संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः २७

तिष्यसन्तानः - अध्यायः २७

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
श्रूयतां बदरीदेवि त्वया निकामयोगिनः ।
पत्न्याः कथा परा दिव्या मोक्षदाऽपि ततोऽभवत् ॥१॥
यावत् पश्यति दिव्यं श्रीकृष्णनारायणं प्रभुम् ।
निकामदेवः सहसा दिव्यस्तब्धाकृतिं गतः ॥२॥
तावत् तत्र समायाता सुरेश्वरी सती द्रुतम् ।
पूजार्थं श्रीकृष्णनारायणस्य कमलैः शुभैः ॥३॥
सहस्रकमलैश्चाऽश्वपट्टसरोभवैः सती ।
चन्दनैश्चाक्षतैः पुष्पैः कृष्णपूजार्थमागता ॥४॥
व्यपश्यत् स्वपतिं स्तब्धं दिव्यसमाधिसंस्थितम् ।
अनुक्त्वा सा द्रुतं कृष्णनारायणाय चक्रिणे ॥५॥
कमलानि समर्प्यैव चन्दनं चाक्षतान्यपि ।
समस्तानि सुपुष्पाणि समर्प्य परमात्मने ॥६॥
पादसंवाहनार्थं सा यावत् पुरो निषीदति ।
तावच्छ्रीकृष्णकान्तस्य पादयोर्निर्गता प्रभा ॥७॥
अव्याप्नोद् बद्रिके सौधे ततश्चत्वरमण्डले ।
निबिडा च घनीभूताऽव्याप्नोदम्बरमण्डले ॥८॥
चन्द्रनिभाऽभवत् सा तु माधुर्यशीतमिष्टदा ।
अथ विद्युन्निभा जाता स्वर्गानलसमा ततः ॥९॥
महाभूतमयी जाता तैजसी सा ततोऽम्बरे ।
अथेश्वराणां योग्या च गम्या स्वर्गनिवासिनाम् ॥१०॥
ब्रह्मादीनां ततो गम्या ततश्चेश्वरपुंगवैः ।
निभाल्या श्रीपुरे धाम्नि यथा वै तैजसी प्रभा ॥११॥
वासुदेवप्रभा पश्चात् कृष्णप्रभाऽक्षरप्रभा ।
अक्षरं धाम सर्वं साऽभवत् ताभ्यां निभालितम् ॥१२॥
मुक्ता मुक्तानिकाश्चापि ब्रह्मप्रिया हरिप्रियाः ।
समस्ता श्रीर्माणिकी च ललिता च जया रमा ॥१-२॥
राधापद्मावतीशक्तयश्च ताभ्यां विलोकिताः ।
धाम्नि चारामसौधानि मन्दिराणि शुभानि च ॥१४॥
भवनानि विचित्राणि मुक्तानामालयाः शुभाः ।
अनादिश्रीकृष्णनारायणस्य मुख्यमन्दिरम् ॥१५॥
सहस्रैककलशाढ्यबहुमन्दिरमध्यगम् ।
निभालितास्तथा सख्यः सखायः परमात्मनः ॥१६॥
उद्यानानि विहाराश्च दिव्यभोगा विलोकिताः ।
दिव्याऽतिदिव्यसौन्दर्यमाधुर्यौज्ज्वल्यसंभृताः ॥१७॥
पार्षदाः पार्षदान्यश्च ताभ्यां तत्र विलोकिताः ।
कल्पद्रुमा ब्रह्मद्रुमा ब्रह्मवल्ल्यो विलोकिताः ॥१८॥
फलपुष्पर्द्धयस्तेषु मिष्टरसा विभाविताः ।
अनन्तभोगसामग्र्योऽसंख्यसाधनसंभृताः ॥१९॥
अनन्तदासदास्यश्चाऽनन्तैश्वर्यविभूतयः ।
अनन्तसिद्धदेहाश्च मुक्तात्मानो विलोकिताः ॥२०॥
मुक्तैर्मुक्तानिकाभिश्च सेवितः परमेश्वरः ।
कुंकुमवापिकाक्षेत्रस्थितो धाम्नि विलोकितः ॥२१॥
दिव्याक्षरे परे धाम्नि सौराष्ट्रोऽपि विलोकितः ।
अश्वपट्टसरो दिव्यं रम्यः श्रीलोमशाश्रमः ॥२२॥
महर्षीणां चाऽवसथान्यपि दिव्यानि तत्र च ।
आलोकितानि दिव्यानि कोट्यर्बुदाब्जशक्तयः ॥२३॥
अनादिश्रीकृष्णनारायणकान्ता विलोकिताः ।
तत्र त्वं बदरी चास्से माणिक्या भगवत्प्रिया ॥२४॥
दिव्यगजासनं कृष्णमन्दिरे सर्वशोभने ।
सर्वर्द्धिसंभृतं चापि ताभ्यां विलोकितं तदा ॥२५॥
अथ तत्राऽनादिकृष्णनारायणः पुमुत्तमः ।
पुराणपुरुषो बद्रि दिव्ययुवा सुसुन्दरः ॥२६॥
स्वर्णकेशः स्वर्णश्मश्रुः स्वर्णाम्बरः सुतैजसः ।
सर्वलावण्यमूर्तिश्च मन्दहास्यान्वितः प्रभुः ॥२७॥
अनन्तचन्द्रशीताढ्यनेत्रद्वयविराजितः ।
सर्वानन्दप्रदप्रेमरसाढ्यनेत्रपद्मजः ॥२८॥
मन्दहास्यसुगन्धाढ्यमुखमण्डलराजितः ।
रक्तौष्ठस्थसुमाधुर्यप्रियताबोधबोधकः ॥२९॥
श्वेतकान्तिप्रसरत्सद्रत्नबीजाभदन्तकः ।
श्रीरूपाऽव्यक्तभावाढ्यमाणिक्यजिह्विकान्तरः ॥३०॥
पुष्टस्कन्धद्वयाऽऽलम्बिमन्दारादिस्रगन्वितः ।
भुजबन्धभुजाशोभच्छृंङ्खलाढ्यप्रकोष्ठकः ॥३१॥
दक्षकरतलस्थानमीनशूलधनुर्ध्वजः ।
नखचन्द्रावलिद्योतत्समग्राभिपुरःस्थलः ॥३२॥
रत्नभूषावलिव्याप्तकौस्तुभरेखिकौरसः ।
स्वर्णाम्बरादिशोभाढ्यो रशनाकटिशोभितः ॥३३॥
क्वणत्किंकिणिकाकूजत्पादभूषाविराजितः ।
स्वर्णचित्रमृदुस्वस्तिपादुकाचरणान्वितः ॥३४॥
अलक्ताभचरणोभतलादिसर्वचिह्नवान् ।
पारमेशं परं छत्रं मस्तकोर्ध्वे विराजते ॥३५॥
चामरे चाऽल्पमानेऽपि श्रीलक्ष्मीभ्यां धृते शुभे ।
व्यजनेन सती बालयोगिनी यत्र तिष्ठति ॥३६॥
सुरेश्वरी ताम्बूलकं यस्मै कृष्णाय यच्छति ।
निकामदेवः श्रीकृष्णवेत्रधरोऽत्र राजते ॥३७॥
एवं दिव्यस्वरूपः श्रीकृष्णस्ताभ्यां प्रवीक्षितः ।
अथाऽस्य कृपया कृष्णोद्यानानि भवनानि च ॥३८॥
अन्तः प्रविश्य सर्वाणि ताभ्यां विलोकितानि वै ।
अनन्तानन्दमोदाश्च ताभ्यां तत्र समर्जिताः ॥३९॥
प्रसादाश्चार्जिता दिव्यश्रीकृष्णेन समर्पिताः ।
तृप्ताः शाश्वतभावाश्च मुक्ताश्चापि विलोकिताः ॥४०॥
श्रीमद्गोपालकृष्णश्च धर्ममूर्तिर्विलोकितः ।
तथा श्रीकंभरालक्ष्मीर्भक्तिरूपाऽवलोकिता ॥४१॥
सन्तुष्टा च सती बाला कृष्णशक्तिर्विलोकिता ।
एवं दृष्ट्वा प्रसादं च लब्ध्वा भुक्त्वा च तौ तदा ॥४२॥
तृप्तौ नारायणदृष्ट्या गोलोकं समुपागतौ ।
अक्षरं धाम सहसा समस्तं विलयं गतम् ॥४३॥
गोलोके श्रीकृष्णरूपस्ताभ्यां स एव माधवः ।
अनादिश्रीकृष्णनारायणः कृष्णो विलोकितः ॥४४॥
वंशीधरो गोपिकानां मण्डलेषु सराधिकः ।
रासं रामयन् रमयन् गोपवृन्देषु वीक्षितः ॥४५॥
गवां सुसेवने सक्तो दुग्धदध्यादिभोजनः ।
अनादिश्रीकृष्णनारायणः कृष्णो विलोकितः ॥४६॥
अथ ताभ्यां स गोलोकस्तिरोभूतो विलोकितः ।
वैकुण्ठस्तावदेवैव सञ्जात इति वीक्षितः ॥४७॥
तत्र नारायणो लक्ष्मीपतिः प्रभुर्विलोकितः ।
असंख्यपार्षदैः सेव्योऽनन्तरमादिरामणः ॥४८॥
अव्याकृतं महद्धाम ततस्ताभ्यां विलोकितम् ।
वासुदेवस्तत्र धाम्नि वासुदेव्यादिसेवितः ॥४९॥
प्रद्युम्नादिभ्रातृभिश्च सर्वसामर्थ्यशोभितः ।
आलोकितो हि भगवान् ततः श्रीपुरधामनि ॥५०॥
ललिताश्रीमहादेव्या सेवितोऽनन्तशक्तिभिः ।
अमृताख्ये ततो धाम्नि कृष्णनारायणः स च ॥५१॥
भूमा हि भगवान् सोऽपि वीक्षितः कमलापतिः ।
ततः कैलासरूपे च सदाशिवो विलोकितः ॥५२॥
स एव भगवाँस्ताभ्यां हिरण्यगर्भधामनि ।
हिरण्मयः स्वर्णमूर्तिर्महाविष्णुर्विलोकितः ॥५३॥
वैकुण्ठे चाऽपरे तत्र स वै विष्णुस्वरूपधृक् ।
पद्माश्रीसहितः कृष्णनारायणो विलोकितः ॥५४॥
अथ सूर्ये स एवाऽपि नारायणो हिरण्मयः ।
विलोकितो हि भगवान् वह्नौ वह्निस्वरूपधृक् ॥५५॥
स एव भगवान् बद्रिकाश्रमे च नराग्रजः ।
तापसो लोकितस्ताभ्यां श्वेतद्वीपेऽथ शेषगः ॥५६॥
स एव भगवान् क्षीरे लक्ष्मीकान्तो विलोकितः ।
कुंकुमवापिकाक्षेत्रे सर्वावताररूपधृक् ॥५७॥
कोट्यवतारसहितः कोटिकृष्णसमन्वितः ।
विलोकितस्ततस्ताभ्यामनादिपुरुषोत्तमः ॥५८॥
अथाऽन्तर्यामिरूपः स प्रत्यात्माऽपि निभालितः ।
सुरेश्वर्या हृदयेऽपि निकामदेवमानसे ॥२९॥
समग्रायां प्रतिमायां बालयोगिनिकाऽस्थिषु ।
प्रत्यवयवं श्रीकृष्णनारायणो विलोकितः ॥६०॥
एवं प्रदर्श्य भगवान् ताभ्यां दिव्यं महत्तमम् ।
महिमानं निजं पश्चात् तिरोऽभावयदच्युतः ॥६१॥
मानवः सहसा जातश्चाश्वपट्टसस्तटे ।
पृथ्व्यां स्थितोऽभवत्तत्र स्नानार्थकृतनिश्चयः ॥६२।
निकामदेवं हस्ताभ्यां पस्पर्श च सुरेश्वरीम् ।
तावत्तौ चर्मचक्षुष्कौ जातौ यद्वद्धि मानवौ ॥६३॥
निपेततुः पूर्णकामौ कृतसर्वात्मदर्शनौ ।
स्तुतिं साश्रुदृष्टिनेत्रौ चक्रतुः स्वामिनः प्रभोः ॥६४॥
पावितौ कृपया कृष्ण पुत्रीदानेन पावितौ ।
रक्षितौ सन्निधौ कृष्ण कृपया मोक्षितावपि ॥६५॥
कृतकृत्यौ प्रजातौ स्वः प्रार्थितं नाऽवशिष्यते ।
परेशस्त्वं चिरं प्राप्तो भवार्णवे पुनस्त्विह ॥६६॥
भवो गतो गतो भावो भयं गतं तु नैधनम् ।
आगता ब्रह्मसंवित्तिर्ब्राह्मी तृप्तिः समागता ॥६७॥
यद्वा प्रेषय तत्रैव यत्रास्से त्व महाऽक्षरे ।
यद्वा रक्षय चात्रैव पादयोस्ते जनार्दन ॥६८॥
ब्रह्मेशस्त्वं यथार्थोऽसि जन्ममरणतारकः ।
जा जनिर्मा मृतिश्चेति तस्तारक इत्यसि ॥६९॥
सर्वात्मकोऽसि भगवन् सर्वेच्छा नौ रराम ह ।
न त्वां विना परात्मानं किञ्चिज्जगति विद्यते ॥७०॥
त्वामेव विश्वरूपं च परं ज्ञात्वा विमुच्यते ।
सर्वस्थं त्वां विलोक्यैव समाधिः सर्वदा स्थितः ॥७१॥
त्वां ध्यात्वा यस्त्यजेत्प्राणान् स याति ब्रह्मधाम वै ।
त्वां संस्थाप्य निजात्माऽब्जे गन्तव्यं नाऽवशिष्यते ॥७२॥
कृष्णप्रकाशकं ध्यानं सर्वबन्धविमोचकम् ।
अहो भाग्यं परं नौ च यदत्र मिलितो भवान् ॥७३॥
मन्थनाद् दृश्यते ह्यग्निर्भवान् सर्वसमर्पणात् ।
कृपा ते नौ विमोक्षाय नान्यः पन्था हि कारणम् ॥७४॥
श्रवणं मननं ध्यानं ज्ञानं तीर्थं तपो व्रतम् ।
न मुक्तौ कारणं चात्र कृपा ते चात्र कारणम् ॥७५॥
यदा सर्वे समर्प्यन्ते कामा हृत्स्थास्त्वयीश्वरे ।
तदाऽमृतपदप्राप्तिः कृपया ते भवेदिह ॥७६॥
सर्वज्ञः सर्वदर्शी त्वं क्षेत्रज्ञश्चात्मदीपकृत् ।
विलीय वासना नैजान् नयस्यक्षरधामनि ॥७७॥
इत्युच्चार्य नम ओं श्रीकृष्णनारायणाय ते ।
नमस्कारं चक्रतुस्तौ तावच्छ्रीबालयोगिनी ॥७८॥
आयाता श्रीकृष्णनारायणाय दातुमुत्तमम् ।
सुमिष्टं सलिलं पानयोग्यं च शीतलं सती ॥७९॥
दिव्यदृष्ट्या ज्ञातवती पित्रोस्तूर्णं हि मोक्षणम् ।
नातिदूरे च सहसा पाययित्वा जलं हरिम् ॥८०॥
प्रसादवारि पितृभ्यां ददौ सा बालयोगिनी ।
तावत्तौ कृष्णकृष्णेति कृष्णनारायणेति च ॥८१॥
जगदतुर्दिव्यवाचा कृपया स्वामिनः प्रभोः ।
प्रसादवारिपानेन देहाभ्यां परिवर्तितौ ॥८२॥
दिव्यरूपौ तैजसौ तौ भागत्यागविवर्जितौ ।
बभूवतुर्हि तत्रैव मुक्तौ धामगतौ यथा ॥८३॥
तावद् विमानं सुभगं गजाग्रपरिशोभितम् ।
मुक्तमुक्तानिकाजुष्टं जयशब्दादिकूजितम् ॥८४॥
अम्बरं पृथिवीं स्वर्गे प्रभासयद् यथाऽक्षरम् ।
अवातरन्मन्दिरस्य सन्निधौ सेतुभूमिषु ॥८५॥
जयशब्दैर्हरिकृष्णं स्वामिनं श्रीरमापतिम् ।
पुष्पाक्षतादिभिर्दिव्यैश्चन्दनैस्तमपूजयन् ॥८६॥
अवतीर्य विमानाच्च श्रीकृष्णचरणामृतम् ।
जगृहुश्च रजो मूर्ध्नि निदधुश्च पपुर्जलम् ॥८७॥
पश्यतां सर्वलोकानां तावत्तौ मानवावपि ।
दिव्यदेहौ बालकृष्णहस्तधृतौ विमानके ॥८८॥
निषादितौ विप्रसुरेश्वरीनिकामदेवकौ ।
नतौ पुत्र्या च हरिणा बदर्या तत्र तावुभौ ॥८९॥
माणिक्यया नतौ चापि नतौ कृष्णकुटुम्बिभिः ।
नत्वा सर्वान् विमानेन ययतुर्धाम चाऽक्षरम् ॥९०॥
आश्चर्यं परमं प्राप्ता देहिनो देवकोटयः ।
एवं बद्रीप्रिये देवि श्वशुरौ परमात्मना ॥९१॥
प्रेषितावक्षरं धाम पितरौ ते तदा मतौ ।
इदं ये परमाख्यानं श्रोष्यन्ति परमादरात् ॥२॥
श्रावयिष्यन्ति वा लोकान् प्राप्स्यन्ति परमां गतिम् ।
कृष्णसेवा मोक्षदा वै साधुसेवा च मोक्षदा ॥९३॥
मन्त्रो विषं वारयति वह्निः शीतं हरत्यपि ।
सदा तु तौ हि निर्दोषौ मन्त्रः कृष्णोऽनलो हि सन् ॥९४॥
सतां योगेन मुक्तिः स्याद् यथा श्रीकृष्णयोगतः ।
कृष्णयोगेन मोक्षः स्याद् यथा साधुप्रसंगतः ॥९५॥
साक्षात् कृष्णस्य योगेन दिव्यता वर्ष्मणस्त्विह ।
सर्वार्थलाभ एवापि शिष्यते नाऽपरं सुखम् ॥९६॥
बालयोगिनीगीताया अभ्यासेन परात्मनः ।
पत्नी स्यात् कन्यका नारी नरो दासस्तु पार्षदः ॥९७॥
सकामाः सम्पदां वासा निष्कामाः स्युर्विमुक्तिगाः ।
असिद्धाः सिद्धतां चेयुर्बद्धा निर्बद्धतामपि ॥९८॥
भ्रमिता ब्रह्मभावं च प्राप्नुयुः श्रवणादपि ।
माननात् कृष्णतां निदिध्यासनात् परमेशताम् ॥९९॥
प्राप्नुयुः सर्वथा बद्रि प्राह श्रीपुरुषोत्तमः ।
बालयोगिनीगीतेयं बालकृष्णसुयोगदा ॥१००॥
श्रोतव्या सततं मुक्त्यै गन्तव्यः परमः पुमान् ।
भोक्तव्यं च सुखं कार्ष्णे सुप्तव्यं शयने हरेः ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणेन निकामदेवाय तत्पत्न्यै च सर्वधामधामिरूपस्वदर्शनं दत्तम्, निकामदेवतत्पत्न्योः सदेहदिव्यमोक्षणं कृतमित्यादिनिरूपणनामा सप्तविंशतितमोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP