संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १०९

तिष्यसन्तानः - अध्यायः १०९

लक्ष्मीनारायणसंहिता


श्रीबद्रीप्रियोवाच -
यदा यदा भवान् पृथ्व्यां स्वर्गे सत्ये तलादिषु ।
वर्तते च तदा तत्र भवाम्यहं न संशयः ॥१॥
क्वचिन्मूर्तौ क्वचिच्चिह्ने क्वचित् पार्श्वे क्वचिद्धृदि ।
क्वचित्त्वाज्ञाकरी यत्र क्वापि वर्ते पृथक् स्थिता ॥२॥
तत्र सर्वत्र भगवन् तवाऽऽश्रयेण मच्छ्रिताः ।
मुक्तिं प्रयान्ति परमां निष्कामाः साधुसंश्रयाः ॥३॥
सकामास्तु मम भक्ताः स्वर्गं राज्यं प्रयान्ति वा ।
तद्राज्यं भुज्यते भक्तनृपैः स्वर्गे तु सत्सुरैः ॥४॥
पार्थिवं यन्महद्राज्यं पुरा कृतयुगे तदा ।
अनादिश्रीकृष्णनारायणेन परमात्मना ॥५॥
कस्मै दत्तं भूमिभृते कश्च राजा ततः परम् ।
हैमखण्डमहाराज्यं कस्मै स प्रददौ पुरा ॥६॥
ततः परं च किं कृष्णः कृतवान् वंशविस्तृतः ।
कियान् कालो हि कृष्णस्य पृथ्व्यां यातस्ततः परम् ॥७॥
इत्येतत् सर्वमेवाऽत्र कृपया वक्तुमर्हति ।
अनादिश्रीकृष्णनारायणलीला मनोहराः ॥८॥
श्रोतुमिच्छामि तत्पश्चाज्जाता या याः स्मृता अपि ।
मोक्षदात्र्यो भवन्त्येव परमानन्दशान्तिदाः ॥९॥
यन्नाथस्य स्मृतेश्चापि तापा यान्ति लयं द्रुतम् ।
तत्कथाः श्रावयोदारा नरनारायणप्रभो ॥१०॥
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कृष्णनारायणप्रभुः ।
ब्रह्माण्डानां साधकं च सृष्ट्वा वैराजपूरुषम् ॥११॥
तद्द्वारा च समुत्पाद्य विश्वसृजो विधीन् बहून् ।
चतुर्वक्त्रे पद्मजाय दत्वोत्पत्तिविधानकम् ॥१२॥
महाराज्यं महाण्डस्य चतुर्दशस्तरात्मनः ।
तद्द्वारा जनयामास स्वायम्भुवं मनुं नृपम् ॥१३।
आग्नीध्राद्याश्च तनयाः स्वायंभुवमनोः सुताः ।
मानसास्ते महावीर्या द्वीपराज्यानि चक्रिरे ॥१४॥
आग्नीध्रश्चाजनाभाय ददौ खण्डं हिमालयम् ।
आजनाभं महावर्षं दशसाहस्रयोजनम् ॥१५॥
अजनाभे भूपतौ तु वैराग्यवेगमास्थिते ।
वनं याते तु तपसे पृथिवीगर्वमास्थिता ॥१६॥
सस्यानां सम्पदो रत्नभेदान् रसानचोरयत् ।
तदा तु पृथवे पृथ्वीराजं ददौ हरिः स्वयम् ॥१७॥
पृथुर्दुदोह पृथिवीं ददौ दुग्धानि सर्वशः ।
प्रजाभ्यः प्रययौ पश्चात्तपसेऽथ ततः परम् ॥१८॥
खण्डराज्यानि भक्तेभ्यो नृपेभ्यः प्रददौ प्रभुः ।
दिव्यराज्यानि देवेभ्यः प्रददौ पुरुषोत्तमः ॥१९॥
चन्द्राय तु ददौ राज्यमोषधीनां च शाखिनाम् ।
यज्ञव्रतानां तपसां नक्षत्राणां द्विजन्मनाम् ॥२०॥
वरुणाय ददौ राज्यमपां च यादसां तथा ।
कुबेराय ददौ राज्यं धनकोशादिसम्पदाम् ॥२१॥
रवीणां च ददौ राज्यं विष्णवे द्वादशात्मने ।
वसूनां च ददौ राज्यमग्नये धातुयोगिने ॥२२॥
प्रजापतीनां राज्यं च दक्षाय प्रददौ प्रभुः ।
शक्राय मरुतां राज्यं ददौ वै द्युनिवासिनम् ॥२३॥
दैत्यदानवकोटीनां प्रह्लादाय ददौ तु तत् ।
पितॄणां प्रददौ राज्यं यमाय याम्यवासिनाम् ॥२४॥
पिशाचरक्षसां भूतवेतालानां शिवाय च ।
गिरीणां प्रददौ राज्यं हिमालयाय वै तदा ॥२५॥
नदीनां च नदादीनां राज्यं तदाऽब्धये ददौ ।
गन्धर्वाणां किन्नराणां विद्याध्राणां तदा ददौ ॥२६॥
राज्यं चित्ररथायाऽपि किंपुंसामपि शोभनम् ।
नागराज्यं वासुकये ददौ तामसयामकम् ॥२७॥
सर्पाणां च महाराज्यं तक्षकाय ददौ तदा ।
करिणां दिग्गजेन्द्राणां राज्यमैरावताय वै ॥२८॥
पतत्त्रिणां सुपर्णायोच्चैःश्रवसे तु वाजिनाम् ।
मृगाधिपत्यं सिंहाय वृषभाय गवां तथा ॥२९॥
वनस्पतीनां तु कल्पद्रुमाय च ददौ तदा ।
सुधर्मणे पूर्वदिशां शंखपदाय दक्षिणाम् ॥३०॥
केतुमते प्रतीचीं चोत्तरां हिरण्यरोमिणे ।
एवं राज्यानि भगवान् ब्रह्मद्वारा ह्यदापयत् ॥३१॥
आजनाभेऽत्र खण्डे तु हिमालयाऽऽख्यपर्वते ।
पृथौ गते तु तपसे विश्वगस्तस्य चात्मजः ॥३२॥
राज्यं चक्रेऽथ यमुनां नन्दिभिल्लो ह्यरोधयत् ।
दिलावरीं च नगरीं स्त्रीनाम्नाऽस्थापयन्नवाम् ॥३३॥
यमुनायास्तटे रम्ये महादुर्गसमन्विताम् ।
दिलावरीमहाराज्यं कृष्णनारायणप्रभुः ॥३४॥
नागविक्रमभूपाय ददौ हत्वा तु भिल्लकम् ।
नन्दिभिक्ले हते नागविक्रमः प्रशशास तत् ॥२५॥
अनादिश्रीकृष्णनारायणोपास्तिबलान्वितः ।
तपस्तप्त्वोपासनया प्राप प्रालेयकं धनुः ॥३६॥
अनादिश्रीकृष्णनारायणाच्छ्रीपरमात्मनः ।
धनुषा तेन दिव्येन विमानेन विहायसा ॥३७॥
पृथ्वीं जेतुं प्रचचार नारायण इवाऽपरः ।
भूपालास्तेन परितो धनुषा करदीकृताः ॥३८॥
वैष्णवं भूतलं सर्वं चक्रे स नागविक्रमः ।
दक्षपश्चसमुद्रान्तं दशसाहस्रयोजनम् ॥३९॥
आजनाभं महाराज्यं प्राप वै नागविक्रमः ।
दिलावरी राजधानी रक्षिता तेन सर्वदा ॥४०॥
नागपुरीति सैवाऽपि कृता तेन स्वबोधिनी ।
नागविक्रमभूपस्य भार्याऽऽसीद्धस्तिमालिनी ॥४१॥
पतिव्रता महाभागा वैष्णवी सात्त्वती सती ।
तस्या नाम्ना कृता पार्श्वे नगरी हास्तिनीपुरी ॥४२॥
प्राप्तवैराग्यवेगाढ्यो राजा तु नागविक्रमः ।
युक्तः स हस्तिमालिना तीर्थार्थं निर्ययौ गृहात् ॥४३॥
यमुनां सरयूं गंगां गोगरां गण्डकीं ततः ।
स्नात्वा कांचनगंगां च ब्रह्मपुरीं ततः परम् ॥४४॥
कापिलं सागरं स्नात्वा पुरुषोत्तममन्दिरम् ।
ययौ महानदीं गोदावरीं कृष्णां च दक्षिणाम् ॥४५॥
स्नात्वोदधिं श्रीमहाद्रिं स्नात्वा तापीं च नर्मदाम् ।
महीं शत्रुंजयां स्नात्वा सोमनाथं ययौ ततः ॥४६॥
मूलद्वारवतीं कृत्वा कुशस्थलीं च गोमतीम् ।
भद्रां स्नात्वा ययावश्वपट्टसरोवरं महत् ॥४७॥
कुंकुमवापिकाक्षेत्रं कृष्णनारायणाश्रितम् ।
लोमशं प्रथमं नत्वा पूजयित्वा ततस्तु सः ॥४८॥
अश्वपट्टजले स्नात्वाऽनादिकृष्णनरायणम् ।
इष्टं पूजयितुं स्वेष्टदेवं प्रति ययौ नृपः ॥४९॥
गजासने स्थितं स्वर्णे स्मृद्धे दिव्याक्षिकारके ।
हरिं विलोक्य नृपतिः प्रपूज्य विधिना ततः ॥५०॥
पादामृतं पपौ पत्नीसहितो भृत्यसंयुगः ।
राज्ञी पपौ हरेः पादामृतं भावसमन्विता ॥५१॥
उपदा विविधाः कृष्णस्वाम्यग्रे न्यस्य वै ततः ।
आरार्त्रिकं हरेः राज्ञी नृपयुक्ता चकार सा ॥५२॥
हरिं तुष्टाव बहुधा निषसादाऽर्पिताऽऽसने ।
स्वागतं च प्रसत्कारं चक्रे नारायणः स्वयम् ॥५३॥
भोजयामास विधिना नृपं राज्ञीं च माधव ।
श्रीमद्गोपालकृष्णाद्या राजस्वागतमाचरन् ॥॥५४॥
अथ राजा सभार्यश्च कृताऽऽवसथ एव च ।
विश्रामं चाप्तवान्निद्रां गतः समाधिमाप ह ॥५५॥
तत्राऽपयज्जगत्सर्वं ब्रह्मेशविष्णुपालितम् ।
स्वर्गं सत्यं व्यपश्यत् स मेरुं तत्तन्निवासिनः ॥५६॥
आवृतिस्थानीश्वराँश्च व्यपश्यत् स नराधिपः ।
क्षीरसागरसंस्थं च श्वेतद्वीपगतं प्रभुम् ॥५७॥
बदरीस्थं नरनारायणं सूर्ये हिरण्मयम् ।
वह्नौ वैश्वानरं नारायणं राजा व्यलोकयत् ॥५८॥
साध्यलोकान् पितृलोकान् यज्ञनारायणं तथा ।
ध्रुवलोकं याम्यलोकं महेन्द्रभवं तथा ॥५९॥
ब्रह्मसभां विष्णुलोकं शिवलोकं व्यलोकयत् ।
वैराजलोकं ललिताश्रीधामाऽव्याकृतं तथा ॥६०॥
अमृताख्यं भूमलोकं वासुदेवालयं तथा ।
सदाशिवस्य कैलासं साकेतं स व्यलोकयत् ॥६१॥
मायालोकं महाविष्णुलोकं गोलोकमित्यपि ।
वैकुण्ठं सीमधामानि धामाऽक्षरं व्यलोकयत् ॥६२॥
परंधाम परब्रह्माऽनादिकृष्णनरायणम् ।
सर्वाऽवतारधर्तारं ह्यपश्यत् त्वक्षरेश्वरम् ॥६३॥
सुन्दरं षोडशवर्षं मुक्ताख्यं पुरुषोत्तमम् ।
मुक्तानिकाऽर्चितं तेजोव्याप्तं भूषाविभूषितम् ॥६४॥
दिव्यमालाधरं दिव्यकोटिमन्मथशोभनम् ।
रमणीयं युवानं चाऽऽप्राणखात् सुसुवर्णकम् ॥६५॥
राधारमाप्रियालक्ष्मीपद्मावतीप्रसेवितम् ।
माणिकीस्वामिनं बद्रीश्वरं कृष्णं व्यलोकयत् ॥६६॥
सर्वलावण्यसौन्दर्याऽमृतपीयूषसंभृतम् ।
प्रेमस्नेहप्रमोदानामाश्रयं वरमूर्तिकम् ॥६७॥
कोटिकोट्यर्कतेजांसि यस्थैकरोमरेणुके ।
वर्तन्ते शाश्वततुष्टितृप्तिदानि सुखानि च ॥६८॥
सकौस्तुभं समुकुटं दिव्याभरणभूषितम् ।
व्यलोकयद्धरिं राजा पितृभ्यां सहितं तदा ॥६९॥
राज्ञी चापि कृपया वै सर्वं व्यलोकयत् सती ।
विभूतीश्च तथा दिव्याः सौभाग्यानि व्यलोकयत् ॥७०॥
दिव्यभोगान् दिव्ययोगान् सर्वाश्च दिव्यसम्पदः ।
दिव्याऽमृतानि सर्वाणि दिव्याः सिद्धीर्व्यलोकयत् ॥७१॥
दिव्यालयान् मन्दिराणि दिव्यरत्नालयाँस्तथा ।
दिव्यतेजोमयान्नैजान् विग्रहानवलोकयत् ॥७२॥
अनन्तसुखमासाद्य कृष्णनारायणस्य तौ ।
विहाय तत्त्विमं लोकं प्रत्यागन्तुं न चेच्छतः ॥७३॥
अजराऽमृतभावं वै प्राप्य बद्रि तु को जनः ।
इच्छेन्मायामये गन्तुं पुनर्यो बहिरूर्ध्वगः ॥७४॥
तथापि तौ हरेस्तत्राऽऽज्ञया पुनः स्ववर्ष्मणोः ।
आययतुः प्रसह्यैव कुंकुमवापिकाजुषोः ॥७५॥
उत्थितौ सहसा कृष्णसन्निधौ दिव्यवैभवौ ।
इन्द्रियाऽन्तःकरणानि दिव्यान्नभवन्नेतयोः ॥७६॥
न रूपं रोचते मायामयं विलोकितुं तदा ।
न स्पर्शो रोचते मायामयः स्प्रष्टुं तयोस्तदा ॥७७॥
न रसाश्चापि रोचन्ते भोक्तुं सुदिव्यवर्ष्मणोः ।
न गन्धो रोचते मायामयो दुर्गन्धवत् तयोः ॥७८॥
न शब्दो रोचते मायामयो वक्तुं तयोस्ततः ।
तयोर्मायामयं सर्वं सहसा निरयायते ॥७९॥
त्यक्ताहारविहारौ श्रीकृष्णलग्नमानसौ ।
वर्तते बद्रिके कृष्णनारायणस्य सन्निधौ ॥८०॥
बालकृष्णस्य वै मूर्तेः सुखानन्दाशनौ च तौ ।
विन्देते न क्षुधां नैव तृषां तु मायिकीं तदा ॥८१॥
एवंविधौ महादिव्यानन्दभोगपरायणौ ।
मुक्तौ जीवन्प्रमुक्तौ तौ विदेहाविव संवृतौ ॥८२॥
कृष्णमूर्तेर्महामूल्यं प्राप्तं ब्रह्मरसस्य यत् ।
न राज्यभोगमूल्यं वै तदग्रे स्थातुमर्हति ॥८३॥
असारः खलु संसारस्तयोरग्रेऽभवत्तदा ।
न संसारे मनः स्थातुमभवच्च तयोः सदा ॥८४॥
प्रभोःकृष्णहरेर्ध्यानात् समागमात् प्रसेवनात् ।
नष्टानि च तयोः सर्वावरणानि समन्ततः ॥८५॥
जले स्थलेऽम्बरे गेहे भित्तौ वह्नौ निरोधने ।
अप्रत्याहतगतिकौ पारप्रवेशकारिणौ ॥८६॥
अजायतां नृपो राज्ञी सूक्ष्ममहत्प्रसिद्धिकौ ।
एवंविधौ तु तौ दिव्यौ कृष्णध्यानपरायणौ ॥८७॥
कृष्णचेष्टापरौ कृष्णकर्मकाण्डपरायणौ ।
कृष्णार्थकृतसर्वस्वौ व्यावृत्तेन्द्रियमानसौ ॥८८॥
दासदासीजने नैजे चाऽदत्तमानसौ सदा ।
अवर्ततां नृपो राज्ञी कृष्णपूजापरायणौ ॥८९॥
एवंविधौ तु तौ वीक्ष्य दासा दास्योऽनुगास्तथा ।
शुशुचुर्बहुधा बद्रि तयोः कृतेऽतिसंभ्रमाः ॥९०॥
तर्कयामासुरेतौ ते विचित्तौ किं प्रमत्तकौ ।
वायुरुग्णौ च वा जातौ मन्त्राभिचारधर्षितौ ॥९१॥
यद्वा तूदासीनवृत्तौ किं वा पिशाचवेशिनौ ।
भूतावेशपरौ किंवा चित्तभ्रमातिधर्षितौ ॥९२॥
अस्थिरमानसौ किंवा योग्यावेशमयौ च वा ।
ग्रहावेशप्रपीडौ वा किमेतौ संबभूवतुः ॥९३॥
इत्येवं बहुधा भृत्यजनास्तर्कान् प्रचक्रिरे ।
नैतयोस्ते तु याथार्थ्यं स्थितेः पारं प्रप्रेदिरे ॥९४॥
प्रार्थनां चक्रिरे भृत्यजनाः कृष्णाय ते तदा ।
अनादिश्रीकृष्णनारायण विष्णो जगद्गुरो! ॥९५॥
राज्ञ्या नृपस्य वैचित्त्यं किंवा जानीम एव न ।
चिन्तातुरा जना भृत्या राज्यं राष्ट्रं तथाविधम् ॥९६॥
सर्वमुद्वेगमापन्नं राज्ञः स्थितेरतर्कनात् ।
त्वमुद्धारकरः कृष्णो यथायोग्यं विधेहि वै ॥९७॥
स्वास्थ्यं राज्ञो भवेत् सम्यग् राज्यं प्रति प्रयाति च ।
यथा तथा कृपां कृत्वा विधेहि कुशलं हि नः ॥९८॥
राज्ञी चापि तथा चास्ते विसंज्ञेव यथा नृपः ।
जानासि त्वं परमात्मन् कल्याणं कुरु सर्वथा ॥९९॥
भक्तस्य भगवन् कृष्ण रक्षणं कुशलं कुरु ।
इत्येवमर्थयामासुर्भृत्याद्या नृपमानवाः ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने ब्रह्मणः सृष्ट्युत्तरं राज्ञां निर्माणं, दिलावरीराजधानीनृपस्य नागविक्रमस्य तीर्थयात्राविचरणे कुंकुमवाप्यां गमनं, तत्र समाधिफलं दिव्यतापादनमित्यादिनिरूपणनामा नवाऽधिकशततमोऽध्यायः ॥१०९॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP