ।सेवयित्वा यथायोग्यमाज्ञया च ततः परम् ॥६४॥प्रसादान्नं जलं सर्वे जगृहुर्भावतः खलु ।शयने चापि सर्वे ते चक्रुः साधोः प्रसेवनम् ॥६५॥आप्रातः सेवनं चक्रुः पादसंवाहनादिकम् ।प्रातः साधुस्ततः प्राह वर वृणुत चामठाः! ॥६६॥प्रसन्नोऽस्मि नियमेन भक्त्या सतां प्रसेवया ।भाबेनाऽहं प्रसन्नोऽस्मि गणयामि न दूषणम् ॥६७॥महापापातिपापानि शाठ्यानि विविधान्यपि ।प्रतारणानि सर्वाणि नाशयामि कृपावशः ॥६८॥धूर्ततां सर्वथा चापि विश्वासघातनं ह्यपि ।चौर्यपापं तथा द्रव्यापहरणोद्भवं त्वघम् ॥६९॥सर्वं प्रसन्नभावोऽहं नाशयामि कृपावशः ।उक्त्वेत्थं साधुरूपोऽपि मूर्तिरूपोऽभवत् क्षणम् ॥७०॥नारायणस्वरूपश्च चतुर्भुजोऽभवत् क्षणम् ।अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ॥७१॥श्रीप्रियामाधवीराधामाणिकीललितापतिः ।अभवत्तूर्णमेवाऽसौ सर्वदिव्यविभूषणः ॥७२॥दिव्यतेजोऽभिसंव्याप्तो दिव्यसौन्दर्यभाजनः ।अथ तूर्णं सम्प्रदर्श्य रूपं दिव्यमनोहरम् ॥७३॥तिरोऽभवत्ततो मूर्तौ ततः साधुस्वरूपवान् ।व्यदृश्यत स्वयं कृष्णनारायणः कृपावशः ॥७४॥अथ सर्वे क्षणं मुग्धा निष्पापा दिव्यदृष्टयः ।जाता भक्तिवशाः कृष्णवशा गद्गदसुस्वराः ॥७५॥भवपारं समस्तास्ते ह्ययाचन् दुःखनाशनम् ।श्रीहरेः शरणं मुक्तिमयाचन् त्वक्षरे पदे ॥७६॥धूतपापानि सर्वाणि क्षमापयेति चार्थयन् ।पापजातेः समुद्धारं कुरु कृष्णेति चार्थयन् ॥७७॥अथ बद्रीप्रिये स्वामी स्वयं श्रीहरिवल्लभः ।पादजलं पाययित्वा दिव्यदेहान् व्यधाद्धि तान् ॥७८॥विमानं त्वागतं तत्र दिव्यं वैकुण्ठवासिनाम् ।पार्षदानां तत्र सर्वेऽध्यरोहन् प्रमुदान्विताः ॥७९॥ययुर्धामाऽक्षरं ते वै प्राप्य वैकुण्ठमुत्तमम् ।श्रीहरेः पादवासं ते प्रापुर्भक्त्याऽतिभावया ॥८०॥साधुरूपो हरिस्तत्र तूर्णं तिरोभवत् क्षणात् ।एवं श्रीबद्रिके भक्ता कनकांगी तु चामठी ॥८१॥सकुटुम्बा ययौ मोक्षं धूर्ताऽपि भक्तिपावना ।श्रवणात्पठनादस्य भुक्तिर्मुक्तिर्भवेत्तथा ॥८२॥पापनाशो भवेच्चापि स्वर्गर्द्धिः संभवेदपि ।साधुसेवाफलं साक्षात् कृष्णप्राप्तिर्भवेदपि ॥८३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने चामठीजातीयायाः कनकांगदायाः सकुटुम्बायाः साधुसमागमेन परमभक्त्या साधुरूपेण भगवत्प्राप्तिमोक्षणं चेत्यादिनिरूपणनामा नवाऽधिकत्रिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP