तिष्यसन्तानः - अध्यायः ५१
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां गुरुघ्नमोक्षदाम् ।
आसीत् खनिपुरे विप्रो नाम्ना सुरप्रसादकः ॥१॥
मातापितरौ वार्धक्ये सुतमेकमवापतुः ।
बुद्ध्या युक्तं च वात्सल्यपात्रं स्नेहास्पदं परम् ॥२॥
लालयामासतुः सम्यक् पालयामासतुर्बहु ।
वर्धयामासतुः खानपानादिभिः समाहितौ ॥३॥
मोदयामासतुः पुत्रं वस्त्रभूषादिभिस्तथा ।
पाठयामासतुश्चापि विप्रविद्यां च वैदिकीम् ॥४॥
तथापि बद्रिके भाग्यं यादृशं रेखयोत्थितम् ।
तादृशं भुज्यते काले भोगार्थे समुपस्थितम् ॥५॥
यदि पूर्वकृतं पुण्यं पुत्रजन्मप्रदं भवेत् ।
तदा पुत्रो जायतेऽथ ऋणाऽपाकरणाय सः ॥६॥
यदि पुण्यं न दीर्घं स्याज्जीवनार्थं तथा सुतः ।
उत्पद्य मरणं चैति दैवं तादृक् हि निर्मितम् ॥७॥
यदि पुण्यं दशवर्षायुष्यप्रदं भवेत्तदा ।
तावन्मात्रं गृहे स्थित्वा परलोकाय याति सः ॥८॥
यदि सेवाऽर्थकं पुण्यं पित्रोः पुत्रस्य चार्जितम् ।
भवेत्तदा सुतः सेवां पित्रोः करोति वै ध्रुवाम् ॥९॥
यदि पुण्यं न सेवार्थं पितृभ्यां पालितोऽपि सः ।
तदा पितरौ सन्त्यज्य परदेशं परगृहम् ॥१०॥
पराऽङ्कं वा परवशं परपुत्रत्वमेत्यपि ।
सेवते न सुतो नैजः पितरावप्यपुण्यतः ॥११॥
परपुत्रः सेवतेऽप्यपितरौ पुण्ययोगतः ।
कर्मबन्धो हि संसारो यत्रर्ण तत्र पद्यते ॥१२॥
अनृणं न पशुश्चापि समेति मानवः कुतः ।
बद्रिके यद् यददृष्टजन्यं तद् दूरमित्यपि ॥१३॥
साक्षात्परम्परया वा तदर्थमुपयाति तम् ।
कन्या गौर्गजहंसाद्या जायन्ते परभूमिषु ॥१४॥
प्रपद्यन्तेऽदृष्टवन्तं स्वामिनं परभूस्थितम् ।
अन्नं पत्रं फलं पुष्पं क्षारं सलिलमोषधम् ॥१५॥
प्रजायन्तेऽन्यत्र भाग्यवन्तोऽन्यत्राऽऽप्नुवन्ति तान् ।
तापः शैत्यं पयो मुद्राऽम्बरं भूषा च हीरकः ॥१६॥
खन्यन्तरोद्भवाश्चापि प्राप्नुवन्ति परं जनम् ।
एवं वै बद्रिके लोके कर्मसम्बन्धयोजितम् ॥१७॥
प्रवर्तते महाचक्रमगम्ययोगदायकम् ।
यदर्थं यतते लोकस्तल्लोकार्थं न तिष्ठति ॥१८॥
यदर्थे न यतते तत् प्रसह्याऽऽगत्य तिष्ठति ।
एवंविधेऽत्र लोकै वै ज्ञानिनां रागशून्यता ॥१९॥
अपरिग्रहता चापि विशोकता विबद्धता ।
आत्मारामसुखिता च ब्रह्मानन्दपदस्थितिः ॥२०॥
जायन्ते निर्गुणत्वं च मायाशून्यत्वमित्यपि ।
मोक्षणं ते प्राप्नुवन्ति विवेकिनो हि भक्तितः ॥२१॥
अन्यथा तु सुयोगे स्यात् सुखं दुःखं वियोगके ।
कर्मबद्धं सुखं दुःखं योजनं च वियोजनम् ॥२२॥
कर्मशून्यस्य मोक्षः स्याद् दुर्भाग्यस्य न मोक्षणम् ।
सर्वेऽर्थाः सन्ति लोकेऽत्र दुर्भाग्या नाप्नुवन्ति हि ॥२३॥
वार्धक्ये पुत्रवत्तापि दौर्भाग्ये सुखदा न हि ।
तथा सुरप्रसादस्य पितरावतिवत्सलौ ॥२४॥
प्रेषयामासतुः पुत्रमध्ययनार्थमुत्सुकौ ।
प्रभावरपुरं विद्वद्विप्रगृहे हितावहौ ॥२५॥
बहुविद्यादिलाभार्थ ययौ सुरप्रसादकः ।
अध्येतुमधिकां विद्यामाशा हि बलवत्तरा ॥२६॥
सोऽपि विद्येच्छया त्यक्त्वा मातरं देवनन्दिनीम् ।
पितरं देवधर्माणं ययौ गुरोर्गृहं द्रुतम् ॥२७॥
नत्वा गुरुं भर्गचात्वालकं वृत्तान्तमाह तम् ।
गुरुः प्रसन्नचित्तश्चाध्यापयामास तं मुदा ॥२८॥
उवास बहुवर्षाणि गुरोर्गृहे निरामयः ।
निश्चिन्तो नित्यपाठी च महोद्यमपरायणः ॥२९॥
दैवज्ञता तत्त्ववित्त्वमात्मविद्यां समार्जयत् ।
विद्वान् कीर्तिपरिपूर्णो जातो विद्याप्रभाववान् ॥३०॥
बद्रिके स तु - विद्याप्तिपुण्यवानपि सर्वथा ।
पित्रो सेवापुण्यहीनः तयोः सेवां न लब्धवान् ॥३१॥
अधित्याऽपि गृहं नैव ययौ विद्याभिमानवान् ।
कदर्यस्य गृहं यद्वन्नैजं गृहं न रोचते ॥३२॥
अतो नैव ययौ पित्रोः सेवालाभं न चाप्तवान् ।
स लाभस्तु गतश्चाऽस्य तावद्वृद्धौ तु तद्गुनहे ॥३३॥
वार्धक्येनाऽऽमयव्याप्तावभूता ll-वरपीडितौ ।
सस्मरतुः सुतं त्वेकं विद्वासं दूरवासिनम् ॥३४॥
अधित्वा नाऽऽगतं प्रेष्ठं तत्यजतुश्च जीवनम् ।
पुत्रपुत्रेतिपुत्रेति वदन्तौ मरणं गतौ ॥३५॥
बद्रिके बहुपुण्येन पित्रोः सेवा तु लभ्यते ।
मरणस्य क्षणे पुत्राऽऽस्यप्रदर्शनमित्यपि ॥३६॥
बहुपुण्येन भवति न भवेत् कर्महिनयोः ।
एवं पापं तु पुत्रस्य जातं तदा तु बद्रिके ॥३७॥
पित्रसेवाकृतं सर्वं मृत्युर्निःश्वासकारितम् ।
विद्याधनं न वै श्रेष्ठं पितृसेवादिसन्निधौ ॥३८॥
पितृसेवा चातिपुण्यतमा श्रेष्ठा च पुण्यदा ।
मोक्षदा स्वर्गदा सर्वपापध्वंसविधायिनी ॥३९॥
सर्वापन्नाशिनी बद्रि पितृसेवोत्तमोत्तमा ।
सा न लब्धा सुतैश्चेत् सा परा हानिः प्रजन्मिनाम् ॥४०॥
सर्वं विनाशितं तेन पितृनिःश्वासभस्मितम् ।
अप्यन्याशीःसहस्राणि दह्यन्ति पितृशापतः ॥४१॥
अन्यशापसहस्राणि नश्यन्ति तत्प्रसादतः ।
बद्रिके पुण्यहीनस्य सुरप्रसादकस्य ह ॥४२॥
पित्रसेवोद्भवं पापं हानिदं समजायत ।
विद्याध्यापयितुर्द्वेषं तत आरभत द्विजः ॥४३॥
भर्गचात्वालको विद्यागुरुः ख्यातोऽभवद्ध्यति ।
सहते न स तां ख्यातिं दुष्टभावोऽतिमानवान् ॥४४॥
गुरुं स निन्दति नित्यं विद्यायां गौरवं गतः ।
गुरोः कीर्तिं खण्डयति गतोऽन्यत्र सभादिषु ॥४५॥
एवं पापेन लिप्तः स विशेषेणाऽप्यजायत ।
दुष्टा बुद्धिरुत्थिताऽस्य विद्वानहं न चाऽपरः ॥४६॥
गुरुर्मया समो नास्ति तदाऽन्यस्य तु का कथा ।
एवं स्वं गौरवं वक्ति चिन्तयत्येव तादृशम् ॥४७॥
मनसा वचसा निन्दां द्वेषं करोति सद्गुरोः ।
कर्मणाऽपि क्रतौ श्रैष्ठ्यं नैजं विज्ञापयत्यपि ॥४८॥
कर्मकाण्डे च विज्ञाने गर्वं करोति चोर्ध्वगम् ।
बद्रिके नाशमायाति पुण्यं सर्वं गुरुद्विषः ॥४९॥
विद्या भाग्यं सम्पदश्च यशो नाशं प्रयान्ति च ।
पापं भ्रमो विचित्तत्वमुन्मत्तता भवन्ति च ॥५०॥
औन्मत्येन तु दोषेण सहितोऽपि गुरोर्गृहे ।
वसत्येव स तं द्वेष्टि गुरुं चेद् दृष्टिगोचरम् ॥५१॥
पुत्रवत् पालितं शिष्यं दयालुर्गुरुदेवता ।
न निष्कासयति स्थानाद् वात्सल्यं हि निरोधकृत्। ॥५२॥
उन्मत्तोऽपि महाविद्वान्नव्यवस्थो विवेकवान् ।
पापाभिभूतहृदयः पापनष्टविचारवान् ॥५३॥
एकदा स्वगुरुं सुप्तं गत्वा हस्तकुठारकः ।
चिच्छेद मस्तकं रात्रौ ननर्त चित्तवर्जितः ॥५४॥
नृत्यघोषं समाकर्ण्य तत्र भार्या गुरोस्तदा ।
तथा शिष्या अपरे च समाययुस्तदन्तिके ॥५५॥
तावत् कुठारहस्तं तं वीक्ष्य भासं प्रपेदिरे ।
वीक्ष्य हतं गुरुं सर्वे रुरुदुर्मुक्तकण्ठिनः ॥५६॥
हाहाकारो महान् जातश्चाश्रमेषु द्विजातिषु ।
विचित्तस्याऽतिदुष्टत्वं ज्ञात्वा शापान्ददुस्तदा ॥५७॥
अहो हत्या कृताऽनेन दुष्टेन गृहवासिना ।
महाचाण्डालतुल्येन सोऽपि हतोऽस्तु तत्तथा ॥५८॥
गुरोर्हत्या महाहत्या शतस्त्रीहत्यया समा ।
स्त्रीहत्या तु शतभ्रूणहत्यातुल्या निगद्यते ॥५९॥
भ्रूणहत्या शतमत्स्यहत्यासमा निगद्यते ।
मत्स्यहत्या शतवृक्षहत्यासमा भवत्यपि ॥६०॥
वृक्षहत्या शतस्तम्बनाशसमा प्रकीर्त्यते ।
पिता बीजप्रदः श्रेष्ठो माता गर्भस्य रक्षिणी ॥६१॥
गुरुर्ज्ञानप्रदानेन मुक्तिदो हि तयोः परः ।
संसारार्णवमग्नानामुद्धारकृद्गुरुर्हरिः ॥६२॥
मोक्षं करोति जीवानां पापानि क्षालयत्यपि ।
कृष्णवद्रक्षणं मायापाशात् करोति सद्गुरुः ॥६३॥
स वै श्रेष्ठतमश्चाऽऽस्तेऽसंख्यप्राणिप्रमोक्षकृत् ।
नारायणस्य विज्ञानं परिचयं ददात्यपि ॥६४॥
नयत्यग्रे गतिं गच्छन्नाकर्षयन् प्रपन्नकम् ।
साक्षी यो धर्मकर्मादौ याम्यकष्टनिवारकः ॥६५॥
ब्रह्मानन्दप्रदाता च गुरुः श्रेष्ठतमोऽधिकः ।
गुरोर्मुखे चतुर्वेदा जिह्वायां शारदा सती ॥६६॥
गायत्री चौष्ठयोस्तस्य सावित्री कण्ठवर्तिनी ।
मस्तके ब्रह्मनिर्वाणं भाले रुद्रस्थली गुरोः ॥६७॥
भ्रूमध्ये तु भवश्चास्ते ब्रह्मा भूकुटिमध्यगः ।
विष्णुर्गुरोस्तु हृदये सूर्यचन्द्रौ तु नेत्रयोः ॥६८॥
कर्णयोर्वर्तते शब्दब्रह्म शाश्वतमक्षरम् ।
हस्तयोरिन्द्रदेवाद्या नासायामश्विनीसुतः ॥६९॥
गोलोकश्चापि वैकुण्ठस्तनयोर्वर्तते गुरोः ।
उदये त्वमृतं धाम नाभावव्याकृतं पदम् ॥७०॥
जघने सत्यलोकं च गुप्ते ब्रह्मव्रतं गुरोः ।
कट्यां हिरण्यगर्भोऽस्ति पृष्ठे मेरुः सुरालयः ॥७१॥
नितम्बयोर्महापृथ्वी प्रकृतिर्गह्वरेऽस्ति च ।
सक्थ्नोः श्वेतद्वीपदुग्धोदधी स्तः श्रीगुरोः सदा ॥७२॥
जान्वोः सुतलवासाश्च जंघयोर्दिव्यशक्तयः ।
पादयोः श्रीगुरोः सर्वतीर्थान्यभिवसन्ति वै ॥७३॥
पितरश्चाऽस्य केशेषु सिद्धाश्चाऽस्य त्वचि स्थिताः ।
प्राणे पुण्यानि सर्वाणि मोक्षो गुरोः करे स्थितः ॥७४॥
गुरोः प्रसादे स्वर्गाणि संकल्पे सम्पदः स्थिताः ।
गुरोः क्रियायां वै चिन्तामणयः कामधेनवः ॥७५॥
सेवायां कल्पवृक्षाश्च वचने कल्पवल्लयः ।
इच्छायामक्षयपात्रं गुरोः स्नेहे हरिः स्वयम् ॥७६॥
गुरोः शरणे मुक्तिश्च गुर्वासने श्रियः पुरम् ।
गुरोर्मूर्तिः परब्रह्म वासुदेवो गुरौ स्थितः ॥७७॥
श्रीकृष्णोऽस्ति गुरुतादात्म्यतां प्राप्तः परेश्वरः ।
सर्वकामप्रपूरः श्रीसद्गुरुर्बद्रिके भुवि ॥७८॥
विना गुरुं न निस्तारो भवार्णवरणस्य वै ।
अगुरूणां देहिनां तु गतिः कुत्रापि नास्ति वै ॥७९॥
तस्माद् गुरुं श्रयेद् भक्त्या सर्वस्वार्पणसेवया ।
गुरुघ्नः सर्वविद्याघ्नः सर्वदेवादिनाशकः ॥८०॥
स्वर्गमोक्षर्द्धिसम्पद्घ्नश्चात्मघ्नो ब्रह्महा मतः ।
सर्वपुमर्थहाः प्रोक्तः सर्वशक्तिविघातकः ॥८१॥
गतिर्नास्ति स्थितिर्नास्ति स्थानं नास्ति गुरोर्हनः ।
यशो नास्ति सुखं नास्ति सर्वथा धिग् गुरोर्हनः ।८२॥
सर्वपापानि लोकानां नश्यन्ति गुरुसन्निधौ ।
गुरोर्द्वेषात्मकं पापं कृष्णाग्रेऽपि न नश्यति ॥८३॥
श्रीकृष्णो गुर्वधीनोऽस्ति राधालक्ष्म्यादिका अपि ।
गुर्वधीना देवताश्च सर्वातिवाहिकीप्रभाः ॥८४॥
गुरुस्त्वनर्गलं दिव्यं कपाटं परमोक्षिणाम् ।
गुरुर्विद्युत्प्रकाशोऽस्ति महादीपोऽन्तरप्रभः ॥८५॥
तद्धाते सर्वघातानां जायन्तेऽघानि घातिनाम् ।
तत्सेवने सर्वसेवाफलान्यभिमिलन्ति च ॥८६॥
तत्प्रसादे सर्वप्रसन्नता भवन्ति सेविनः ।
गुरोर्लाभे सर्वलाभा गुरोर्हाने लयो महान् ॥८७॥
गुरोर्मूर्तिः सदा दिव्या त्वाशिखानखमद्भुता ।
नारायणः पृथङ् नास्ति गुरोर्मूर्तेः कदाचन ॥८८॥
पूजया सद्गुरोः कृष्णनारायणः प्रपूज्यते ।
भोजनेन गुरोः कृष्णनारायणो भुनक्ति च ॥८९॥
जलपानेन च गुरोः कृष्णस्तृप्तो पिबत्यपः ।
गुरोर्देहस्य सेवाभिः सेव्यते परमेश्वरः ॥९०॥
गुरोर्नाशेन यावत्यः सेवा नष्टा भवन्ति वै ।
एवं तेन द्विजेनापि गुरोर्हत्या कृता यतः ॥९१॥
सर्वं तस्याऽभवद् बद्रि विनष्टं शुभसंज्ञितम् ।
विचित्तो जडवन्मूर्ख उन्मत्तो बुद्धिवर्जितः ॥९२॥
भ्रमन् मार्गे वनेऽरण्ये निर्ययौ स गुरोर्गृहात् ।
शर्करानगरं प्राप्तो दैवात्पूर्वानुकर्मतः ॥९३॥
कथास्थानं ययौ विद्वाँस्तस्थौ क्षणं मुदं ययौ ।
संहितायाः कथां श्रुत्वा पीत्वाऽमृतं हरेस्तदा ॥९४॥
प्रसादान्नं महापंक्तौ बुभुजे च कथामखे ।
सतां महर्षिवर्याणां दर्शनं प्राप्तवान् मुदा ॥९५॥
गुरुहत्याकृतं पापं शनैः शनैर्न्यवर्तत ।
मनसः स्वस्थता जाता देहभानं व्यवर्तत ॥९६॥
उन्मादोऽस्य लयं प्राप्तो विचित्तता सुचित्तता ।
जाता ततः सशोकेन लोमशं शरणं ययौ ॥९७॥
न्यवेदयत् समस्तं तत् पापं दुःखं विशोधनम् ।
लोमशो ब्रह्मकूर्चाख्यं व्रतं तस्मै ददौ तदा ॥९८॥
मासं चक्रे पलाशादिपत्राणां वह्निना कृतम् ।
गव्यानां क्वथितं वारि पपौ शुद्धिं जगाम सः ॥९९॥
कथायाः श्रवणेनाऽसौ निष्पापः साधुसेवया ।
विप्रो जातस्ततो मन्त्रमस्मै श्रीलोमशो ददौ ॥१००॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
कृष्णनारायणस्वामिन् 'श्रीहरेवल्लभ प्रभो ॥१०१॥
अनादि श्रीकृष्णनारायण पद्मावतीप्रभो ।
एवं स भजनं चक्रे ध्याननिष्ठो हरौ स्थितः ॥१०२॥
तीव्रसंवेगमापन्नः स्मृत्वा हत्यां गुरोः स्वयम् ।
पितृत्यागं तथा स्मृत्वा महाशोकमगात्तथा ॥१०३॥
रात्रिन्दिवं भजनं स चकार पारमेश्वरम् ।
विरागभावमापन्नः प्रातिलोम्यमवाप सः ॥१०४॥
सर्वा वृत्तीः परावृत्त्य प्रत्याहारं परं गतः ।
धारयामास सततं प्रभुं कृष्णं महाप्रभुम् ॥१०५॥
दध्यौ कृष्णं रमाकान्तं गोपालबालकं हृदि ।
समाधौ श्रीपतिं बद्रि साक्षात् प्रापाऽतिवेगवान् ॥१०६॥
माघशुक्लैकादश्यां स प्रातः स्नात्वा कथास्थलम् ।
भजन्नाम रटन् प्राप तस्थौ व्यासं व्यलोकयन् ॥१०७॥
पुपूज मन्त्रसहितो व्यासं च संहितां तथा ।
शुश्राव च सभासंस्थः कथान्ते कीर्तनोत्तरम् ॥१०८॥
शीघ्रं समाधिमापन्नः प्राणाः संकुचिता द्रुतम् ।
पपात देहो भूमौ वै श्रोतॄणां पश्यतां सताम् ॥१०९॥
विमानमम्बराद् दिव्यमवातरत् समुज्ज्वलम् ।
कृष्णनारायणस्तस्माद् बहिरागत्य तं द्विजम् ॥११०॥
दिव्यरूपं सुमुक्तं च विधाय दिव्यविग्रहम् ।
नीत्वा विमानके तूर्णं हसन् धामाऽक्षरं ययौ ॥१११॥
आश्चर्यं परमं जातं कथाश्रवणकारिणाम् ।
अहो गुरुघ्नविप्रस्य शरण्यो भगवान् प्रभुः ॥११२॥
शरणागतरक्षाकृत् पापं विधूय सर्वथा ।
विप्रं भक्तं निजं धाम निन्ये देहिषु वत्सलः ॥११३॥
एतादृशी कृपा तस्य घटते परमात्मनः ।
जीवास्तु सर्वथा पापाः सन्ति वै पापकारिणः ॥११४॥
कुपालुर्भगवानस्ति कृपालवश्च साधवः ।
विना विनिमयं वा च करमृणं विना खलान् ॥११५॥
दुष्टान् पापान् पावयित्वा प्रेषयन्त्यक्षरं पदम् ।
एवं वै बद्रिके कृष्णो मोक्षं ददाति सेविने ॥११६॥
पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
भुक्तिमुक्तिः शुभं स्वर्गं भवेदेव न संशयः ॥११७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सुरप्रसादनामकविप्रस्य मातापितृसेवाविहीनस्य विद्याप्रदगुरुहत्याविधायिनोऽपि श्रीलक्ष्मीनारायणसंहिताकथाश्रवणेन सतां सेवया पापनाशो मुक्तिश्चेत्यादिनिरूपणनामैकपञ्चाशत्ततमोऽध्यायः ॥५१॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP