तिष्यसन्तानः - अध्यायः ७२
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां ज्योतिर्विदस्य वै ।
विक्रमनगरे विप्रो नाम्ना देवमतीश्वरः ॥१॥
कुलकुटुम्बसहितश्चासीद्धर्मव्रतादिमान् ।
देवसेवापरश्चापि प्रजाकल्याणचिन्तनः ॥२॥
आतिथेयः शरण्यश्च परदुःखप्रभञ्जनः ।
ब्रह्मकर्मपरश्चापि ज्योतिर्विद्याऽर्धपण्डितः ॥३॥
बद्रिके सर्वलोकेषु चार्धज्ञः सर्वकर्मसु ।
न पारं निर्णयं याति ततो भवति क्लेशभाक् ॥४॥
औषधेषु भाग्यवित्सु ज्योतिर्वित्सु कलासु च ।
सर्वथा पारगो दीर्घानुभवी च बहुश्रुतः ॥५॥
साधनेष्वनुकूलेषु ध्रुवं फलं समश्नुते ।
अपारगस्तु यत्नेन दैवानुकूलवर्त्मनि ॥६॥
अकस्माल्लभते पुष्पं फलं वा लभते क्वचित् ।
प्रायशो न फलं याति विफलं लभते सदा ॥७॥
असत्याऽऽडम्बरदोषैर्लिप्यते विज्ञगर्ववान् ।
अर्धदग्धेन भाव्यं न प्रायशः क्लेशकारिणा ॥८॥
अर्धाभिज्ञो भिषङ्मध्य शतहिंसोत्तरं वरः ।
उत्कृष्टभावमायाति हिंसापापशतान्वितः ॥९॥
अर्धाभिज्ञस्तथा ज्योतिर्वेत्ता रेखाविदस्तथा ।
बहूनामनृतानां च पापवान् जायते सदा ॥१०॥
असत्यकथनैश्चापि सन्दिग्धानां प्रदर्शनैः ।
निश्चितज्ञानविधुरा विश्वासघातदूषिताः ॥११॥
विपथे वर्तमानास्ते परान् विपथयन्ति च ।
तेन दोषेण जायन्ते मृतास्तिर्यञ्चि राक्षसाः ॥१२॥
उपदेशकरा एवं वृथा वाचां विहारिणः ।
स्वयमुक्तार्थशून्यास्ते परोपदेशपण्डिताः ॥१३॥
तिरश्चां योनिमृच्छन्ति जायन्ते राक्षसा अपि ।
बद्रिकेऽतो भिषक्त्वं विद्वत्त्वं ज्योतिःप्रवेतृता ॥१४॥
सत्येन युञ्जिताः सर्वे स्वर्गदा मोक्षदा अपि ।
असत्ययुञ्जिताः सर्वेऽधोगतौ निरयप्रदाः१५॥॥
बद्रिके स तथा चार्धज्योतिषी ग्रहदर्शकः ।
भाग्याऽभाग्यप्रवक्ता च मिथ्याचारोऽभवत्तदा ॥१६॥
तेन पापेन संलिप्तो देवगतीश्वराभिधः ।
गलगण्डेन रोगेण कण्ठमालरुजा तथा ॥१७॥
गले कर्कटवृद्ध्या च पीडितश्चाऽभवत्तदा ।
जिह्वामूलं रुजा छन्नं जिह्वा ह्रस्वा ततोऽभवत् ॥१८॥
अस्पष्टवर्णा वाणी च शनैर्वै मूकतां गता ।
एवं रोगाभिभूतस्य शिरसो वेदनाऽभवत् ॥१९॥
गण्डयोश्चाऽभवत् पाकस्तेन दुःखेन पीडितः ।
पूयपाकोऽभवद् भाले पूयस्रावश्च कर्णयोः ॥२०॥
नेत्रयोरान्ध्यभावश्च बाधिर्यं चाप्यजायत ।
अहो प्रारब्धदुःखं वा सञ्चितं तत्समागतम् ॥२१॥
कृतं मिथ्याप्रचारं यत् समस्तं भुज्यते त्विह ।
तस्मान्मिथ्या न कर्तव्यं न कर्तव्यं मृषा क्वचित् ॥२२॥
असत्यं नाचरणीयं नोपदेष्टव्यमनृतम् ।
अज्ञातं नोपदेष्टव्यं दर्शनीयं न चाऽनृतम् ॥२३॥
सन्दिग्धं विपरीतं वा कथनीयं न सर्वथा ।
नाऽहितं चिन्तनीयं च स्वार्थदोषाभिपातिना ॥२४॥
नाऽनिष्टं करणीयं च कारणीयं न केनचित् ।
नाऽन्धमार्गे धावनीयं नाऽऽकृष्टव्याः परेऽपि च ॥२५॥
न पातनीया गर्तेऽन्धे पतनीयं न सर्वथा ।
दृष्टं वाच्यं न त्वदृष्टं वाच्यं प्रामाणिकं तु यत् ॥२६॥
वक्तव्यं फलवद् बद्रि निष्फलं नाऽनृतं मृषा ।
आप्तश्रुतं प्रवक्तव्यं ह्याप्तश्रुत्या स्वया न तु ॥२७॥
आशीर्वादाः प्रदातव्याः कृष्णार्पणविधित्सया ।
वचनं तु प्रदातव्यं फलाऽऽयतिभृतं सदा ॥२८॥
आज्ञा कार्या वह्यसह्या स्तुतिः प्रमोदकारिका ।
नाटकं रसवत् कार्यं समाजाश्चर्यकारकम् ॥२९॥
भजनं कीर्तनं गीतं कर्तव्यं तुष्टये हरेः ।
प्रशंसा तु महतां वै कर्तव्या पूज्यभावतः ॥३०॥
वर्णनं सर्वथा कार्यं शतगुणं ततोऽधिकम् ।
चिन्तनं तु विधातव्यं सहस्रतर्कितं तथा ॥३१॥
किन्तु रोगे ग्रहे सत्यं वाच्यं विश्वासकर्मसु ।
व्यवहारे यथायोग्यं वक्तव्यं सत्यमेव ह ॥३२॥
प्राणत्राणाय यद् योग्यं तद्वक्तव्यं विजानता ।
बद्रिके गणकः सोऽयं भिषङ्मिथ्याभिदूषणैः ॥३३॥
पीडितो बहुधा रोगैस्त्रातारं न ललाभ ह ।
बहुधाऽपि व्ययं कृत्वा प्राप्तो निर्धनतां पुनः ॥३४॥
अन्यायोपार्जितं सर्वं रोगेण विनियापितम् ।
अथाऽस्य मतिरुत्पन्ना श्रुत्वा श्रुत्वा पुनः पुनः ॥३५॥
कथाप्रशंसां बहुधा रोगघ्नीं मोक्षदां तथा ।
कथास्थलं ततो गन्तुं रक्षितुं स्वं व्रतादिभिः ॥३६॥
पत्न्यै निवेदयामास विचारं गमनात्मकम् ।
बद्रिके दुःखभाक् प्राणी भजते श्रीप्रभुम्पतिम् ॥३७॥
सुखे नैव स्मरत्येनं सुखदं माधवीप्रभुम् ।
विपद्येव स्मरत्येनं स्वार्थी प्राणी बुधोऽपि सन् ॥३८॥
मानुष्यं सर्वथा प्राप्तं स्मृत्यर्थं श्रीहरेः सदा ।
तद् विस्मृत्य धने पत्न्यां यापयन्ति क्षणं खलाः ॥३९॥
पूर्वकृतं भक्षयन्ति नवीनं नार्जयन्त्यपि ।
पुण्यं त्यक्त्वा पापमेवाऽऽचरन्ति निरयाय ते ॥४०॥
असत्यं हृदये यस्य वाचि त्वसत्यता भवेत्॥
कर्मस्वसत्यता तस्य त्रीण्यत्र निरयाणि वै ॥४१॥
तत्फलं घोरपापं च निरयं निरयप्रदम् ।
फलं च नरकं दुःखं सर्वमसत्यकारिणः ॥४२॥
प्रथमं नरकं देहे रोगः सम्परिकीर्तितः ।
द्वितीयं नरकं चाऽन्नाऽम्बरलब्धिस्त्वतुष्टिदा ॥४३॥
तृतीयं नरकं भार्या दुष्टा दुष्टः पतिश्च वा ।
चतुर्थं नरकं दास्यं कैंकर्यं परवश्यता ॥४४॥
पञ्चमं नरकं नित्यं कलहः स्वजनेषु वै ।
षष्ठं तु नरकं ग्रामे देशे च बहुशत्रुता ॥४५॥
सप्तमं नरकं राजदण्डश्चातिप्रयासिता ।
अष्टमं नरकं तृष्णा वासना चाऽनिवर्तिनी ॥४६॥
नवमं नरकं चेष्टाऽलाभस्तथाऽवमाननम् ।
दशमं नरकं नित्यदारिद्र्यं सर्वतोऽधिकम् ॥४७॥
एकादशं तु नरक सर्वत्रैवाऽर्धदग्धता ।
द्वादशं तु नरकं यन्नित्यं नरकक्षालनम् ॥४८॥
त्रयोदशं तु नरकं नवद्वारमलानि वै ।
चतुर्दशं तु नरकम् उदरस्थं सदा मलम् ॥४९॥
मलकुण्डः शरीरं वै नित्यं नरकसंभृतम् ।
पञ्चदशं तु नरकं पशुवन्मलिना स्थितिः ॥५०॥
षोडशं नरकं याम्यं सहस्रधा तु विस्तृतम् ।
इत्येवं बद्रिके लोके भवन्ति नरकाणि हि ॥५१॥
दुष्टपुत्रो दुष्टशिष्यो राजा दुष्टश्च भक्षकः ।
रक्षको भक्षकस्त्राता हन्तेति नरकाणि वै ॥५२॥
प्रातिकूल्यं तथाऽनिष्टप्राप्तिर्विघ्नानि यान्यपि ।
सर्वे ते निरया लोके दुर्भाग्यानां भवन्ति हि ॥५३॥
कारागारे निवासश्च तथाऽरातेरधीनता ।
दुर्भिक्षे भिक्षुकी वृत्तिर्नरकाणि भवन्ति हि ॥५४॥
लोभो मानं च रुट् कामो द्वेषो रागोऽप्यसूयिका ।
ईर्ष्या मत्सर उद्वेगः साक्षात्ते निरयास्त्विह ॥५५॥
अज्ञानं च तमो मोहश्चौर्यं शाठ्यमपूर्णता ।
प्रतारणं च विश्वस्तघातनं निरयास्त्विमे ॥५६॥
उन्मत्तत्वं विचित्तत्वं शीतोष्णागम उल्बणः ।
छेद्यभेद्याऽङ्गहीनत्वं नरकास्ते सदा मताः ॥५७॥
मलमूत्राशयाः सर्वे नरका देहरूपिणः ।
गर्भवासो जन्ममृत्यू नरकास्ते सदा मताः ॥५८॥
यावन्तः कर्दमाः स्वेदा दुर्गन्धा नरका हि ते ।
अपकीर्तिश्च नरकं शोकाग्निर्निरयो महान् ॥५९॥
आधयो व्याधयश्चोपाधयस्ते नरकाः सदा ।
बद्रिके यस्य सन्तोषस्तस्य स्वर्गमनुत्तमम् ॥६०॥
तृष्णाक्षयसुखं स्वर्गं निरीहता सुखं परम् ।
प्रतिष्ठां शौकरीं विष्ठां गौरवं रौरवं तथा ॥६१॥
अभिमानं सुरापानं त्यक्त्वा त्रीणि सुखी भवेत् ।
नेच्छानां विलयश्चास्ति भोगानां विरतिर्न हि ॥६२॥
कर्मणां शून्यता नास्ति त्रीणि त्यक्त्वा सुखो भवेत् ।
तृप्तिर्नास्ति रसानां वै शान्तिर्नास्ति च कर्मिणाम् ॥६३॥
निवृत्तिर्देहिनां नास्ति त्रिगुणः सर्वदा सुखी ।
अध्यात्मज्ञाने दिवसो रात्रिर्यस्य नरायणे ॥६४॥
निद्रा ब्रह्मात्मसन्धाने स वै स्यात् सर्वथा सुखी ।
दुःखदा सुखतृष्णापि तां त्यक्त्वा स्यात् सुखी सदा ॥६५॥
शरीरं नरकं सर्वं नवद्वारं मलैर्भृतम् ।
पुष्टं मलात्मकैर्भावैरात्मनो निरयात्मकम् ॥६६॥
अरे प्रपश्य बदरि नासिकायाः प्रगर्तयोः ।
पूयभागः प्रस्रवति दुर्गन्धश्चौष्ठलेपकः ॥६७॥
लालाजालं मुखे नित्यं कफश्चान्तःप्रदेशतः ।
मुखमायाति नित्यं च दन्तमूलेषु पूयकम् ॥६८॥
दुर्गन्धं दन्तमूलेषु पक्वं पूयं प्रवर्धते ।
प्रातर्मुखं हि दुर्गन्धं श्वासो दुर्गन्धसंभृतः ॥६९॥
स्वेदः सर्वेषु सर्वत्र रोमस्वभिस्रवत्यपि ।
दुर्गन्धः क्षारभृत् सर्वः सुगन्धो यत्र दुर्लभः ॥७०॥
श्रेष्ठांगमेवं दुर्गन्धमन्यांऽगानां तु का कथा ।
मनुष्याणां विडालानां सिंहानां रक्षसां तथा ॥७१॥
पिशाचानां सूकराणां काकानां देहसाम्यता ।
बद्रिके सर्वथा नित्यदुर्गन्धाऽशुद्धिसंभृताम् ॥७२॥
नैसर्गाऽशुद्धदेहोऽयं कथं शुद्धिमवाप्नुयात् ।
तस्माद् योगिजना नित्यं क्षालयन्त्यान्तरं सदा ॥७३॥
ध्यानेन चेतनं देहस्थितमात्मानमुत्सुकाः ।
समाधिनाऽऽप्नुवन्त्येनं सत्यं सत्यात्मनाऽन्वितम् ॥७४॥
परमात्मा नित्यशुद्धः कृष्णनारायणो हरिः ।
यत्रास्ते चासने तच्चासनं शुद्धं सदात्मकम् ॥७५॥
सन्नात्मा चेतनो नित्यसच्चिदानन्दतत्त्वकः ।
तं सन्तं सात्त्वतं भक्तं भावयन्ति बुधाः सदा ॥७६॥
हृदये वर्तमानं तं स्वामिना संविराजितम् ।
प्रकाशितं श्रितं नित्यं श्रीकृष्णपरमात्मना ॥७७॥
ध्यायन्ति ज्ञानविमला देहभावविवर्जिताः ।
विवेकलब्धवैराग्याः सन्तः सन्तं हृदि स्थितम् ॥७८॥
यत्राऽसत्यमनृतं च फल्गुमिथ्यामृषात्मता ।
अणुतुल्याऽपि नास्त्येव सन्तो ध्यायन्ति तं निजम् ॥७९॥
ते पारं सम्प्रयान्त्यस्य कर्दमस्य हि वर्ष्मणः ।
सर्वमलानि सन्त्यज्य प्रयान्ति परमेश्वरम् ॥८०॥
माया मलात्मिका नित्यं तत्रापि राजसो गुणः ।
तमस्तु मलिनं नित्यं मलं सर्वं हि तामसम् ॥८१॥
तत उत्पन्नतत्त्वानि महदहं च मायिकौ ।
इन्द्रियाणि विषयाश्च भूतानि मलिनानि वै ॥८२॥
भौतिकानि समस्तानि मलिनानि मलानि च ।
बद्रिके तापसाः सन्तस्तस्मात् त्यजन्ति भौतिकम् ॥८३॥
शाश्वतं चिन्तयन्त्येव भजन्ते शाश्वतं हरिम् ।
तिष्ठन्ति ब्रह्मभावे च मोदन्ते चात्मगह्वरे ॥८४॥
परिहरन्त्यसत्यं तज्जगत् पापौघसंभृतम् ।
मोक्षार्थं च यतन्ते ते सद्गुर्वाश्रयमास्थिताः ॥८५॥
एवं बद्रीप्रिये देवगतीश्वरस्तु भूसुरः ।
सत्याऽसत्यमयं वीक्ष्य परभाग्यं ग्रहाँस्तथा् ॥८६॥
सत्याऽनृतमयं सर्वं सन्दिग्धं भावि देहिनाम् ।
निवेदयति देहिभ्यः पापमर्धं यथातथम् ॥८७॥
तेन पापेन पीडावान् पत्न्यै सह प्रमुक्तये ।
पत्नी धर्मवती श्रुत्वा पत्युः प्रियचिकीर्षया ॥८८॥
पतिं नीत्वाऽनसा साध्वी जगाम शर्करापुरम् ।
कथास्थलं मुनिं व्यासं ददर्श च पुपूज च ॥८९॥
न्यवेदयत् स्वामिदुःखं मुक्तये प्रार्थयन्मुनिम् ।
व्यासं स्वतःप्रकाशाख्यं व्यासोऽपि दयया तदा ॥९०॥
भूसुराय ददौ मन्त्रं नामधुन्यं ददौ व्रतम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९१॥
प्रभोनारायण पद्मावतीनारायण प्रभो ।
जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो ॥९२॥
पत्नी चापि प्रजग्राह मन्त्रं धुन्यं व्रतं तथा ।
पपतुस्तौ हरेः पादामृतवारि शुभप्रदम् ॥९३॥
चखदतुः प्रसादॆ च शुश्रुवतुः कथामृतम् ।
मासान्ते श्रीहरिस्ताभ्यां दर्शनं प्रददौ प्रभुः ॥९४॥
पस्पर्श तं कराग्रेण रुग्णं नीरोगिणं व्यधात् ।
दिव्यभावॆ व्यधाच्चापि भार्यां दिव्यां व्यधात्तथा ॥९५॥
ततस्ताभ्यां प्रार्थितश्च हरिर्मोक्षार्थमत्यति ।
हरिः कृत्वा दिव्यदेहौ तौ तु निजे विमानके ॥९६॥
न्यस्य वैशाखपूर्णायां निन्ये धामाऽक्षरं निजम् ।
पश्यतां सर्वलोकानां ज्योतिर्वित् प्राप मोक्षणम् ॥९७॥
पुण्यवत्या स्त्रिया साकं परं मोक्षमवाप सः ।
बद्रिके महदाश्चर्यमभूत् तत् सर्वदेहिनाम् ॥९८॥
मासमात्रेण विप्रस्य रोगनाशश्च मोक्षणम् ।
प्रशशंसुर्जना विप्रभार्या पतिव्रतां शुभाम् ॥९९॥
यया स्वामी प्रापितो वै मोक्षं चाज्ञाप्रवृत्तया ।
धन्या सा गृहिणी लोके याऽऽज्ञाकरी वरस्य वै ॥१००॥
धन्यो नारायणश्चापि शरण्यो मोक्षदो वरः ।
बद्रिके जीवलोकेऽत्र स्नेहः स्वर्गः सदोत्तमः ॥१०१॥
परोपकारः स्नेहेन सेवा स्नेहेन जायते [
सुखदत्वं प्रेमभावैर्जायते श्रद्धया तथा ॥१०२॥
पठनाच्छ्रवणादस्य स्मरणाद्वर्तनात्तथा ।
भुक्तिर्मुक्तिर्भवेच्चापि कृपा कृष्णस्य वै भवेत् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने देवगतीश्वरस्य विप्रस्याऽर्धज्योतिर्विदोऽसत्यपापादिनाशेन कथाश्रवणकारिणः पुण्यवतीभार्यासहितस्य मोक्ष इत्यादिनिरूपणनामा द्वासप्ततितमोऽध्यायः ॥७२॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP